२७७

अथ सप्तसप्तत्यधिकद्विशततमोऽध्यायः

मत्स्य उवाच

कल्पपादपदानाख्यमतः परमनुत्तमम्

महादानं प्रवक्ष्यामि सर्वपातकनाशनम् १

पुण्यं दिनमथाऽऽसाद्य तुलापुरुषदानवत्

पुण्याहवाचनं कृत्वा लोकेशावाहनं तथा २

ऋत्विङ्मडपसम्भारभूषणाच्छादनादिकम्

काञ्चनं कारयेद्वृक्षं नानाफलसमन्वितम् ३

नानाविहगवस्त्राणि भूषणानि च कारयेत्

शक्तितत्त्रिपलादूर्ध्वमासहस्रं प्रकल्पयेत् ४

अर्धकॢप्तसुवर्णस्य कारयेत्कल्पपादपम्

गुडप्रस्थोपरिष्टाच्च सितवस्त्रयुगान्वितम् ५

ब्रह्मविष्णुशिवोपेतं पञ्चशाखं सभास्करम्

कामदेवमधस्ताच्च सकलत्रं प्रकल्पयेत् ६

सन्तानं पूर्वतस्तद्वत्तुरीयांशेन कल्पयेत्

मन्दारं दक्षिणे भागे श्रिया सार्धं घृतोपरि ७

पश्चिमे पारिभद्रं तु सावित्र्! या सह जीरके

सुरभीसंयुतं तद्वत्तिलेषु हरिचन्दनम् ८

तुरीयांशेन कुर्वीत सौम्येन फलसंयुतम्

कौशेयवस्त्रसंवीतानिक्षुमाल्यफलान्वितान् ९

तथाऽष्टौ पूर्णकलशान्पादुकाशनभाजनम्

दीपिकोपानहच्छत्रचामरासनसंयुतम् १०

फलमाल्ययुतं तद्वदुपरिष्टाद्वितानकम्

तथाऽष्टादश धान्यानि समन्तात्परिकल्पयेत् ११

होमाधिवासनान्ते च स्नापितो वेदपुङ्गवैः

त्रिः प्रदक्षिणमावृत्य मन्त्रमेतमुदीरयेत् १२

नमस्ते कल्पवृक्षाय चिन्तितार्थप्रदायिने

विश्वम्भराय देवाय नमस्ते विश्वमूर्तये १३

यस्मात्त्वमेव विश्वात्मा ब्रह्मा स्थाणुर्दिवाकरः

मूर्तामूर्तपरं बीजमतः पाहि सनातन १४

त्वमेवामृतसर्वस्वमनन्तः पुरुषोऽव्ययः

सन्तानाद्यैरुपेतः सन्पाहि संसारसागरात् १५

एवमामन्त्र्! य तं दद्याद्गुरवे कल्पपादपम्

चतुभ्यश्चाथ ऋत्विग्भ्यः सन्तानादीन्प्रकल्पयेत् १६

स्वल्पे त्वेकाग्निवत्कुर्याद्गुरवे चाभिपूजनम्

न वित्तशाठ्यं कुर्वीत न च विस्मयवान्भवेत् १७

अनेन विधिना यस्तु प्रदद्यात्कल्पपादपम्

सर्वपापविनिर्मुक्तः सोऽश्वमेधफलं भवेत् १८

अप्सरोभिः परिवृतः सिद्धचारणकिन्नरैः

भूतान्भव्यांश्च मनुजांस्तारयेद्गोत्रसंयुतान् १९

स्तूयमानो दिवः पृष्ठे पुत्रपौत्रप्रपौत्रकैः

विमानेनार्कवर्णेन विष्णुलोकं स गच्छति २०

दिवि कल्पशतं तिष्ठेद्रा जराजो भवेत्ततः

नारायणबलोपेतो नारायणपरायणः।
नारायणकथासक्तो नारायणपुरं व्रजेत् २१

यो वा पठेत्सकलकल्पतरुप्रदानं यो वा शृणोति पुरुषोऽल्पधनः स्मरेद्वा

सोऽपीन्द्र लोकमधिगम्य सहाप्सरोभिर्मन्वन्तरं वसति पापविमुक्तदेहः २२

इति श्रीमात्स्ये महापुराणे महादानानकीर्तने कल्पपादपप्रदानविधिर्नाम सप्तसप्तत्यधिकद्विशततमोऽध्यायः २७७