अश्वरथाख्यमहादानविधिवर्णनम्।
मत्स्य उवाच।
अथातः सम्प्रवक्ष्यामि महादानमनुत्तमम्।
पुण्यमश्वरथं नाम महापातकनाशनम् ॥ २८१.१
पुण्यं दिनमथासाद्य कृत्वा ब्राह्मणवाचनम्।
लोकेशावाहनं कुर्यात् तुला पुरुषदानवत् ॥ २८१.२
ऋत्विक्मण्डपसम्भारभूषणाच्छादनादिकम्।
कृष्णाजिने तिलान् कृत्वा काञ्चनं स्थापयेत् रथम् ॥ २८१.३
अष्टाश्वं चतुरश्वं वा चतुश्चक्रं सकूबरम्।
ऐन्द्रनीलेन कुम्भेन ध्वजरूपेण संयुतम् ॥ २८१.४
लोकपालाष्टकं तद्वत् पद्मरागदलान्वितम्।
चतुरः पूर्णकलशान् धान्यान्यष्टादशैव तु ॥ २८१.५
कौशेयवस्त्र संयुक्तमुपरिष्टाद्वितानकम्।
माल्येक्षुफलसंयुक्तं पुरुषेण समन्वितम् ॥ २८१.६
यो यद्भक्तः पुमान् कुर्यात् स तन्नाम्नाधिवासनम्।
छत्र चामर कौशेय वस्त्रोपानह पादुकम् ॥ २८१.७
गोभिर्विभवतः सार्द्धं दद्याच्च शयनादिकम्।
आभारात्त्रिपलादूर्ध्वं शक्तितः कारयेद् बुधः ॥ २८१.८
अश्वाष्टकेन संयुक्तं चतुर्भिरथ वाजिभिः।
द्वाभ्यामपि युतं दद्याद्धेमसिंहध्वजान्वितम् ॥ २८१.९
चक्ररक्षावुभौ तस्य तुरगस्था यथाश्विनौ।
पुण्यकालमथावाप्य पूर्ववत्स्नापितौ द्विजैः ॥ २८१.१०
त्रिः प्रदक्षिणमावृत्य गृहीतकुसुमाञ्जलिः।
शुक्लमाल्याम्बरो दद्यादिमं मन्त्रमुदीरयेत् ॥ २८१.११
नमो नमः पापविनाशनाय विश्वात्मने वेदतुरङ्गमाय।
धाम्नामधीशाय दिवाकराय पापौघदावानल! देहि शान्तिम् ॥ २८१.१२
वस्वष्टकादित्यमरुद्गणानां त्वमेव धाता परमं निधानम्।
यतस्ततो मे हृदयं प्रयातु धर्मैकतानत्वमघौघनाशात् ॥ २८१.१३
इति तुरगरथप्रदानमेकं भवभयसूदनमत्र यः करोति।
स कलुषपटलैर्विमुक्तदेहः परममुपैति पदं पिनाकपाणेः ॥ २८१.१४
देदीप्यमानवपुषां विजितप्रभावमाक्रम्य मण्डलमखण्डितचण्डभानोः।
सिद्धाङ्गनानयनषट्पद पीयमान वक्त्राम्बुजोऽम्बुजभवेन चिरं सहास्ते ॥ २८१.१५
इति पठति श्रृणोति वा य इत्थं कनकतुरगरथप्रदानमस्मिन्।
न स नरकपुरं व्रजेत् कदाचिन्नरक रिपोर्भवनं प्रयाति भूयः ॥ २८१.१६