००४

सनक उवाच ॥
श्रद्धापूर्वाः सर्वधर्मा मनोरथफलप्रदाः ॥
श्रद्धयासाध्यते सर्वं श्रद्धया तुष्यते हरिः ॥ ४-१ ॥

भक्तिर्भक्त्यैव कर्त्तव्यातथा कर्माणि भक्तितः ॥
कर्मश्चद्धाविहीनानि न सिध्यन्तिं द्विजोत्तमाः ॥ ४-२ ॥

यथाऽऽलोको हि जन्तूनां चेष्टाकारणतां गतः ॥
तथैव सर्वसिद्धीनां भक्तिः परमकारणम् ॥ ४-३ ॥

यथा समस्त लोकानां जीवनं सलिलं स्मृतम् ॥
तथा समस्तसिद्धीनां जीवनं भक्तिरिष्यते ॥ ४-४ ॥

यथा भूमिं समाश्रित्य सर्वे जीवन्ति जन्तवः ॥
तथा भक्तिं समाश्रित्य सर्वकार्य्याणि साधयेत् ॥ ४-५ ॥

श्रद्धाबँल्लभते धर्म्मं श्रद्धावानर्थमाप्नुयात् ॥
श्रद्धया साध्यते कामः श्रद्धावान्मोक्षमान्पुयात् ॥ ४-६ ॥

न दानैर्न तपोभिर्वा यज्ञैर्वा बहुदक्षिणैः ॥
भक्तिहीनेर्मुनिश्चेष्ठ तुष्यते भगवान्हरिः ॥ ४-७ ॥

मेरुमात्रसुवर्णानां कोटिकोटिसहस्रशः ॥
दत्ता चाप्यर्थनाशाय यतोभक्तिविवर्जिता ॥ ४-८ ॥

अभक्त्या यत्तपस्तप्तैः केवलं कायशोषणम् ॥
अभक्त्या यद्धुतं हव्यं भस्मनि न्यस्तहव्यवत् ॥ ४-९ ॥

यत्किञ्चित्कुरुते कर्म्मश्रद्धयाऽप्यणुमात्रकम् ।.
तन्नाम जायते पुंसां शाश्वतं प्रतीदायकम् ॥ ४-१० ॥

अश्वमेघसहस्त्रं वा कर्म्म वेदोदितं कृतम् ॥
तत्सर्वं निष्फलं ब्रह्मन्यदि भक्तिविवर्जितम् ॥ ४-११ ॥

हरिभक्तिः परा नॄणां कामधेनूपमा स्मृता ॥
तस्यां सत्यां पिबन्त्यज्ञाः संसारगरलं ह्यहो ॥ ४-१२ ॥

असारभूते संसारे सारमेतदजात्मज ॥
भगवद्भक्तसङ्गश्च हरिभक्तिस्तितिक्षुता ॥ ४-१३ ॥

असूयोपेतमनसां भक्तिदानादिकर्म्म यत् ॥
अवेहि निष्फलं ब्रहंस्तेषां दूरतरो हरिः ॥ ४-१४ ॥

परिश्रियाभितत्पानां दम्भाचाररतात्मनाम् ॥
मृषा तु कुर्वतां कर्म तेषां दूरतरो हरिः ॥ ४-१५ ॥

पृच्छतां च महाधर्म्मान्वदतां वै मृषा च तान् ॥
धर्मेष्वभक्तिमनसां तेषां दूरतरो हरिः ॥ ४-१६ ॥

वेदप्रणिहितो धर्म्मो धर्म्मो वेदो नारायणः परः ॥
तत्राश्रद्धापरा ये तु तेषां दूरतरो हरिः ॥ ४-१७ ॥

यस्य धर्म्मविहीनानि दिनान्यायान्ति यान्ति च ॥
स लोहकारभस्त्रेव श्वसन्नपि न जीवति ॥ ४-१८ ॥

धर्मार्थकाममोक्षाख्याः पुरुषार्थाः सनातनाः ॥
श्रद्धावतां हि सिध्यन्ति नान्यथा ब्रह्मनन्दन ॥ ४-१९ ॥

स्वाचारमनतिक्रम्य हरिभक्तिपरो हि यः ॥
स याति विष्णुभवनं यद्वै पश्यन्ति सूरयः ॥ ४-२० ॥

