प्रासादविधिनिर्णयवर्णनम्।
सूत उवाच।
एवं वास्तुबलिं कृत्वा भजेत् षोडशभागिकम्।
तस्य मध्ये चतुर्भिस्तु भागैर्गर्भन्तु कारयेत् ॥ २६९.१
भागद्वादशकं सार्द्धं ततस्तु परिकल्पयेत्।
चतुर्दिक्षु तथा ज्ञेयं निर्गमं तु ततो बुधैः ॥ २६९.२
चतुर्भागेन भित्तीनामुच्छ्रायः स्यात् प्रमाणतः।
द्विगुणः शिखरोच्छ्रायो भित्त्युच्छ्राय प्रमाणतः ॥ २६९.३
शिखरार्द्धस्य चार्धेन विधेया तु प्रदक्षिणा।
गर्भसूत्रद्वयं चाग्रे विस्तारो मण्डपस्य तु ॥ २६९.४
आयतः स्यात् त्रिभिर्भागैर्भद्रयुक्तः सुशोभनः।
पञ्चभागेन सम्भज्य गर्भमानं विचक्षणः ॥ २६९.५
भागमेकं गृहीत्वा तु प्राग्ग्रीवं कल्पयेद् बुधः।
गर्भसूत्रसमाद् भागादग्रतो मुखमण्डपः ॥ २६९.६
एतत्सामान्यमुद्दिष्टं प्रासादस्येह लक्षणम्।
तथान्यन्तु प्रवक्ष्यामि प्रासादं लिङ्गमानतः ॥ २६९.७
लिङ्गपूजा प्रमाणेन कर्तव्या पीठिका बुधैः।
पिण्डकार्द्धे विभागः स्यात् तन्मानेन तु भित्तयः ॥ २६९.८
बाह्यभित्तिप्रमाणेन उत्सेधस्तु भवेत् पुनः।
भित्त्युच्छ्रायात्तु द्विगुणः शिखरस्य समुच्छ्रयः ॥ २६९.९
शिखरस्य चतुर्भागात् कर्तव्या च प्रदक्षिणा।
प्रदक्षिणायास्तु समस्त्वग्रतो मण्डपो भवेत् ॥ २६९.१०
तस्य वार्द्धेन कर्तव्यस्त्वग्रतो मुखमण्डपः।
प्रासादान् निर्गतौ कार्यौ कपालौ गर्भमानतः ॥ २६९.११
ऊर्ध्वं भित्युच्छ्रयात् तस्य मञ्जरीन्न्तु प्रकल्पयेत्।
मञ्जर्यां श्चार्द्धभागेन शुकनासां प्रकल्पयेत् ॥ २६९.१२
ऊर्ध्वं तथार्द्धभागेन वेदी बन्धो भवेदिह।
वेद्याश्चोपरि यच्छेषं कण्ठश्चामलसारकः ॥ २६९.१३
एवं विभज्य प्रासादं शोभनं कारयेद् बुधः।
अथान्यच्च प्रवक्ष्यामि प्रासादस्येह लक्षणम् ॥ २६९.१४
गर्भमानप्रमाणेन प्रासादं श्रृणु तद्विजाः!।
विभज्य नवधा गर्भं मध्ये स्याल्लिङ्ग पीठिका ॥ २६९.१५
पादाष्टकं तु रुचिरं पार्श्वतः परिकल्पयेत्।
मानेन तेन विस्तारो भित्तीनान्तु विधीयते ॥ २६९.१६
पादं पञ्चगुणं कृत्वा भित्तीनामुच्छ्रयो भवेत्।
स एव शिखरस्यापि द्विगुणः स्यात् समुच्छ्रयः ॥ २६९.१७
चतुर्धा शिकरं भज्य अर्द्धभागद्वयस्य तु।
शुकनासं प्रकुर्वीत तुतीये वेदिका मता ॥ २६९.१८
