देवप्रतिष्ठाविधिवर्णनम्।
सूत उवाच।
अतः परं प्रवक्ष्यामि मूर्तिपानान्तु लक्षणम्।
स्थापकस्य समासेन लक्षणं श्रुणुत द्विजाः ! ॥ २६५.१
सर्वावयवसम्पूर्णो वेदमन्त्रविशारदः।
पुराणवेत्ता तत्वज्ञो दम्भलोभविवर्जितः ॥ २६५.२
कृष्णसारमये देशे उत्पन्नश्च शुभाकृतिः।
शौचाचारपरो नित्यं पाषण्डकुलनिस्पृहः ॥ २६५.३
समः शत्रौ च मित्रे च ब्रह्मोपेन्द्रहरप्रियः।
ऊहापोहार्थतत्वज्ञो वास्तुशास्त्रस्य पारगः ॥ २६५.४
आचार्य्यस्तु भवेन्नित्यं सर्वदोषविवर्जितः।
मूर्तिपास्तु द्विजाश्चैव कुलीना ऋजवस्तथा ॥ २६५.५
द्वात्रिंशत् षोडशाथापि अष्टौ वा श्रुतिपारगाः।
ज्येष्ठमध्यकनिष्ठेषु मूर्तिपावः प्रकीर्तिता ॥ २६५.६
ततो लिङ्गमथार्चां वा नीत्वा स्नपनमण्डपम्।
नीतमङ्गलशब्देन स्नपनं तत्र कारयेत् ॥ २६५.७
पञ्चगव्यकषायेण मृद्भिर्भस्मोदकेन वा।
शौचं तत्र प्रकुर्वीत वेदमन्त्र चतुष्टयात् ॥ २६५.८
समुद्रज्येष्ठमन्त्रेण आपोदिव्येति चापरः।
यासां राजेतिमन्त्रस्तु आपोहिष्ठेति चापरः ॥ २६५.९
एवं स्नाप्य ततो देवं पूज्य गन्धानुलेपनैः।
प्रच्छाद्य वस्त्रयुग्मेन अभिवस्त्रेत्युदाहृतम् ॥ २६५.१०
उत्थापयेत्ततो देवमुत्तिष्ठ ब्रह्मणस्पते!।
अमूरुजेति च तथा रथे तिष्ठेति चापरः ॥ २६५.११
रथे ब्रह्मरते वापि धृतां शिल्पिगणेन तु।
आरोप्य च ततो विद्वानाकृष्णेन प्रवेशयेत् ॥ २६५.१२
ततः प्रास्तीर्य्य शय्यायां स्थापयेच्छनकैर्बुधः।
कुशानास्तीर्य पुष्पाणि स्थापयेत् प्राङ्मुखं ततः ॥ २६५.१३
ततस्तु निद्राकलशं वस्त्रकाञ्चन-संयतम्।
शिरोभागेतु देवस्य जपन्नेवं निधापयेत् ॥ २६५.१४
आपोदेवीति मन्त्रेण आपोऽस्मान् मातरोऽपि च।
ततो दुकूलपट्टैश्चाच्छाद्य नेत्रोपधानकम् ॥ २६५.१५
दद्यच्छिरसि देवस्य कौशेयं वा विचक्षणः।
मधुनासर्पिषाभ्यज्य पूज्यसिध्यार्थकैस्ततः ॥ २६५.१६
आप्यायस्वेति मन्त्रेण याते रुद्रशिवेति च।
उपविश्यार्चयेद्देवं गन्धपुष्पैः समन्ततः ॥ २६५.१७
सितं प्रतिसरं दद्यात् बार्हस्पत्येति मन्त्रतः।
दुकूलपट्टैः कार्पासैर्नानाचित्रै रथापि वा ॥ २६५.१८
आच्छाद्य देवं सर्वत्र छत्रचामरदर्पणम्।
पार्श्वतः स्थापयेत्तत्र वितानं पुष्पसंयुतम् ॥ २६५.१९
रत्नान्योषधयस्तत्र गृहोपकरणानि च।
भाजनानि विचित्राणि शयनान्यासनानि च ॥ २६५.२०
अभित्वा शूरमन्त्रेण यथा विभवतो न्यसेत्।
क्षीरं क्षौद्रं घृतं तद्वत् भक्ष्यभोज्यान्य(न्न)पायसैः ॥ २६५.२१
षड्विधैश्च रसैस्तद्वत् समन्तात् परिपूजयेत्।
बलिं दद्यात् प्रयत्नेन मन्त्रेणानेन भूरिशः ॥ २६५.२२
त्र्यम्बकं यजामेह इति सर्वतः शनकैर्भुवि।
मूर्तिपान् स्थापयेत् पश्चात् सर्वदिक्षु विचक्षणः ॥ २६५.२३
चतुरो द्वारपालांश्च द्वारेषु विनिवेशयेत्।
श्रीसूक्तं पावमानञ्च सोमसूक्तं सुमङ्गलम् ॥ २६५.२४
तथा च शान्तिकाध्यायमिन्द्रसूक्तं तथैव च।
रक्षोघ्नञ्च तथा सूक्तं पूर्वतो बह्वृचो जपेत् ॥ २६५.२५
रौद्रं पुरुषसूक्तञ्च श्लोकाध्यायं सशक्रियम्।
तथैव मण्डलाध्यायमध्वर्युर्दक्षिणे जपेत् ॥ २६५.२६