कुर्वन्वेदोदितान्धर्म्मान्मुनीन्द्र स्वाश्रमोचितान् ॥
हरिध्यानपरोयस्तु स याति परमं पदम् ॥ ४-२१ ॥

आचारप्रभवो धर्मः धर्म्मस्य प्रभुरच्युतः ॥
आश्रमाचारयुक्तेन पूजितः सर्वदा हरिः ॥ ४-२२ ॥

यः स्वाचारपरिभ्रष्टः साङ्गवेदान्तगोऽपि वा ॥
स एव पतितो ज्ञेयो यतः कर्मबहिष्कृतः ॥ ४-२३ ॥

हरिभक्तिपरि वाऽपि हरिध्यानपरोऽपि वा ॥
भ्रष्टो यः स्वाश्रमाचारात्पतितः सोऽभिधीयते ॥ ४-२४ ॥

वेदो वा हरिभक्तिर्वा भक्तिर्वापि महेश्वरे ॥
आचारात्पतितं मूढं न पुनाति द्विजोत्तम ॥ ४-२५ ॥

पुण्यक्षेत्राभिगमनं पुण्यतीर्थनिषेवणम् ॥
यज्ञो वा विविधो ब्रह्मंस्त्यक्ताचारन्न रक्षति ॥ ४-२६ ॥

आचारात्प्राप्यते स्वर्ग आचारात्प्राप्यते सुखम् ॥
आचारात्प्राप्यते मोक्ष आचारात्किं न लभ्यते ॥ ४-२७ ॥

आचाराणान्तु सर्वेषां योगानां चैव सत्तम् ॥
हरिभक्तेपरि तथा निदानं भक्तिरिष्यते ॥ ४-२८ ॥

भक्त्यैव पूज्यते विष्णुर्वाञ्छितार्थफलप्रदः ॥
तस्मात्समस्तलोकानां भक्तिर्मातेति गीयते ॥ ४-२९ ॥

जीवन्ति जन्तवः सर्वे यथा मातराश्रिताः ॥
तथा भक्तिं समाश्रित्य सर्वे जीवन्ति धार्म्मिकाः ॥ ४-३० ॥

स्वाश्रमाचारयुक्तस्य हरिभक्तिर्यदा भवेत् ॥
न तस्य त्रिषु लोकेषु सदृशोऽस्त्यजनन्दन ॥ ४-३१ ॥

भक्त्या सिध्यन्ति कर्म्माणि कर्म्माणि कर्म्माभिस्तुष्यते हरिः ॥
तस्मिंस्तुष्टे भवेज्ज्ञानं ज्ञानान्मोक्षमवाप्यते ॥ ४-३२ ॥

भक्तिस्तु भगवद्भक्तसङ्गेन खलु जायते ॥
सत्सङ्गं प्राप्यते पुम्भिः सुकृतैः पूर्वसञ्चितैः ॥ ४-३३ ॥

वर्णाश्रमाचाररता भगवद्भक्तिलालसाः ॥
कामादिदोष्नि र्मुक्तास्ते सन्तो लोकशिक्षकाः ॥ ४-३४ ॥

सत्ङ्गः परमो ब्रह्मन्न लभ्येताकृतात्मनाम् ॥
यदि लभ्येत विज्ञेयं पुण्यं जन्मान्तरार्जितम् ॥ ४-३५ ॥

पूर्वार्जितानि पापानि नाशमायान्ति यस्य वै ॥
सत्सङ्गतिर्भवेत्तस्य नान्यथा घटते हि सा ॥ ४-३६ ॥

रविर्हि रशिमजालेन दिवा हन्तिबहिस्तमः ॥
सन्तः सूक्तिमरीच्योश्चान्तर्ध्वान्तं हि सर्वदा ॥ ४-३७ ॥

दुर्लभाः पुरुषा लोके भगवद्भक्तिलालसाः ॥
तेषां सङ्गो भवेद्यस्य तस्य शान्तिर्हि शाश्वती ॥ ४-३८ ॥

नारद उपाच ॥
किंलक्षणा भागवतास्ते च किं कर्म्म कुर्वते ॥
तेषां लोको भवेत्कीदृक्तत्सर्वं ब्रूहि तत्त्वतः ॥ ४-३९ ॥

त्वं हि भक्तो रमेशस्य देवदेवस्य चक्रिणः ॥
एतान्निगदितुं शक्तस्त्वतो नास्त्यधिकोऽपरः ॥ ४-४० ॥

