२९०

कल्पानां कीर्त्तनम्।

मनुरुवाच।
कल्पमानं त्वया प्रोक्तं मन्वन्तरयुगेषु च।
इदानीं कल्पनामानि समासात् कथयाच्युत! ॥ २९०.१

मत्स्य उवाच।
कल्पानां कीर्तनं वक्ष्ये महापातकनाशनम्।
यस्यानुकीर्तनादेव वेदपुण्येन युज्यते ॥ २९०.२

प्रथमं श्वेतकल्पस्तु द्वितीयो नीललोहितः।
वामदेवस्तृतीयस्तु ततोराथन्तरोऽपरः ॥ २९०.३

रौरवः पञ्चमः प्रोक्तः षष्ठो देव इति स्मृतः।
सप्तमोऽथ बृहत्कल्पः कन्दर्पोऽष्टम उच्यते ॥ २९०.४

सद्योऽथ नवमः प्रोक्तः ईशानो दशमः स्मृतः।
तम एकादशः प्रोक्तः तथा सारस्वतः परः ॥ २९०.५

त्रयोदश उदानस्तु गारुडोऽथ चतुर्दशः।
कौर्मः पञ्चदशः प्रोक्तः पौर्णमास्यामजायत ॥ २९०.६

षोडशो नारसिंहस्तु समानस्तु ततोऽपरः।
आग्नेयोऽष्टादशः प्रोक्तः सोमकल्पस्तथापरः ॥ २९०.७

मानवो विंशतिः प्रोक्तस्तत् पुमानिति चापरः।
वैकुण्ठश्चापरस्तद्वल्लक्ष्मीकल्पस्तथापरः ॥ २९०.८

चतुर्विंशतिमः प्रोक्तः सावित्री कल्पसञ्ज्ञकः।
पञ्चविंशस्ततो घोरो वाराहस्तु ततोऽपरः ॥ २९०.९

सप्तविंशोऽथ वैराजो गौरि कल्पस्तथापरः।
माहेश्वरस्तु स प्रोक्त स्त्रिपुरो यत्र घातितः ॥ २९०.१०

पितृकल्पस्तथान्ते तु या कुहूर्ब्रह्मणः परा।
इत्येवं ब्रह्मणो मासः सर्वपातकनाशनः ॥ २९०.११

आदावेव हि माहात्म्यं यस्मिन्यस्य विधीयते।
तस्य कल्पस्य तन्नाम विहितं ब्रह्मणा पुरा ॥ २९०.१२

सङ्कीर्णास्तामसाश्चैव राजसाः सात्विकास्तथा।
रजस्तमो मयास्तद्वदेते त्रिंशदुदाहृताः ॥ २९०.१३

सङ्कीर्णेषु सरस्वत्याः पितृणां व्युष्टिरुच्यते।
अग्नेः शिवस्य माहात्म्यं तामसेषु दिवाकरे ॥ २९०.१४

राजसेषु च माहात्म्यमधिकं ब्रह्मणः स्मृतम्।
यस्मिन् कल्पे तु यत् प्रोक्तं पुराणं ब्रह्मणा पुरा ॥ २९०.१५

तस्य तस्य तु माहात्म्यं तत्स्वरूपेण वर्ण्यते।
सात्विकेष्वधिकं तद्वद्विष्णोर्माहात्म्यमुत्तमम् ॥ २९०.१६

तथैव योगसंसिद्धा गमिष्यन्ति परां गतिम्।
ब्राह्मं पाद्ममिमं यस्तु पठेत् पर्वणि पर्वणि ॥ २९०.१७

तस्य धर्मे मतिर्ब्रह्म करोति विपुलां श्रियम्।
यस्तु दद्यादिमान् कृत्वा हैमान् पर्वणि पर्वणि ॥ २९०.१८

ब्रह्मविष्णुपुरे वासं मुनिभिः पूज्यते दिवि।
सर्वपापक्षयकरं कल्पदानं यतो भवेत् ॥ २९०.१९

मुनिरूपांस्ततः कृत्वा दद्यात् कल्पान् विचक्षणः।
पुराणसंहिता चेयं तव भूप! मयोदिता ॥ २९०.२०

सर्वपापहरा नित्यमारोग्य श्रीफलप्रदा।
ब्रह्मसंवत्सरशतादेकाहं शैवमुच्यते ॥ २९०.२१

शिववर्षशतादेकं निमेषं वैष्णवं विदुः।
यदा सविष्णुर्जागर्ति तदेदं चेष्टते जगत् ॥ २९०.२२

यदा स्वपिति शान्तात्मा तदा सर्वं निमीलति।
इत्युक्त्वा देवदेवेशो मत्स्यरूपी जनार्दनः ॥ २९०.२३

पश्यतां सर्वभूतानां तत्रैवान्तरधीयत।
वैवस्वतो हि भगवान् विसृज्य विविधाः प्रजाः ॥ २९०.२४

स्वान्तरं पालयामास मार्तण्डकुलवर्द्धनः।
यस्य मन्वन्तरञ्चैतदधुना चानुवर्तते ॥ २९०.२५

पुण्यं पवित्रमेतद्वः कथितं मत्स्य भाषितम्।
पुराणं सर्वशास्राणां यदेतन्मूर्ध्नि संस्थितम्॥ २९०.२६