कण्ठमामलसारं तु चतुर्थे परिकल्पयेत्।
कपालयोस्तु संहारो द्विगुणोऽत्र विधीयते ॥ २६९.१९
शोभनैः पत्रवल्लीभि रण्डकैश्च विभूषितः।
प्रासादोऽयं तुतीयस्तु मया तुभ्यं निवेदितः ॥ २६९.२०
सूत उवाच।
सामान्यमपरं तद्वत् प्रासादं श्रृणु तद्विजाः! ।
त्रिभेदं कारयेत् क्षेत्रं यत्र तिष्ठन्ति देवताः ॥ २६९.२१
रथाङ्कस्तेन मानेन बाह्य भागविनिर्गतः।
नेमीपादेन विस्तीर्णा प्रासादः स्यात् समन्ततः ॥ २६९.२२
गर्भन्तु द्विगुणं कुर्यात् तस्यामानं भवेदिह।
स एव भित्तेरुत्सेधो द्विगुणः शिखरो मतः ॥ २६९.२३
प्राग्ग्रीवः पञ्चभागेन नित्कासस्तस्य चोच्यते।
कारयेत् सुषिरं तद्वत् प्राकारस्य त्रिभागतः ॥ २६९.२४
प्राग्ग्रीवं पञ्चभागेन निष्काषेण विशेषतः।
कुर्य्यादापञ्चभागेन प्राग् ग्रीवे कर्णमूलतः ॥ २६९.२५
स्थापयेत्कनकं तत्र गर्भान्ते द्वारमूलतः।
एवन्तु त्रिविधं कुर्यात् ज्येष्ठमध्य कनीयसम् ॥ २६९.२६
लिङ्गमानानुभेदेन रूपभेदेन वा पुनः।
एते समासतः प्रोक्ता नामतः श्रृणुताधुना ॥ २६९.२७
मेरुमन्दरकैलासकुम्भसिंहमृगास्तथा।
विमानच्छन्दकस्तद्वच्चतुरस्रस्तथैव च ॥ २६९.२८
अष्टास्रः षोडशास्रश्च वर्तुलः सर्वभद्रकः।
सिंहास्यो नन्दनश्चैव नन्दिवर्धनकस्तथा ॥ २६९.२९
हंसोवृषः सुवर्णेशः पद्मकोऽथ समुद्गकः।
प्रासादा नामतः प्रोक्ता विभागं श्रृणु तद्विजाः! ॥ २६९.३०
शतश्रृङ्गश्चतुर्द्वारो भूमिका षोडशोच्छ्रितः।
नानाविचित्रशिखरे मेरुः प्रासाद उच्यते ॥ २६९.३१
मन्दरो द्वादश प्रोक्तः कैलासो नवभूमिकः।
विमानच्छन्दकस्तद्वदनेकशिखराननः ॥ २६९.३२
स चाष्टभूमिकस्तद्वत् सप्तभिर्नन्दिवर्धनः।
विषाणकसमायुक्तो नन्दनः स उदाहृतः ॥ २६९.३३
षोडशास्रसमायुक्तो नानारूपसमन्वितः।
अनेकशिखरस्तद्वत् सर्वतो भद्र उच्यते ॥ २६९.३४
चित्रशालासमोपेतो विज्ञेयः पञ्चभूमिकः।
वलभीच्छन्दकस्तद्वदनेक शिखराननः ॥ २६९.३५
वृषस्योच्छ्रायतस्तुल्यो मण्डलश्चास्रवर्जितः।
सिंहः सिंहाकृतिर्ज्ञेयो गजो गजसमस्तथा ॥ २६९.३६
कुम्भः कुम्भाकृतिस्तद्वद् भूमिका नवकोच्छ्रयः।
अङ्गलीपुटसंस्थानः पञ्चाण्डक विभूषितः ॥ २६९.३७
षोडशास्रः समन्ताच्च विज्ञेयः स समुद्गकः।