सनक उवाच ॥
श्रृणु ब्रह्मन्परं गुह्यं मार्कण्डेयस्य धीमनः ॥
यमुवाच जगन्नाथो योगनिद्राविमोचितः ॥ ४-४१ ॥

योऽसौ विष्णुः परं ज्योतिर्देवदेवः सनातनः ॥
जगदूपी जगत्कर्त्ता शिवब्रह्म स्वरुपवान् ॥ ४-४२ ॥

युगान्ते रौद्ररुपेण ब्रह्माण्डलसबृंहितः ॥
जगत्येकार्णवीभूते नष्टे स्थावरजङ्गमे ॥ ४-४३ ॥

भगवानेव शेषात्मा शेते वटदले हरिः ॥
असङ्ख्याताब्जजन्माद्यैराभूषिततनूरूहः ॥ ४-४४ ॥

पादाङ्गुष्टाग्रनिर्यातगङ्गाशीताम्बुपावनः ॥
सूक्ष्मात्सूक्ष्मतरो देवो ब्रह्माण्डग्रासम्बृंहितः ॥ ४-४५ ॥

वटच्छदे शयानोऽभूत्सर्वशक्तिसमन्वितः ॥
तस्मिन्स्थाने महाभागो नारायणपरायणः ॥
मार्कण्डेयः स्थिनस्तस्य लीलाः पश्यन्महेशितुः ॥ ४-४६ ॥

ऋषय ऊचुः ॥
तस्मिन्काले महाघोरे नष्टे स्थावरजङ्गमे ॥
हरिरेकः स्थित इति मुने पूर्वं हि शुश्रुम ॥ ४-४७ ॥

जगत्येकार्णवीभूते नष्टे स्थावरञ्जगमे ॥
सर्वग्रस्तेन हरिणा किमर्थं सोऽवशेषितः ॥ ४-४८ ॥

परं कौतूहलं ह्यत्रं वर्त्ततेऽतीव सूत नः ॥
हरिकीर्तिसुधापाने कस्यालस्यं प्रजायते ॥ ४-४९ ॥

सूत उवाच ॥
॥ आसीन्मुनिर्महाभागो मृकण्डुरिति विश्रुतः ॥
शालग्रामे महातीर्थे सोऽतप्यत महातपाः ॥ ४-५० ॥

युगानाम युतं ब्रह्मन्गृणन्ब्रह्म सनातनम् ॥ट
निराहारः क्षमायुक्तः सत्यसन्धो जितेन्द्रियः ॥ ४-५१ ॥

आत्मवत्सर्वभूतानि पश्यन्विषयनिःस्पृहः ॥
सर्वभूतहितो दान्त स्तताप सुमहत्तपः ॥ ४-५२ ॥

तत्तापःशङ्किताः सर्वे देवा इन्द्रादयस्तदा ॥
परेशं शरणं जग्मुर्नारायणमनामयम् ॥ ४-५३ ॥

क्षीराब्धेरुत्तरं तीरं सम्प्राप्यत्रिदिवौकसः ॥
तुष्टुवुर्देवदेवेशं पह्मनाभं जगद्गुरुम् ॥ ४-५४ ॥

देवा ऊचुः ॥
नारायणाक्षरानन्त शरणागतपालक ॥
मृकण्डुतपसा त्रस्तान्पाहि नः शरणागतान् ॥ ४-५५ ॥

जय देवाधिदेवेश जय शङ्खगदाधर ॥
जयो लोकस्वरुपाय जयो ब्रह्माण्डहेतवे ॥ ४-५६ ॥

नमस्ते देवदेवेश नमस्ते लोकपावन ॥
नमस्ते लोकनाथाय नमस्ते लोकसाक्षिणे ॥ ४-५७ ॥

नमस्ते ध्यानगम्याय नमस्ते ध्यानहेतवे ॥
नमस्ते ध्यानरुपाय नमस्ते ध्यानपाक्षिणे ॥ ४-५८ ॥

केशिहन्त्रे नमस्तुभ्यं मधुहन्त्रे परात्मने ॥
नमो भूम्यादिरूपाय नमश्चैतन्यरुपिणे ॥ ४-५९ ॥

नमो ज्येष्टाय शुद्धाय निर्गुणाय गुणात्मने ॥
अरुपाय स्वरुपाय बहुरुपाय ते नमः ॥ ४-६० ॥