वामदेवं बृहत्साम ज्येष्ठसाम रथन्तरम्।
तथा पुरुषसूक्तञ्च रुद्रसूक्तं सशान्तिकम् ॥ २६५.२७
भारुण्डानि च सामानि च्छन्दोगः पश्चिमे जपेत्।
अथर्वोऽङ्गिरसं तद्वन्नीलं रौद्रं तथैव च॥ २६५.२८
तथा पराजिता देवी सप्तसूक्तं सरौद्रकम्।
तथैव शान्तिकाध्यायमथर्वां चोत्तरे जपेत् ॥ २६५.२९
शिरःस्थाने तु देवस्य स्थापको होममाचरेत्।
शान्तिकैः पौष्टिकैस्तद्वन् मन्त्रैर्व्याहृतिपूर्वकैः ॥ २६५.३०
पलाशो दुम्बराश्वत्थ अपामार्गः शमी तथा।
हुत्वा सहस्रमेकैकं देवं पादे तु संस्पृशेत् ॥ २६५.३१
ततो होमसहस्रेण हुत्वा हुत्वा ततस्ततः।
नाभिमध्यं तथा वक्षः शिरश्चाप्यालभेत् पुनः ॥ २६५.३२
हस्तमात्रेषु कुण्डेषु मूर्तिपाः सर्वतो दिशम्।
समेखलेषु ते कुर्युर्योनिवक्त्रेषु चादरात् ॥ २६५.३३
वितस्ति मात्रा योनिः स्यद् गजोष्ठसदृशी तथा।
आयताच्छिद्रसंयुक्ता पार्श्वतः कलयोच्छ्रिता ॥ २६५.३४
कुण्डात् कलानुसारेण सर्वतश्चतुरङ्गुला।
विस्तारेणोच्छ्रयातद्वच्चतुरस्रा समा भवेत् ॥ २६५.३५
वेदी भित्तिं परित्यज्य त्रयोदशभिरङ्गुलैः।
एवं नवसु कुण्डेषु लक्षणञ्चैव दृश्यते ॥ २६५.३६
आग्नेय शाक्रयाम्येषु होतव्यमुदगाननैः।
शान्तयो लोकपालेभ्यो मूर्तिभ्यः क्रमशस्तथा ॥ २६५.३७
तथा मूर्त्यधिदेवानां होमं कुर्यात् समाहितः।
वसुधा वसुरेता च यजमानो दिवाकरः ॥ २६५.३८
जलं वायु स्तथा सोम आकाशश्चाष्टमः स्मृतः।
देवस्य मूर्तयस्त्वष्टा वेताः कुण्डेषु संस्मरेत् ॥ २६५.३९
एतासामधिपान्वक्ष्ये पवित्रान् मूर्ति नामतः।
पृथ्वीं पाति सर्वश्च पशुपश्चाग्निमेव च ॥ २६५.४०
यजमानं तथैवोग्रो रुद्रश्चादित्यमेव च।
भवो जलं सदा पाति वायुमीशान एव च ॥ २६५.४१
महादेवस्तथा चन्द्र भीमश्चाकाशमेव च।
सर्वदेवप्रतिष्ठासु मूर्तिपा ह्येत एव च ॥ २६५.४२
एतेभ्यो वैदिकैर्मन्त्रेर्यथास्वं होममाचरेत्।
तथा शान्तिघटं कुर्य्यात् प्रतिकुण्डेषु सन्न्यसेत् ॥ २६५.४३
शतान्ते वा सहस्रान्ते सम्पूर्णाहुतिरिष्यते।
समपादः पृथिव्यान्तु प्रशान्तात्मा विनिक्षिपेत् ॥ २६५.४४
आहुतीनान्तु सम्पातं पूर्णकुम्भेषु वै न्यसेत्।
मूलमध्योत्तमाङ्गेषु देवं तेनावसेचयेत् ॥ २६५.४५
स्थितश्च स्नापयेत्तेन सम्पाताहुतिवारिणा।
प्रतियामेषु धूपन्तु नैवद्यञ्चदनोदकम् ॥ २६५.४६
पुनः पुनः प्रकुर्वीत होमः कार्यः पुनः पुनः।
पुनः पुनश्च दातव्या यजमानेन दक्षिणा ॥ २६५.४७
सितवस्त्रैश्च ते सर्वे पूजनीयाः समन्ततः।
विचित्रैर्हेमकटकैः हेमसूत्राङ्गुलीयकैः ॥ २६५.४८
वासोभिः शयनीयैश्च परिधाप्याः स्वशक्तितः।
भोजनञ्चापि दातव्यं यावत् स्यादधिवासनम् ॥ २६५.४९
बलिस्त्रिसन्ध्यं दातव्यो भूतेभ्यः सर्वतो दिशम्।
ब्राह्मणान् भोजयेत् पूर्वं शेषान् वर्णांस्तु कामतः ॥ २६५.५०
रात्रौ महोत्सवः कार्यो नृत्यगीतकमङ्गलैः।
सदा पूज्याः प्रयत्नेन चतुर्थी कर्म यावता ॥ २६५.५१
त्रिरात्रमेकरात्रं वा पञ्चरात्रमथापि वा।
सप्तरात्रमथो कुर्य्यात् क्वचित्सद्योऽधिवासनम्
सर्वयज्ञफलो यस्मादधिवासोत्सवः सदा ॥ २६५.५२