२९१

मत्स्यपुराणान्तर्गतसम्पूर्ण विषयवर्णनम्।

सूत उवाच।
एतद्वः कथितं सर्वं यदुक्तं विश्वरूपिणा।
मात्स्यं पुराणमखिलं धर्मकामार्थसाधनम् ॥ २९१.१

यत्रादौ मनुसंवादो ब्रह्मण्डकथनन्तथा।
साङ्ख्यं शारीरकं प्रोक्तं चतुर्मुखमुखोद्भवम् ॥ २९१.२

देवासुराणामुत्पत्तिर्मारुतोत्पत्तिरेव च।
मदनद्वादशी तद्वल्लोकपालाभिपूजनम् ॥ २९१.३

मन्वन्तराणामुद्देशो वैन्यराजाभिवर्णनम्।
सूर्यवैवस्वतोत्पत्तिः बुधस्यागमनं तथा ॥ २९१४

पितृवंशानुकथनं श्राद्धकालस्तथैव च।
पितृतीर्थप्रवासश्च सोमोत्पतिस्तथैव च॥ २९१.५

कीर्तनं सोमवंशस्य ययातिचरितं तथा।
कार्तवीर्यस्य महात्म्यं वृष्णिवंशानुकीर्तनम् ॥ २९१.६

भृगुशापस्तथा विष्णोर्द्दैत्यशापस्तथैव च।
कीर्तनं पुरुषेशस्य वंशो हौताशनस्तथा ॥ २९१.७

पुराणकीर्तनं तद्वत् क्रियायोगस्तथैव च।
व्रतं नक्षत्रसङ्ख्याकं मार्तण्डशयनं तथा ॥ २९१.८

कृष्णाष्टमीव्रतं तद्वद्रोहिणीचन्द्रसञ्ज्ञितम्।
तडागविधिमाहात्म्यं पादपोत्सर्ग एव च ॥ २९१.९

सौभाग्यशयनं तद्वदगस्त्यव्रतमेव च।
तथानन्ततृतीया तु रसकल्याणिनी तथा ॥ २९१.१०

आर्द्रानन्दकरी तद्वद्व्रतं सारस्वतं पुनः।
उपरागाभिषेकश्च सप्तमीस्नपनं पुनः ॥ २९१.११

भीमाख्या द्वादशी तद्वदनङ्गशयनं तथा।
अशून्यशयनं तद्वत्तथैवाङ्गारकव्रतम् ॥ २९१.१२

सप्तमी सप्तकं तद्वद्विशोक द्वादशी तथा।
मेरु प्रदानं दशधा ग्रहशान्तिस्तथैव च ॥ २९१.१३

ग्रहस्वरूपकथनं तथा शिवचतुर्दशी।
तथा सर्वफलत्यागः सूर्यवारव्रतं तथा ॥ २९१.१४

सङ्क्रान्तिस्नपनं तद्वद्विभूतिद्वादशीव्रतम्।
षष्टिव्रतानां माहात्म्यं तता स्नानविधिक्रमः ॥ २९१.१५

प्रयागस्य तु माहात्म्यं सर्वतीर्थानुकीर्तनम्।
पैलाश्रमफलं तद्वद्द्वीपलोकानुकीर्तनम् ॥ २९१.१६

ततान्तरिक्षचारश्च ध्रुवमाहात्म्यमेव च।
भुवनानि सुरेन्द्राणां त्रिपुराधोषणं तथा ॥ २९१.१७

पितृपिण्डदमाहात्म्यं मन्वन्तरविनिर्णयम्।
वज्राङ्गस्य तु सम्भूतिः तारकोत्पत्तिरेव च ॥ २९१.१८

तारकासुरमाहात्म्यं ब्रह्मदेवानुकीर्तनम्।
पार्वतीसम्भवस्तद्वत् तथा शिवतपोधनम्॥ २९१.१९

अनङ्गदेहदाहस्तु रतिशोकस्तथैव च।
गौरी तपोवनं तद्वद्विश्वनाथप्रसादनम् ॥ २९१.२०

पार्वती ऋषिसंवादस्ततैवोद्वाहमङ्गलम्।
कुमारसम्भवस्तद्वत् कुमारविजयस्तथा ॥ २९१.२१

तारकस्य वधो घोरो नरसिंहोपवर्णनम्।
पद्मोद्भव विसर्गस्तु तथैवान्धक-घातनम् ॥ २९१.२२

वाराणस्यास्तु माहात्म्यं नर्मदायास्तथैव च।
प्रवरानुक्रमस्तद्वत् पितृगाथानुकीर्तनम् ॥ २९१.२३

ततोभयमुखीदानं दानं कृष्णाजिनस्य च।
तथा सावित्र्युपाख्यानं राजधर्मास्तथैव च ॥ २९१.२४

यात्रा निमित्तकथनं स्वप्नमङ्गल्यकीर्तनम्।
वामनस्य तु माहात्म्यं तथैवाथ वराहजम् ॥ २९१.२५

क्षीरोदमथनं तद्वत् कालकूटाभिशासनम् ॥ २९१.२६

प्रासादलक्षणं तद्वत् मण्डपानान्तु लक्षणम्।
कल्पानुकीर्तनं तद्वद् ग्रन्थानुक्रमणीं तथा ॥ २९१.२७

तुला दानादि बहुशो महादानानुकीर्तनम्।
कल्पानुकीर्तनं तद्वत् ग्रन्तानुक्रमणीं तथा ॥ २९१.२८

एतत्पवित्रमायुष्यमेतत्कीर्तिविवर्धनम्।
एतत्पवित्रं कल्याणं महापापहरं शुभम् ॥ २९१.२९

अस्मात् पुराणादपि पादमेकं पठेत्तु यः सोऽपि विमुक्तपापः।
नारायणाख्यं पदमेति नूनमनङ्गवद्दिव्यसुखानि भुङ्क्ते ॥ २९१.३०

समाप्तमिदं श्रीमत्स्यमहापुराणम्।
ॐ तत्सद् ब्रह्मार्पणमस्तु।