००१

ॐ श्रीगुरुभ्यो नमः ॥
ॐ श्रीगणेशाय नमः ॥
ॐ नमो भगवते वासुदेवाय ॥

ॐ नारायाणं नमस्कृत्य नरं चैव नरोत्तमम् ॥
देवीं सरस्वतीं चैवततो जयमुदीरयेत् ॥ १ ॥

ॐ वेदव्यासाय नमः ॥
वृन्दे वृन्दावनासीनमिन्दिरानन्दन्दमन्दिरम् ॥
उपेन्द्रं सान्द्रकारुण्यं परानन्दं परात्परम् ॥ १-१ ।

ब्रह्मविष्णुमहेशाख्यां यस्यांशा लोकसाधकाः ॥
तमादिदेवं चिद्रूपं विशुद्ध परमं भजे ॥ १-२ ॥

शौनकाद्या महात्मान ऋषयो ब्रह्मवादिनः ॥
नैमिषाख्ये महारण्ये तपस्तेपुर्मुमुक्षवः ॥ १-३ ॥

जितेन्द्रिया जिताहाराः सन्तः सत्यपराक्रमाः ॥
यजन्तः परया भक्त्या विष्णुमाद्यं सनातनम् ॥ १-४ ॥

अनीर्ष्याः सर्वधर्म्मज्ञा लोकानुग्रहतत्पराः ॥
निर्म्ममा निरहङ्काराः परस्मिन्नतमानसाः ॥ १-५ ॥

न्यस्तकामा विवृजिनाः शमादिगुणसंयुताः ॥
कृष्णाजिनोत्तरीयास्ते जटिला ब्रह्मचारिणः ॥ १-६ ॥

गृणन्तः परमं ब्रह्म जगच्चक्षुः समौजसः ॥
धर्म्मशास्त्रार्थतत्त्वज्ञास्तेपुर्नैमिषकानने ॥ १-७ ॥

यज्ञैर्यज्ञपतिं केचिज्ज्ञानैर्ज्ञानात्मकं परे ॥
केचिच्च परया भक्त्या नारायणमपूजयन् ॥ १-८ ॥

एकदा ते महात्मानः समाजं चक्रुरुतमाः ॥
धर्मार्थकाममोक्षाणामुपायाञ्ज्ञातुमिच्छवः ॥ १-९ ॥

षङ्विंशतिसहस्त्राणि मुनीनामूर्द्ध्वरेतसाम् ॥
तेषां शिष्यप्रशिष्याणां सङ्ख्या वक्तुं न शक्यते ॥ १-१० ॥

मुनयो भावितात्मानो मिलितास्ते महौजसः ॥
लोकानुग्रहकर्तारो वीतरागा विमत्सराः ॥ १-११ ॥

कानि क्षेत्राणि पुण्यानि कानि तीर्थानि भूतले ॥
कथं वा प्राप्यते मुक्तिर्नृणां तापार्तचेतसाम् ॥ १-१२ ॥

कथं हरौ मनुष्याणां भक्तिरव्यभिचारिणी ॥
केन सिध्येत च फलं कर्मणस्त्रिविधात्मनः ॥ १-१३ ॥

इत्येवं प्रष्टुमात्मानमुद्यतान्प्रेक्ष्य शौनकः ॥
प्राञ्जलिर्वाक्यमाहेदं विनयावनतः सुधीः ॥ १-१४ ॥

शौनक उवाच ॥
आस्ते सिद्धाश्रमे पुण्ये सूतः पौराणिकोत्तमः ॥
यजन्मखैर्बहुविधैर्विश्वरुपं जनार्दनम् ॥ १-१५ ॥

स एतदखिलं वेत्ति व्यासशिष्यो महामुनिः ॥
पुराणसंहितावक्ता शान्तो वै रोमहर्षणिः ॥ १-१६ ॥

युगे युगेऽल्पकान्धर्मान्निरीक्ष्य मधुसूदनः ॥
वेदव्यास स्वरूपेण वेदभागं करोति वै ॥ १-१७ ॥

वेदव्यासमुनिः साक्षान्नारायण इति द्विजाः ॥
शुश्रुमः सर्वशास्त्रेषु सूतस्तु व्यासशासितः ॥ १-१८ ॥

तेन संशासितः सूतो वेदव्यासेन धीमता ॥
पुराणानि स वेत्त्येव नान्यो लोके ततः परः ॥ १-१९ ॥

