२७०

मण्डपलक्षणवर्णनम्।

सूत उवाच।
अथातः सम्प्रवक्ष्यामि मण्डपानान्तु लक्षणम्।
मण्डपप्रवरान् वक्ष्ये प्रासादस्यानुरूपतः ॥ २७०.१

विविधा मण्डपाः कार्या ज्येष्ठमध्यकनीयसः।
नामतस्तान् प्रवक्ष्यामि श्रृणुध्वमृषिसत्तमाः ॥ २७०.२

पुष्पकः पुष्पभद्रश्च सुव्रतोऽमृतनन्दनः।
कौशल्यो बुद्धि सङ्कीर्णो गजभद्रो जयावहः ॥ २७०.३

श्रीवत्सो विजयश्चैव वास्तुकीर्तिः श्रुतिजयः।
यज्ञभद्रो विशालश्च सुश्लिष्टः शत्रुमर्दनः ॥ २७०.४

भागपञ्चो नन्दनञ्च मानवो मानभद्रकः।
सुग्रीवो हरितश्चैव कणिकारः शतर्द्धिकः ॥ २७०.५

सिंहश्च श्यामभद्रश्च सुभद्रश्च तथैव च।
सप्तविंशतिराख्याता लक्षणं श्रृणुत! द्विजाः! ॥ २७०.६

स्तम्भा यत्र चतुःषष्टि पुष्पकः समुदाहृतः।
द्विषष्टिपुष्पभद्रस्तु षष्टिः सुव्रत उच्यते ॥ २७०.७

अष्टपञ्चाशकसस्तम्भः कथ्यते मृतनन्दनः।
कौशल्यः षट्चपञ्चाशच्चतुः पञ्चाशता पुनः ॥ २७०.८

नाम्ना तु बुद्धिसङ्कीर्णो द्विहीनो गजभद्रकः।
जयावहस्तु पश्चाशत् श्रीवत्सस्तद्विहीनकः ॥ २७०.९

विजयस्तद्विहीनः स्यात् वास्तुकीर्तिस्तथैव च ।
द्वाभ्यामेव प्रहीयेत ततः श्रुतिजयोऽपरः ॥ २७०.१०

चत्वारिंशद्यज्ञभद्रस्तद्विहीनो विशालकः।
षट्त्रिंशच्चैव सुश्लिष्टो द्विहीनः शत्रुमर्द्दनः ॥ २७०.११

द्वात्रिंशद् भागपञ्चस्तु(?) त्रिंशद्भिर्नन्दनः स्मृतः।
अष्टाविंशन् मानवस्तु मानभद्रो द्विहीनकः ॥ २७०.१२

चतुर्विंशस्तु सुग्रीवो द्वाविंशो वर्षणो मतः।
विंशतिः कर्णिकारः स्यादष्टादश शतर्धिकः ॥ २७०.१३

सिंहो भवेद् विहीनश्च श्यामभद्रो द्विहीनकः।
सुभद्रस्तु तथा प्रोक्तो द्वादशस्तम्भ उच्यते ॥ २७०.१४

मण्डपाः कथितास्तुभ्यं यथावल्लक्षणान्विताः ।
त्रिकोणं वृतमर्द्धन्तु ह्यष्टकोणं द्विरष्टकम् ॥ २७०.१५*

चतुः कोणन्तु कर्तव्यं संस्थानं मण्डपस्य तु।
राज्यञ्च विजयश्चैव आयुवर्द्धनमेव च ॥ २७०.१६

पुत्रलाभः श्रियः पुष्टिस्त्रिकोणादि क्रमाद् भवेत्।
एवं तु शुभदाः प्रोक्ताश्चान्यथा त्वशुभावहाः ॥ २७०.१७

चतुःषष्टिपदं कृत्वा मध्ये द्वारं प्रकल्पयेत्।
विस्ताराद् द्विगुणोच्छ्रायं तत्त्रिभागः कटिर्भवेत् ॥ २७०.१८

