हिरण्यगर्भाख्यमहादानविधिवर्णनम्।
मत्स्य उवाच।
अथातः सम्प्रवक्ष्यामि महादानमनुत्तमम्।
नाम्ना हिरण्यगर्भाख्यं महापातकनाशनम् ॥ २७५.१
पुण्यं दिनमथासाद्य तुला पुरुषदानवत्।
ऋत्विग् मण्डपसम्भार भूषणाच्छादानादिकम्॥ २७५.२
कुर्य्यादुपोषितस्तद्वत् लोकेशावाहनं बुधः।
पुण्याहवाचनं कृत्वा तद्वत् कृत्वाधिवासनम् ॥ २७५.३
ब्राह्मणैरानयेत्कुम्भं तपनीयमयं शुभम्।
द्विसप्तत्यङ्गुलोच्छ्रायं हेमपङ्गजगर्भवत् ॥ २७५.४
त्रिभागहीनविस्तारमाज्यक्षीराभिपूरितम्।
दशास्त्राणि च रत्नानि दात्रीं सूचीं तथैव च ॥ २७५.५
हेमनालं सपिठकं बहिरादित्य संयुतम्।
तथैवावरणं नाभेरुपवीतञ्च काञ्चनम् ॥ २७५.६
पार्श्वतः स्थापयेत्तद्वत् हैमदण्डकमण्डलू।
पद्माकारं पिधानं स्यात् समन्तादङ्गुलाधिकम् ॥ २७५.७
मुक्तावली समोपेतं पद्मरागसमन्वितम्।
तिलद्रोणोपरिगतं वेदमध्ये व्यवस्थितम् ॥ २७५.८
ततो मङ्गलशब्देन ब्रह्मघोषरवेण च।
सर्वौषध्युदकस्नान स्नापितो वेदपुङ्गवैः ॥ २७५.९
शुक्लमाल्याम्बरधरः सर्वाभरणभूषितः ।
इममुच्चारयेन् मन्त्रं गृहीत कुसुमाञ्जलिः ॥ २७५.१०
नमो हिरण्यगर्भाय हिरण्यकवचाय च।
सप्तलोकसुराध्यक्ष जगद्वात्रे नमो नमः ॥ २७५.११
भूर्लोकप्रमुखा लोका स्तवगर्भे व्यवस्थिताः।
ब्रह्मादयस्तथा देवाः नमस्ते विश्वधारिणे ॥ २७५.१२
नमस्ते भुवनाधार! नमस्ते भुवनाश्रय!।
नमो हिरण्यगर्भाय गर्भे यस्य पितामहः ॥ २७५.१३
यतस्त्वमेव भूतात्मा भूते भूते व्यवस्थितः।
तस्मान् मामुद्धराशेष दुःखसंसारसागरात् ॥ २७५.१४
एवमामन्त्र्य तन्मध्यमाविश्यास्त उद्ङ्मुखः।
मुष्टिभ्यां परिसङ्गृह्य धर्मराजचतुर्मुखौ ॥ २७५.१५
जानुमध्ये शिरः कृत्वा तिष्ठेदुच्छ्वासपञ्चकम्।
गर्भाधानं पुंसवनं सीमन्तोन्नयनं तथा ॥ २७५.१६
कुर्युर्हिरण्यगर्भस्य ततस्ते द्विजपुङ्गवाः।
गीतमङ्गलघोषेण गुरुरुत्थापयेत् ततः ॥ २७५.१७
जातकर्मादिकाः कुर्युः क्रियाः षोडश चापराः।
सूच्यादिकञ्च गुरवे दद्यात् मन्त्रमिमं जपेत् ॥ २७५.१८
नमो हिरण्यगर्भाय विश्वगर्भाय वै नमः।
चराचरस्य जगतो गृहभूताय वै नमः ॥ २७५.१९
यथाहं जनितः पूर्वं मर्त्यधर्मा सुरोत्तम!।
त्वद् गर्भसम्भवादेष दिव्यदेहो भवाम्यहम्॥ २७५.२०
चतुर्भिः कलशैर्भूयः ततस्ते द्विजपुङ्गवाः।
स्नापयेयुः प्रसन्नागाः सर्वाभरयणभूषिताः ॥ २७५.२१
देवस्यत्वेति मन्त्रेण स्थितस्य कनकासने।
अद्य जातस्यतेऽङ्गनि अभिषेक्ष्यामहे वयम् ॥ २७५.२२
दिव्येनानेन वपुषा चिरं जीव सुखी भव।
ततो हिरण्यगर्भं तन्तेभ्यो दद्याद्विचक्षणः ॥ २७५.२३
ते पूज्याः सर्वभावेन बहवो वा तदाज्ञया।
तत्रोपकरणं सर्वं गुरवे विनिवेदयेत् ॥ २७५.२४
पादुकोपानहच्छत्रचामरासनभाजनम्।
ग्रामं वा विषयं वापि यदन्यदपि सम्भवेत् ॥ २७५.२५
अनेन विधिना यस्तु पुण्येऽहनि निवेदयेत्।
हिरण्यगर्भदानं स ब्रह्मलोके महीयते ॥ २७५.२६
पुरेषु लोकपालानां प्रतिमन्वन्तरं वसेत्।
कल्पकोटिशतं यावद् ब्रह्मलोके महीयते ॥ २७५.२७
कलि कलुषविमुक्तं पूजितः सिद्धसाध्यैरमरचमरमालावीज्यमानोप्सरोभिः।
पितृशतमथ बन्धून् पुत्रपौत्रान् प्रपौत्रान् अपि नरकनिमग्नां स्तारयेदेक एव ॥ २७५.२८
इति पठति य इत्थं यःश्रृणोतीह सम्यक् मधुरिपुरिव लोके पूज्यते सोऽपि सिद्धैः।
मतिमपि च जनानां यो ददाति प्रियार्थं विबुधपतिजनानां नायकः स्यादमोघम् ॥ २७५.२९