स पुराणार्थविल्लोके स सर्वज्ञः स बुद्धिमान् ॥
स शान्तो मोक्षधर्मज्ञः कर्मभक्तिकलापवित् ॥ १-२० ॥

वेदवेदाङ्गशास्त्राणां सारभूतं मुनीश्वराः ॥
जगद्धितार्थं तत्सर्वं पुराणेषूक्तवान्मुनिः ॥ १-२१ ॥

ज्ञानार्णवो वै सूतस्तत्सर्वतत्त्वार्थकोविदः ॥
तस्मात्तमेव पृच्छाम इत्यूचे शौनको मुनीन् ॥ १-२२ ॥

ततस्ते मुनयः सर्वे शौनकं वाग्विदां वरम् ॥
समाश्लिष्य सुसम्प्रीताः साधु साध्विति चाब्रुवन् ॥ १-२३ ॥

अथ ते मुनयो जग्मुः पुण्यं सिद्धाश्रमं वने ॥
मृगव्रजसमाकीर्णं मुनिभिः परिशोभितम् ॥ १-२४ ॥

मनोज्ञभूरुहलताफलपुष्पविभूषितम् ॥
युक्तं सरोभिरच्छोदैरतिथ्यातिथ्यसङ्कुलम् ॥ १-२५ ॥

ते तु नारायणं देवमनन्तमपराजितम् ॥
यजन्तमग्निष्टोमेन ददृशू रोमहर्षणिम् ॥ १-२६ ॥

यथार्हमर्चितास्तेन सूतेन प्रथितौजसः ॥
तस्यावभृथमीक्षन्तस्तत्र तस्थुर्मखालये ॥ १-२७ ॥

अधरावभृथस्नातं सूतं पौराणिकोत्तमम् ॥
पप्रच्छुस्ते सुखासीनां नैमिषारण्यवासिनः ॥ १-२८ ॥

ऋषय ऊचुः
वयं त्वतिथयः प्राप्ता आतिथेयास्तु सुव्रत ॥
ज्ञानदानोपचारेण पूजयास्मान्यथाविधिः ॥ १-२९ ॥

दिवौकसो हि जीवन्ति पीत्वा चन्द्रकलामृतम् ॥
ज्ञानामृतं भूसुरास्तु मुने त्वन्मुखनिःसृतम् ॥ १-३० ॥

येनेदमखिलं जातं यदाधारं यदात्मकम् ॥
यस्मिन्प्रतिष्ठितं तात यस्मिन्वा लयमेष्यति ॥ १-३१ ॥

केन विष्णुः प्रसन्नः स्यात्स कथं पूज्यते नरैः ॥
कथं वर्णाश्रमाचारश्चातिथेः पूजनं कथम् ॥ १-३२ ॥

सफलं स्याद्यथा कर्म मोक्षोपायः कथं नृणाम् ॥
भक्त्या किं प्राप्यते पुम्भिस्तथा भक्तिश्च कीदृशी ॥ १-३३ ॥

वद सूत मुनिश्रेष्ट सर्वमेतदसंशयम् ॥
कस्य नो जायते श्रद्धा श्रोतुं त्वद्वचनामृतम् ॥ १-३४ ॥

सूत उवाच॥ ॥
श्रृणुध्वमृषयः सर्वे यदिष्टं वो वदामि तत् ॥
गीतं सनकमुख्यैस्तु नारदाय महात्मने ॥ १-३५ ॥

पुराणं नारदोपाख्यमेतद्वेदार्थसम्मितम् ॥
सर्वपापप्रशमनं दुष्टग्रहनिवारणम् ॥ १-३६ ॥

दुःस्वप्ननाशनं धर्म्यं भुक्तिमुक्तिफलप्रदम् ॥
नारायणकथोपेतं सर्वकल्याणकारणम् ॥ १-३७ ॥

धर्मार्थकाममोक्षाणां हेतुभूतं महाफलम् ॥
अपूर्वपुण्यफलदं श्रृणुध्वं सुसमाहिताः ॥ १-३८ ॥

महापातकयुक्तो वा युक्तो वाप्युपपातकैः ॥
श्रृत्वैतदार्षं दिव्यं च पुराणं शुद्धिमाप्नुयात् ॥ १-३९ ॥