नमो ब्रह्मण्यदेवाय गोब्राह्मणहिताय च ॥
जगद्धिताय कृष्णाय गोविन्दाय नम्नोमः ॥ ४-६१ ॥

नमो हिरण्यगर्भाय नमो ब्रह्मादिरुपिणे ॥
नमः सूर्य्यादिरुपाय हव्यकव्यभुजे नमः ॥ ४-६२ ॥

नमो नित्याय वन्द्याय सदानन्दैकरुपिणे ॥
नमः स्मृतार्तिनाशाय भूयो भूयो नमो नमः ॥ ४-६३ ॥

एवं देवस्तुतिं श्रुत्वा भगवान्कमलापतिः ॥
प्रत्यक्षतामगात्तेषां शङ्कचत्रगदाधरः ॥ ४-६४ ॥

विकचाम्बुजपत्राक्षं सूर्य्यकोटिसमप्रभम् ॥
सर्वालङ्कारसंयुक्तं श्रीवत्साङ्कितवक्षसम् ॥ ४-६५ ॥

पीताम्बरधरं सौम्यं स्वर्णयज्ञोपवीतिनम् ॥
स्तृयमानं मुनिवरैः पार्षदप्रवरावृत्तम् ॥ ४-६६ ॥

तं दृष्य्वा देवसङ्घास्ते तत्तेजोहततेजसः ॥
नमश्चक्रुर्मुदा युक्ता अष्टाङ्गौरवनिं गताः ॥ ४-६७ ॥

ततः प्रसन्नो भगवान्मेघगम्भीरनिस्वनः ॥
उवाच प्रीणयन्देवान्नतानिन्द्रपुरोगमान् ॥ ४-६८ ॥

श्रीभगवानुवाच ॥
जाने वो मानसं दुःखं मृकण्डुतपसोद्गम् ॥
युष्मान्न बाधते देवाः स ऋषिः सज्जनाग्राणीः ॥ ४-६९ ॥

सम्पद्भिः संयुता वापि विपद्भिश्चापि सज्जनाः ॥
सर्वथान्यं न बाधन्ते स्वप्नेऽपि सुरसत्तमाः ॥ ४-७० ॥

सततं बाध्यमानोऽपि विषयाख्यैररातिभिः ॥
अविधायात्मनो रक्षामन्यान्द्वेष्टि कथं सुधीः ॥ ४-७१ ॥

तापत्रयाभिधानेन बाध्यमानो हि मानवः ॥
अन्यं क्रीडयितुं शक्तः कथं भवति सत्तमः ॥ ४-७२ ॥

कर्मणा मनसा वाचा बाधते यः सदा परान् ॥
नित्यं कामादिभिर्युक्तो मूढधीः प्रोच्यते तु सः ॥ ४-७३ ॥

यो लोकहितकृन्मर्त्यो गतासुर्यो विमत्सरः ॥
निःशङ्गः प्रोच्यते सद्भिरिहामात्र च सत्तमाः ॥ ४-७४ ॥

सशङ्कः सर्वदा दुःखी निःशङ्कः सुखमाप्नुयात् ॥
गच्छध्वं स्वालयं स्वस्थाः क्रीडयिष्यति वो न सः ॥ ४-७५ ॥

भवतां रक्षकश्चाहं विहरध्वं यथासुखम् ॥
इति दत्वा वरं तेषामतसीकुसुमप्रभः ॥ ४-७६ ॥

पश्यतामेव देवानां तत्रैवान्तरधीयत ॥
तुष्टात्मानः सुरगणां ययुर्नाकं यथागतम् ॥ ४-७७ ॥

मृकण्डोरपि तुष्टात्मा हरिः प्रत्यक्षतामगात् ॥
अरुपं परमं ब्रह्मस्वप्रकाशं निरञ्जनम् ॥ ४-७८ ॥

अतसीपुष्पसङ्काशं पीतवाससमच्युतम् ॥
दिव्यायुधधरं दृष्ट्वा मृकण्डुर्विस्मितोऽभवत् ॥ ४-७९ ॥

ध्यानादुन्मील्य नयनं अपश्यद्धरिमग्रतः ॥
प्रसन्नवदनं शान्तं धातारं विश्वतेजसम् ॥ ४-८० ॥

