२८७

सप्तसागरमहादानविधिवर्णनम्।

मत्स्य उवाच।
अथातः सम्प्रवक्ष्यामि महादानमनुत्तमम्।
सप्तसागरकं नाम सर्वपापप्रणाशनम् ॥ २८७.१

पुण्यं दिनमथासाद्य कृत्वा ब्राह्मणवाचनम्।
तुला पुरुषवत् कुर्यात् लोकेशावाहनं बुधः ॥ २८७.२

ऋत्विग्मण्डपसम्भार भूषणाच्छादनादिकम्।
कारयेत् सप्तकुण्डानि काञ्चनानि विचक्षणः ॥ २८७.३

प्रादेशमात्राणि तथा रत्निमात्राणि वै पुनः।
कुर्यात् सप्तपलादूर्ध्वमासहस्राच्च शक्तितः ॥ २८७.४

संस्थाप्यानि च सर्वाणि कृष्णाजिन तिलोपरि।
प्रथमं पूरयेत्कुण्डं लवणेन विचक्षणः ॥ २८७.५

द्वितीयं पयसा तद्वत् तृतीयं सर्पिषा पुनः।
चतुर्थन्तु गुडेनैव दध्ना पञ्चममेव च ॥ २८७.६

षष्ठं शर्करया तद्वत् सप्तमं तीर्थवारिणा।
स्थापयेल्लवणस्थं तु ब्रह्माणं काञ्चनं शुभम् ॥ २८७.७

केशवं क्षीरमध्ये तु घृतमध्ये महेश्वरम्।
भास्करं गुडमध्ये तु दधिमध्ये निशाधिपम् ॥ २८७.८

शर्करायां न्यसेल्लक्ष्मीं जलमध्ये तु पार्वतीम्।
सर्वेषु सर्वरत्नानि धान्यानि च समन्ततः ॥ २८७.९

तुलापुरुषवच्छेषमत्रापि परिकल्पयेत्।
ततो वारुणहोमान्ते स्नापितो वेदपुङ्गवैः ॥ २८७.१०

त्रिःप्रदक्षिणमावृत्य मन्त्रानेतानुदीरयेत्।
नमो वः सर्वसिन्धूनामाधारेभ्यः सनातनाः ॥
जन्तूनां प्राणदेभ्यश्च समुद्रेभ्यो नमो नमः ॥ २८७.११

क्षीरोदकाज्य-दधि-माधुर-लावणेक्षु सारामृतेन भुवनत्रय-जीवसङ्घान्।
आनन्दयन्ति वसुभिश्च यतो भवन्तस्तस्मान्ममाप्यघविघातमलं दिशन्तु ॥ २८७.१२

यस्मात् समस्तभुवनेषु भवन्त एव तीर्थामरासुरसुबद्धमणिप्रदानम्।
पापक्षयामृतविलेपनभूषणाय लोकस्य बिभ्रति तदस्तु ममापि लक्ष्मीः ॥ २८७.१३

इति ददाति रसामृतसंयुतान् शुचिरविस्मयवानिह सागरान्।
कमलकाञ्चनवर्णमयानसौ पदमुपैति हरेरमरार्चितः ॥ २८७.१४

सकलपापविधौतविराजितः पितृपितामहपुत्रकलत्रकम्।
नरकलोकसमाकुलमप्ययं झटिति सोऽपि नयेच्छिवमन्दिरम् ॥ २८७.१५