हेमहस्तिमहादानविधिवर्णनम्।
मत्स्य उवाच।
अथातः सम्प्रवक्ष्यामि हेमहस्तिरथं शुभम्।
यस्य प्रदानाद् भुवनं वैष्णवं याति मानवः ॥ २८२.१
पुण्यां तिथिमथासाद्य तुला पुरष दानवत्।
विप्रवाचनकं कुर्याल् लोकेशावाहनं बुधः ॥ २८२.२
ऋत्विक्मण्डपसम्भार भूषणाच्छादनादिकम्।
अत्राप्युपोषितस्तद्वद् ब्राह्मणैः सहभोजनम्।
कुर्यात् पुष्परथाकारं काञ्चनं मणिमण्डितम् ॥ २८२.३
वलभीभिर्विचित्राभिश्चतुश्चक्र समन्वितम्।
कृष्णाजिने तिलद्रोणं कृत्वा संस्थापयेत् रथम् ॥ २८२.४
लोकपालाष्टकोपेतं ब्रह्मार्कशिवसंयुतम्।
मध्ये नारायणोपतं लक्ष्मीपुष्टिसमन्वितम् ॥ २८२.५
तथाष्टादश धान्यानि भाजनासनचन्दनैः।
दीपिकोपानहच्छत्र दर्पणं पादुकान्वितम् ॥ २८२.६
ध्वजे तु गरुडं कुर्यात् कूबराग्रे विनायकम्।
नानाफलसामायुक्तमुपरिष्टाद्वितानकम् ॥ २८२.7
कौशेयं पञ्चवर्णन्तु अम्लानकुसुमान्वितम्।
चतुर्भिः कलशैः सार्द्धं गौभिरष्टाभिरन्वितम् ॥ २८२.8
चतुर्भिर्हेममातङ्गैः मुक्तादाम विभूषितैः।
स्वरूपतः करिभ्याञ्च युक्तं कृत्वा निवेदयेत् ॥ २८२.9
कुर्यात् पञ्चपलादूर्ध्वमाभारादपि शक्तितः।
तथा मङ्गलशब्देन स्नापितो वेदपुङ्गवैः ॥ २८२.१०
त्रिः प्रदक्षिणमावृत्य गृहीत कुसुमाञ्जलिः।
इममुच्चारयेन्मन्त्रं ब्राह्मणेभ्यो निवेदयेत् ॥ २८२.११
नमो नमः शङ्करपद्मजार्क लोकेशविद्याधर वासुदेवैः।
त्वं सेव्यसे वेदपुराणयज्ञैः तेजोमयस्यन्दन पाहि तस्मात् ॥ २८२.१२
यत्तत्पदं परमगुह्यतमं मुरारेर्ह्यानन्द हेतु गुण रूप विमुक्तमन्तः।
योगैकमानसदृशो मुनयः समाधौ पश्यन्ति तत्त्वमसि नाथ रथाधिरूढ!॥ २८२.१३
यस्मात्त्वमेव भवसागर सम्प्लुतानामानन्दभागमृतमध्वगपारपत्रम्।
तस्मादघौघशमनेन कुरु प्रसादञ्चामीकरे भरथ!माधव सम्प्रदानात् ॥ २८२.१४
इत्थं प्रणम्य कनके भरथ प्रदानं यः कारयेत् सकलपापविमुक्तदेहः।
विद्याधरामरमुनीन्द्रगणाभिजुष्टं प्राप्नोत्यसौ पदमतीन्द्रियमिन्दुमौलेः ॥ २८२.१५
कृतदुरितवितानप्रज्वलद्वह्निजाल व्यतिकरकृतदेहोद्वेगभाजोऽपि बन्धून्।
नयति स पितृपुत्रान् बान्धवानप्यशेषान् कृतगजरथदानाच्छाश्वतं सद्म विष्णोः ॥ २८२.१६