पार्श्वयोश्चन्द्रशालेऽस्य उच्छ्रायो भूमिकाद्वयम् ॥ २६९.३८
तथैव पद्मकः प्रोक्तः उच्छ्रायो भूमिकात्रयम्।
षोडशास्रः स विज्ञेयो विचित्रशिखरः शुभः ॥ २६९.३९
मृगराजस्तु विख्यातश्चन्द्रशाला विभूषितः।
प्राग्ग्रीवेण विशालेन भूमिकासु षडुन्नतः ॥ २६९.४०
अनेकश्चन्द्रशालश्च गजः प्रासाद इष्यते।
पर्यस्त गृहराजो वै गरुडो नाम नामतः ॥ २६९.४१
सप्तभूम्युच्छ्रयस्तद्वच्चन्द्रशाला-त्रयान्वितः।
भूमिकाषडशीतिस्तु बाह्यतः सर्वतो भवेत् ॥ २६९.४२
तथान्यो गरुडस्तद्वदुच्छ्रयाद्दशभूमिकः।
भूमिका षोडशास्रस्तु भूमिद्वयमथाधिकः ॥ २६९.४३
पद्मतुल्यप्रमाणेन श्रीवृक्षक इति स्मृतः।
पञ्चाण्डको द्विभूमिश्च गर्भे हस्तचतुष्टयम्॥ २६९.४४
वृषो भवति नाम्नायं प्रासादः सार्वकामिकः।
सप्तकाः पञ्चकाश्चैव प्रासादा वै मयोदिताः ॥ २६९.४५
सिंहास्येन समाज्ञेया ये चान्ये तत्प्रमाणकाः।
चन्द्रशालैः समोपेताः सर्वे प्राग्ग्रीवसंयुताः
ऐष्टका दारवाश्चैव शैला वा स्युः सतोरणाः ॥ २६९.४६
मेरुः पञ्चाशद् हस्तः स्यान्मन्दरः पञ्चहीनकः।
चत्वारिंशत्तु कैलास श्चतुस्त्रिंशद् विमानकः ॥ २६९.४७
नन्दिवर्द्धनकस्तद्वद् द्वात्रिंशत् समुदाहृतः।
त्रिंशतानन्दनः प्रोक्तः सर्वतोभद्रकस्तथा ॥ २६९.४८
वर्तुलः पद्मकश्चैव विंशद्धस्त उदाहृतः।
गजः सिंहश्च कुम्भश्च वलभी च्छन्दकस्तथा ॥ २६९.४९
एते षोडशहस्ताः स्युः चत्वारो देववल्लभाः।
कैलासो मृगराजश्च विमान-च्छन्दकोमतः ॥ २६९.५०
एते द्वादश हस्ताः स्यु रेतेषामिह मन्मतम्।
गरुडोऽष्टकरो ज्ञेयो हंसो दश उदाहृतः ॥ २६९.५१
एवमेते प्रमाणेन कर्तव्याः शुभलक्षणाः।
यक्षराक्षसनागानं मातृहस्तान् प्रशंस्यते ॥ २६९.५२
तथा मेर्वादयः सप्त ज्येष्ठ लिङ्गे शुभावहाः।
श्रीवृक्षकादयश्चाष्टौ मध्यमस्य प्रकीर्तिताः ॥
तथा हंसादयः पञ्च कन्यसे शुभदा मताः ॥ २६९.५३
वलभीच्छन्दके गौरी जटामुकुट-धारिणी।
वरदा भयदा तद्वत् साक्षसूत्रकमण्डलुः॥ २६९.५४
गृहे तु रक्तमुकुटा उत्पलाङ्कुशधारिणी।
वरदा भयदा चापि पूजनीया सभर्तृका ॥ २६९.५५
तपोवनस्थामितरां तां तु सम्पूजयेद् बुधः।
देव्या विनायकस्तद्वत् वलभीच्छन्दके शुभः ॥ २६९.५६