लिङ्गलक्षणवर्णनम्।
सूत उवाच।
अथातः सम्प्रवक्ष्यामि लिङ्गलक्षणमुत्तमम्।
सुस्निग्धञ्च सुवर्णञ्च लिङ्गं कुर्याद्विचक्षणः ॥ २६३.१
प्रासादस्य प्रमाणेन लिङ्गमानं विधीयते।
लिङ्गमानेन वा विद्यात् प्रासादं शुभलक्षणम्॥ २६३.२
चतुरस्रे समे गर्त्ते ब्रह्मसूत्रं निपातयेत्।
वामेन ब्रह्मसूत्रस्य अर्च्चा वा लिङ्गमेव च ॥ २६३.३
प्रागुत्तरेण लीनन्तु दक्षिणा परया श्रितम्।
पुरस्यापरदिग्भागे पूर्वद्वारं प्रकल्पयेत् ॥ २६३.४
पूर्वेण चापरं द्वारं माहेन्द्रं दक्षिणोत्तरम्।
द्वारं विभज्य पूर्वन्तु एकाविंशति भागिकम् ॥ २६३.५
ततो मध्यगतं ज्ञात्वा ब्रह्मसूत्रं प्रकल्पयेत्।
तस्यार्द्धन्तु त्रिधा कृत्वा भागञ्चोत्तरतस्त्यजेत् ॥ २६३.६
एवं दक्षिणतस्त्यक्त्वा ब्रह्मस्थानं प्रकल्पयेत्।
भागार्द्धेन तु यल्लिङ्गं कार्यन्तदिह शस्यते ॥ २६३.७
पञ्चभागविभक्ते वा त्रिभागे ज्यैष्ठ्यमुच्यते।
भाजिते नवधा गर्भे माध्यमं पाञ्चभागिकम् ॥ २६३.८
एकस्मिन्नेव नवधा गर्भे लिङ्गानि कारयेत्।
समसूत्रं विभज्याथ नवधा गर्भभाजितम् ॥ २६३.९
ज्येष्ठमर्द्धं कनीयोऽर्धं तथा मध्यम मध्यमम्।
एवं गर्भः समाख्यातस्त्रिभिर्भागैर्विभाजयेत् ॥ २६३.१०
ज्येष्ठन्तु त्रिविधं ज्ञेयं मध्यमन्त्रिविधन्तथा।
कनीयं त्रिविधं तद्वत् लिङ्गभेदा नवैव तु ॥ २६३.११
नाभ्यर्धमष्टभागेन विभज्याथ समं बुधैः।
भागत्रयं परित्यज्य विष्कम्भञ्चतुरस्रकम् ॥ २६३.१२
अष्टास्रं मध्यमं ज्ञेयं भागं लिङ्गस्य वै ध्रुवम्।
विकीर्णे चेत्ततो गृह्य कोणाभ्यां लाञ्छयेद् बुधः ॥ २६३.१३
अष्टास्रं कारयेत्तद्वदूर्ध्वमप्येवमेव तु।
षोडशास्त्रीकृतं पश्चाद्वर्तुलं कारयेत्ततः ॥ २६३.१४
आयामा तस्य देवस्य नाभ्यां वै कुण्डलीकृतम्।
माहेश्वरं त्रिभागन्तु ऊर्ध्ववृत्तं त्ववस्थितम् ॥ २६३.१५
अधस्ताद् ब्रह्मभागस्तु चतुरस्रो विधीयते।
अष्टास्रो वैष्णवो भागो मध्यस्तस्य उदाहृतः ॥ २६३.१६
एवं प्रमाणसंयुक्तं लिङ्गवृद्धिप्रदम्भवेत्।
तथान्यदपि वक्ष्यामि गर्भमानं प्रमाणतः ॥ २६३.१७
गर्भमानप्रमाणेन यल्लिङ्गमुचितं भवेत्।
चतुर्धा तद्विभज्याथ विष्कुम्भन्तु प्रकल्पयेत् ॥ २६३.१८
देवतायतने सूत्रं भागत्रयविकल्पितम्।
अधस्ताच्चतुरस्रन्तु अष्टास्रं मध्यभागतः ॥ २६३.१९
पूज्यभागस्ततोऽर्द्धन्तु नाभिभागस्तथोच्यते।
आयामे यद्भवेत्सूत्रं नाहस्य चतुरस्रके ॥ २६३.२०
चतुरस्रार्द्धं परित्यज्य अष्टास्रस्यतु यद् भवेत्।
तस्याप्यर्द्धं परित्यज्य ततो वृत्तन्तु कारयेत् ॥ २६३.२१
शिरः प्रदक्षिणं तस्य सङ्क्षिप्तं मूलतो न्यसेत्।
ज्येष्ठपूज्यं भवेल्लिङ्गमधस्ताद्विपुलञ्च यत् ॥ २६३.२२
शिरसा च सदा निम्नं मनोज्ञं लक्षणान्वितम्।
सौम्यन्तु दृश्यते लिङ्गन्तद्वै वृद्धिप्रदं भवेत् ॥ २६३.२३
अथ मूले च मध्ये तु प्रमाणे सर्वतः समम्।
एवम्विधन्तु यल्लिङ्गं भवेत्तत्सार्वकामिकम् ॥ २६३.२४
अन्यथा यद्भवेल्लिङ्गं तदसत् सम्प्रचक्षते।
एवं रत्नमयं कुर्यात् स्फाटिकं पार्थिवं तथा ॥ २६३.२५
शुभं दारुमयञ्चापि यद्वा मनसि रोचते ॥