पञ्चलाङ्गलकमहादानविधिवर्णनम्।
मत्स्य उवाच।
अथातः सम्प्रवक्ष्यामि महादानमनुत्तमम्।
पञ्चलाङ्गलकं नाम महापातकनाशनम् ॥ २८३.१
पुण्यां तिथिमथासाद्य युगादि ग्रहणादिकाम्।
भूमिदानं नरो दद्यात् पञ्चलाङ्गलकान्वितम् ॥ २८३.२
खर्वटं खेटकं वापि ग्रामं वा सस्यशालिनम्।
निवर्तनशतं वापि तदर्धं वापि शक्तितः ॥ २८३.३
सारदारुमयान् कृत्वा हलान् पञ्चविचक्षणः।
सर्वोपकरणैर्युक्तानन्यान् पञ्च च काञ्चनान्
कुर्य्यात्पञ्चपलादूर्ध्वमासहस्रपलावधि ॥ २८३.४
वृषान् लक्षणसंयुक्तान् दशचैव धुरन्धरान्।
सुवर्णश्रृङ्गाभरणान् मुक्ता लाङ्गूल भूषणान्॥ २८३.५
रूप्यपादाग्रतिलकान् रक्तकौशेय भूषणान्।
स्रग्दामचन्दनयुतान् शालायामधिवासयेत् ॥ २८३.६
धरण्यादित्यरुद्रेभ्यः पायसं निर्वपेच्चरुम्।
एकस्मिन्नेव कुण्डे तु गुरुस्तेभ्यो निवेदयेत् ॥ २८३.७
पलाशसमिधस्तद्वदाज्यं कृष्णतिलास्तथा।
तुलापुरुषवत्कुर्य्याल्लोकेशावाहनं बुधः ॥ २८३.८
ततो मङ्गलशब्देन शुक्लमाल्याम्बरो बुधः।
आहूय द्विजदाम्पत्यं हेमसूत्राङ्गुलीयकैः ॥ २८३.९
कौशेयवस्त्रकटकैर्मणिभिश्चाभिपूजयेत्।
शय्यां सोपस्करां दद्याद्धेनुमेकां पयस्विनीम् ॥ २८३.१०
तथाष्टादशधान्यानि समन्तादधिवासयेत्।
ततः प्रदक्षिणीकृत्य गृहीतकुसुमाञ्जलिः ॥ २८३.११
इममुच्चारयेन्मन्त्रमथ सर्वं निवेदयेत्।
यस्माद्देवगणाः सर्वे स्थावराणि चराणि च ॥ २८३.१२
धुरन्धराङ्गे तिष्ठन्ति तस्माद् भक्तिः शिवेऽस्तु मे।
यस्माच्च भूमिदानस्य कलां नार्हन्ति षोडशीम् ॥ २८३.१३
दानान्यन्यानि मे भक्तिर्धर्म एव दृढा भवेत्।
दण्डेन सप्तहस्तेन त्रिंशद्दण्डं निवर्तनम् ॥ २८३.१४
त्रिभागहीनं गोचर्म मानमाह प्रजापतिः।
मानेनानेन यो दद्यान् निवर्तनशतं बुधः।
विधिनानेन तस्याशु क्षीयते पापसंहतिः ॥ २८३.१५
तदर्द्धमथवा दद्यादपि गोचर्ममात्रकम्।
भवनस्थानमात्रं वा सोऽपि पापैः प्रमुच्यते ॥ २८३.१६
यावन्ति लाङ्गलकमार्गमुखानि भूमेः भासाम्पतेर्दुहितुरङ्गज रोमकाणि।
तावन्ति शङ्करपुरे स समा हि तिष्ठेत् भूमिप्रदानमिह यः कुरुते मनुष्यः ॥ २८३.१७
गन्धर्वकिन्नरसुरासुरसिद्धसङ्घैराधूतचामरमुपेत्य महद्विमानम्।
सम्पूज्यते पितृपितामहबन्दुयुक्तः शम्भोः पदं व्रजति चामरनायकः सन् ॥ २८३.१८
इन्द्रत्वमप्यधिगतं क्षयमभ्युपैति गोभूमिलाङ्गल धुरन्धर सम्प्रदानात्।
तस्मादघौघपटलक्षयकारिभूमेर्दानं विधेयमिति भूतिभवोद्भवाय ॥ २८३.१९