मत्स्य उवाच।
अथात सम्प्रवक्ष्यामि हिरण्याश्वविधिं परम्।
यस्य प्रदानाद् भुवने चानन्त्यं फलमश्नुते ॥ २८०.१
पुण्यां तिथिमथासाद्य कृत्वा ब्राह्मणवाचनम्।
लोकेशावाहनं कुर्यात् तुला पुरुषदानवत् ॥ २८०.२
ऋत्विक्मण्डपसम्भार भूषणाच्छादनादिकम्।
स्वल्पे त्वेकाग्निवत् कुर्याद्धेमवाजि मखम्बुधः ॥ २८०.३
स्थापयेद्वेदिमध्ये तु कृष्णाजिन तिलोपरि।
कौशेयवस्त्रसम्वीतं कारयेत् हेम वाजिनम् ॥ २८०.४
शक्तितस्त्रिपलादूर्ध्वमासहस्रपलाद् बुधः।
पादुकोपानहच्छत्र चामरासनभाजनैः ॥ २८०.५
पूर्णकुम्भाष्टकोपेतं माल्येक्षु-फलसंयुतम्।
शय्यां सोपस्करां तद्वत् हेममार्तण्डसंयुताम् ॥ २८०.६
ततः सर्वौषधी स्नान स्नापितो द्विजपुङ्गवैः।
इममुच्चारयेन् मन्त्रं गृहीत कुसुमाञ्जलिः ॥ २८०.७
नमस्ते सर्वदेवेश वेदाहरणलम्पट!।
वाजिरूपेण मामस्मात् पाहि संसारसागरात् ॥ २८०.८
त्वमेव सप्तधा भूत्वा छन्दोरूपेण भास्कर!।
यस्माद् भासयसे लोकानतः पाहि सनातन! ॥ २८०.९
एवमुच्चार्य गुरवे तमश्वं विनिवेदयेत्।
दत्वा पापक्षयाद् भानोः लोकमभ्येति शाश्वतम् ॥ २८०.१०
गोभिर्विभवतः सर्वान्नृत्विजश्चापि पूजयेत्।
सर्वधान्योपकरणं गुरवे विनिवेदयेत् ॥ २८०.११
सर्वं शय्यादिकं दत्वा भुञ्जीता तैलमेव हि।
पुराणश्रवणं तद्वत् कारयेद् भोजनादिकम् ॥ २८०.१२
इमं हिरण्याश्वविधिं करोति यः सम्पूज्यमानो दिवि देवसङ्घैः।
विमुक्तपापः स पुरं मुरारेः प्राप्नोति सिद्धैरभिपूजितः सन् ॥ २८०.१३
इति पठति य एतद्वेमवाजिप्रदानं सकलकलुषमुक्तः सोऽश्वमेधेन युक्तः।
कनकमयविमानेनार्कलोकं प्रयाति त्रिदशपतिवधूभिः पूज्यते योऽभिपश्येत् ॥ २८०.१४
यो वा श्रृणोति पुरुषोऽल्पधनः स्मरेद्वा हेमाश्वदानमभिनन्दयतीह लोके।
सोऽपि प्रयाति हतकल्मषशुद्धदेहः स्थानं पुरन्दरमहेश्वरदेवजुष्टम् ॥ २८०.१५