यस्यैकाध्यायपठनाद्वाजिमेधफलं लभेत् ॥
अध्यायद्वयपाठेन राजसूयफलं तथा ॥ १-४० ॥

ज्येष्ठमासे पूर्णिमायां मूलक्षें प्रयतो नरः ॥
स्नात्वा च यमुना तोये मथुरायामुपोषितः ॥ १-४१ ॥

अभ्यर्च्य विधितवत्कृष्णं यत्फलं लभते द्विजाः ॥
तत्फलं समवाप्रोति अध्यायत्रयपाठतः ॥ १-४२ ॥

तत्प्रवक्ष्यामि वः सम्यक् शृणुध्वं गदतो मम ॥
जन्मायुतार्जितैः पापैर्मुक्तः कोटिकुलान्वितः ॥ १-४३ ॥

ब्रह्मणः पदमासाद्य तत्रैव प्रतितिष्ठति ॥
श्रुत्वास्य तु दशाध्यायान्भक्तिभावेन मानवः ॥ १-४४ ॥

निर्वाणमूक्तिं लभते नात्र कार्या विचारणा ॥
श्रेयसां परमं श्रेयः पवित्राणामनुत्तमम् ॥ १-४५ ॥

दुःखप्रनाशनं पुण्यं श्रोतव्यं यत्नतो द्विजाः ॥
श्रद्धया सहितो मर्त्यः श्लोकं श्लोकार्द्धमेव वा ॥ १-४६ ॥

पठित्वा मुच्यते सद्यो महापातकराशिभिः ॥
सतामेव प्रवक्तव्यं गुह्याद्गुह्यतरं यतः ॥ १-४७ ॥

वावयेत्पुरतो विष्णोः पुण्यक्षेत्रे द्विजान्तिके ॥
ब्रह्यद्रोहपराणां च दम्भाचारयुतात्मनाम् ॥ १-४८ ॥

जनानां बकवृतीनां न ब्रूयादिदमुत्तमम् ॥
त्यक्तकामादिदोषाणां विष्णुभक्तिरतात्मनाम् ॥ १-४९ ॥

सदाचारपराणां च वक्तव्यं मोक्षयसाधनम् ॥
सर्वदेवमयो विष्णुः स्मरतामार्तिनाशनः ॥ १-५० ॥

सद्भक्तिवत्सलो विप्रा भक्त्या तुष्यति नान्यथा ॥
अश्रद्धयापि यान्न्नाच्चि कीर्तितेऽथ स्मूतेऽपि वा ॥ १-५१ ॥

विमुक्तः पातकैर्मर्त्यो लभते पदमव्ययम् ॥
संसारधोरकान्ताग्दावाग्रिर्मधुसुदनः ॥ १-५२ ॥

स्मरतां सर्वपापानि नाशयत्याशु सत्तमाः ॥
तदर्थद्योतकमिदं पुराणं श्राव्यमुत्तमम् ॥ १-५३ ॥

श्रवणात्पठनाद्वापि सर्वपापविनाशकृत् ॥
यस्यास्य श्रवणे बुद्धिर्जायते भक्तिसंयुता ॥ १-५४ ॥

स एव कृतकृत्यस्तु सर्वशास्त्रार्थकोविदः ॥
यदर्जितं तपः पुण्यं तन्मन्ये सफलं द्विजाः ॥ १-५५ ॥

यदस्य श्रवणे भाक्तिरन्यथा नहि जायते ॥
सत्कथासु प्रर्वतन्ते सज्जना ये जगाद्धिताः ॥ १-५६ ॥

निन्दायां कलहे वापि ह्यसन्तः पाप्तात्पराः ॥
पुराणेष्वर्थवादत्वं ये वदन्ति नराधमाः ॥ १-५७ ॥

तैरर्जितानि पुण्यानि क्षयं यान्ति द्विजोत्तमाः ॥
समस्तकर्मनिर्मूलसाधनानि नराधमः ॥ १-५८ ॥

पुराणान्यर्थवादेन ब्रुवन्नरकमश्नुते ॥
अन्यानि साधयन्त्येव कार्याणि विधिना नराः ॥ १-५९ ॥

पुराणानि द्विजश्रेष्टाः साधयन्ति न मोहिताः ॥
अनायासेन यः पुण्यानीच्छतीह द्विजोत्तमाः ॥ १-६० ॥

श्रोतव्यानि पुराणानि तेन वै भक्तिभावतः ॥
पुराणश्रवणे बुद्धिर्यस्य पुंसः प्रवर्तते॥ १-६१ ॥