रोमाञ्चितशरीरोऽसावानन्दाश्रुविलोचनः ॥
ननाम दण्डवद्भूमौ देवदेव सनातनम् ॥ ४-८१ ॥

अश्रुभिः क्षालयंस्तस्य चरणौ हर्षसम्भवैः ॥
शिरस्यञ्चलिमाधाय स्तोतुं समुपचक्रमे ॥ ४-८२ ॥

मृकण्डुरुवाच ॥
नमः परेशाय परात्मरुपिणे परात्परस्प्रात्परतः पराय ॥
अपारपाराय परानुकर्त्रे नमः परेभ्यः परपारणाय ॥ ४-८३ ॥

यो नामजात्यादिविकल्पहीनः शब्दादिदोषव्यतिरेकरुपः ॥
बहुस्वरुपोऽपि निरञ्जनो यस्तमीशमीढ्यं परमं भजामि ॥ ४-८४ ॥

वेदान्तवेद्यं पुरुषं पुराणं हिरण्यगर्भादिजगत्स्वरुपम् ॥
अनूपमं भक्ति जनानुकम्पिनं भजामि सर्वेश्वरमादिमीड्यम् ॥ ४-८५ ॥

पश्यन्ति यं वीतसमस्तदोषा ध्यानैकनिष्ठा विगतस्पृहाश्च ॥
निवृत्तमोहाः परमं पवित्रं नतोऽस्मि संसारनिर्वर्त्तकं तम् ॥ ४-८६ ॥

स्मृतार्तिनाशनं विष्णुं शरणागतपालकम् ॥
जगत्सेव्यं जगाद्धाम परेशं करुणाकरम् ॥ ४-८७ ॥

एवं स्तुतः स भगवान्विष्णुस्तेन महर्षिणा ॥
अवाप परमां तुष्टिं शङ्खचक्रगदाधरः ॥ ४-८८ ॥

अयालिङ्ग्य मुनिं देवश्चतुर्भिर्दीर्घबाहुभिः ॥
उवाच परमं प्रीत्या वरं वरय सुव्रत ॥ ४-८९ ॥

प्रीतोऽस्मि तपसा तेन स्तोत्रेण च तवानघ ॥
मनसा यदभिप्रेतं वरं वरय सुव्रत ॥ ४-९० ॥

मृकण्डुरूवाच ॥
देवदेव जगन्नाथ कृतार्थोऽस्मि न संशयः ॥
त्वद्दर्शनमपुण्यानां दुर्लभं च यतः स्मृतम् ॥ ४-९१ ॥

ब्रह्माद्या यं न पश्यन्ति योगिनः संशितव्रताः ॥
धर्मिष्टा दीक्षिताश्वापि वीतरागा विमत्सराः ॥ ४-९२ ॥

तं पश्यामि परं धाम किमतोऽन्यं वरं वृणे ॥
एतेनैव कृतार्थोऽस्मि जनार्दन जगद्गुरो ॥ ४-९३ ॥

यत्रामस्मृतिमात्रेण महापातकिनोऽपि ये ॥
तत्पदे परमं यान्नि ते दृष्ट्वा किमुनाच्युत ॥ ४-९४ ॥

श्रीभगवानुवाच ॥
सत्यत्प्रुक्तं त्वया ब्रह्मान्प्रीतीऽस्मि तव पण्डित ॥
मद्दर्शनं हि विफलं न कदाचिद्भविष्यति ॥ ४-९५ ॥

विष्णिर्भक्तकुटुम्बीति वदन्ति विवुधाः सदा ॥
तदेव पालयिष्यामि मज्जनो नानृतं वदेत् ॥ ४-९६ ॥

तस्मात्त्वत्तपसातुष्टो यास्यामि तव पुत्रताम् ॥
समस्तगुणसंयुक्तो दीर्घजीवी स्वरुपवान् ॥ ४-९७ ॥

मम जन्म कुले यस्य तत्कुलं मोक्षगामि वै ॥
मयि तुष्टे मुनिश्रेष्ट किमसाध्यं जगत्रये ॥ ४-९८ ॥

इत्युक्त्वा देवदेवशो मुनेरतस्य समीक्षतः ॥
अन्तर्दधे मृकण्डुश्च तपसः समवर्तत ॥ ४-९९ ॥

इति श्रीबृहन्नारदीयपुराणे पूर्वभागे प्रथमपादे भक्तिवर्णनप्रसङ्गेन मार्कण्डेयचरितारम्भो नाम चतुर्थोऽध्यायः ॥ ४ ॥