विस्तारार्द्धो भवेद् गर्भो भित्तयोऽन्याः समन्ततः।
गर्भपादेन विस्तीर्णं द्वारं त्रिगुणमायतम् ॥ २७०.१९

तथा द्विगुणविस्तीर्ण मुखस्तद्वदुदुम्बरः।
विस्तारपादप्रतिमं बाहुल्यं शाखयोऽस्मृतम्(?)॥ २७०.२०

त्रिपञ्चसप्तनवभिः शाकाभिर्द्वारमिष्यते।
कनिष्ठमध्यमं ज्येष्ठं यथायोगं प्रकल्पयेत् ॥ २७०.२१

अङ्गुलानां शतं सार्द्धं चत्वारिंशत् तथोन्नतम्।
त्रिशद्विंशोत्तरं चान्यद्धन्यमुत्तममेव च ॥ २७०.२२

शतञ्चाशीतिसहितं वातनिर्गमने भवेत्।
अधिकं दशभिस्तद्वत् तथा षोडशभिः शतम् ॥ २७०.२३

शतमानं तृतीयञ्च नवत्याशीतिभिस्तथा।
दश द्वाराणि चैतानि क्रमेणोक्तानि सर्वदा ॥ २७०.२४

अन्यानि वर्जनीयानि मनसोद्वेगदानि तु।
द्वारवेधं प्रयत्नेन सर्ववास्तुषु वर्जयेत् ॥ २७०.२५

वृक्ष कोण ब्रमिद्वारस्तम्भ कूपध्वजादपि।
कुड्यश्वभ्रेण वा विद्धं द्वारं न शुभदम्भवेत् ॥ २७०.२६

क्षयश्च दुर्गतिश्चैव प्रवासः क्षुद्भयं तथा।
दौर्भाग्यं बन्धनं रोगो दारिद्‌य्रं कलहं तथा ॥ २७०.२७

विरोधश्चार्थनाशश्च सर्वं वेधाद् भवेत् क्रमात्।
पूर्वेण फलिनो वृक्षाः क्षीरवृक्षास्तु दक्षिणे ॥ २७०.२८

पश्चिमेन जलं श्रेष्ठं पद्मोत्पलविभूषितम्।
उत्तरे सरलैस्तालैः शुभा स्यात् पुष्पवाटिका ॥ २७०.२९

सर्वतस्तु जलं श्रेष्ठं स्थिरमस्थिरमेव च।
पार्श्वतश्चापि कर्त्तव्यं परिवारादिकालयम् ॥ २७०.३०

याम्ये तपोवनस्थानमुत्तरे मातृका गृहम्।
महानसं तथाग्नेये नैर्ऋत्येऽथ विनायकम् ॥ २७०.३१

वारुणे श्रीनिवासस्तु वायव्ये गृहमालिका।
उत्तरे यज्ञशाला तु निर्माल्य स्थानमुत्तरे ॥ २७०.३२

वारुणे सोमदैवत्ये बलिनिर्वपणं स्मृतम्।
पुरतो वृषभस्थानं शेषे स्यात् कुसुमायुधः ॥ २७०.३३

जलं वापि तथैशाने विष्णुस्तु जलशाय्यपि।
एवमायतनं कुर्यात् कुण्डमण्डपसंयुतम् ॥ २७०.३४

घण्टा वितानक सतोरण चित्रयुक्तं।
नित्योत्सवप्रमुदितेन जनेन सार्धम्॥

यः कारयेत् सुरगृहं विविधध्वजाङ्कं।
श्रीस्तं न मुञ्चति सदा दिवि पूज्यते च ॥ २७०.३५

एवं गृहार्चनविधावपि शक्तितः स्यात्।
संस्थापनं सकलमन्त्रविधानयुक्तम् ॥

गोवस्न काञ्चन हिरण्यधराप्रधान।
देयं गुरुद्विजवरेषु तथान्नदानम्॥ २७०.३६॥