पुरार्जितानि पापानि तस्य नश्यन्त्यसंशयम् ॥
पुराणे वर्तमानेऽपि पापपाशेन यन्त्रितः ॥
आदरेणान्यगाथासु सक्तबुद्धिः पतत्यधः ॥ १-६२ ॥

सत्सङ्गदेवार्चनसत्कथासु हितोपदेशे निरतो मनुष्यः ॥
प्रयाति विष्णोः परमं पदं यद्देहावसानेऽच्युततुल्यतेजाः ॥ १-६३ ॥

तस्मादिदं नारदनामधेयं पुण्यं पुराणं श्रुणुत द्विजेन्द्राः ॥
यस्मिञ्छ्रुते जन्मजरादिहीनो नरो भवेदच्युतनिष्टचेताः ॥ १-६४ ॥

वरं वरेण्यं वरदं पुराणं निजप्रभाभावितसर्वलोकम् ॥
सङ्कल्पितार्थप्रदमादिदेवं स्मृत्वाव्रजेन्मुक्तिपदं मनुष्यः ॥ १-६५ ॥

ब्रह्मेशविष्ण्वादिशरीरभेदैर्विश्वं सृजत्यत्ति च पाति विप्राः ॥
तमादिदेवं परमं परेशमाधाय चेतस्युपयाति मुक्तिम् ॥ १-६६ ॥

यो नाम जात्यादिविकल्पहीनः परः पराणां परमः परस्मात् ॥
वेदान्तवेद्यः स्वजनप्रकाशः समीड्यते सर्वपुराणवेदैः ॥ १-६७ ॥

तस्मात्तिमीशं जगतां विमुक्तिमुपासनायालमजं मुरारिम् ॥
परं रहस्यं पुरुषार्थहेतुं स्मृत्वा नरो याति भवाब्धिपारम् ॥ १-६८ ॥

वक्तव्यं धार्मिकेभ्यस्तु श्रद्दधानेभ्य एव च ॥
मुमुक्षुभ्यो यतिभ्यश्च वीतरागेभ्य एव च ॥ १-६९ ॥

वक्तव्यं पुण्यदेशे च सभायां देवतागृहे ॥
पुण्यक्षेत्रे पुण्यतीर्थे देव ब्राह्मणसन्निधौ ॥ १-७० ॥

उच्छिष्टदेशे वक्तार आख्यानमिदमुत्तमम् ॥
पच्यन्ते नरके घोरे यावदाभूतसम्प्लवम् ॥ १-७१ ॥

मृषा श्रृणोति यो मूढो दम्भी भक्तिविवर्जितः ॥
सोऽपि तद्वन्महाघोरे नरके पच्यतेऽक्षये ॥ १-७२ ॥

नरो यः सत्कथामध्ये सम्भाषां कुरुतेऽन्यतः ॥
स याति नरकं घोरं तदेकाग्रमना भवेत् ॥ १-७३ ॥

श्रोता वक्ता चविप्रेन्द्रा एष धर्मः सनातनः ॥
असमाहितचित्तस्तु न जानाति हि किञ्चना ॥ १-७४ ॥

तत एकमना भूत्वा पिबेद्धरिकथामृतम् ॥
कथं सम्भ्रान्तचित्तस्य कथास्वादः प्रजायते ॥ १-७५ ॥

किं सुखं प्राप्यते लोके पुंसा सम्भ्रान्तचेतसा ॥
तस्मात्सर्वं परित्यज्य कामं दुःखस्य साधनम् ॥ १-७६ ॥

समाहितमना भूत्वाकुर्यादच्युतचिन्तनम् ॥
येन केनाप्युपायेन स्मृतो नारायणोऽव्ययः ॥ १-७७ ॥

अपि पातकयुक्तस्य प्रसन्नः स्यान्नसंशयः ॥
यस्य नारायणे भक्तिर्विभौ विश्वेश्वरेऽव्यये ॥
तस्य स्यात्सफलं जन्म मुक्तिश्चैव करे स्थिता ॥ १-७८ ॥

धर्मार्थकाममोक्षाख्यपुरुषार्था द्विजोत्तमाः ॥
हरिभक्तिपराणां वै सम्पद्यन्ते न संशयः ॥ १-७९ ॥

इति श्रीबृहन्नारदीयपुराणे पूर्वभागे प्रथमपादे सूतर्षिसंवादो नाम प्रथमोऽध्यायाः ॥