पीठिकालक्षणवर्णनम्।
सूत उवाच।
पीठिकालक्षणं वक्ष्ये यथावदनुपूर्वशः।
पीठोच्छ्रायं यथावच्च भागान् षोडश कारयेत् ॥ २६२.१
भूमावेकः प्रविष्टः स्याच्चतुर्भिर्जगती मता।
वृत्तो भागस्तथैकः स्यात् वृतः पटलभागतः ॥ २६२.२
भागैस्त्रिभिस्तथा कण्ठः कण्ठपट्टस्त्रिभागतः।
भागाभ्यामूर्ध्वपट्टश्च शेषभागेन पट्टिका ॥ २६२.३
प्रविष्टं भागमेकैकं जगती यावदेवतु।
निर्गमस्तु पुनस्तस्य यावद्वै शेषपट्टिका ॥ २६२.४
वारिनिर्गमनार्थन्तु तत्र कार्य्यः प्रणालकः।
पीठिकानान्तुसर्वासामेतत्सामान्यलक्षणम् ॥ २६२.५
विशेषान् देवता भेदान् श्रृणुध्वं द्विजसत्तमाः!।
स्थण्डिला वाथ वापी वा यक्षी वेदी च मण्डला ॥ २६२.६
पूर्णचन्द्रा च वज्रा च पद्मार्धशशिनस्तथा।
त्रिकोणा दशमी तासां संस्थानं वा निबोधत ॥ २६२.७
स्थण्डिला चतुरस्रा तु वर्जिता मेखलादिभिः।
वापी द्विमेखला ज्ञेया यक्षी चैव त्रिमेखला ॥ २६२.८
चतुरस्रायता वेदी न तां लिङ्गेषु योजयेत्।
मण्डलावर्तुलायातु मेखलाभिर्गणप्रिया ॥ २६२.९
रक्ता द्विमेखला मध्ये पूर्णचन्द्रा तु सा भवेत्।
मेखलात्रयसंयुक्ता षडस्रा वज्रिका भवेत् ॥ २६२.१०
षोडशास्त्रा भवेत्पद्मा किञ्चिद्ध्रस्वा तु मूलतः।
तथैव धनुषाकारा सार्द्धचन्द्रा प्रशस्यते ॥ २६२.११
त्रिशूलसदृशी तद्वत् त्रिकोणाह्यूर्ध्वतो मता।
प्रागुदक्प्रवणा तद्वत्प्रशस्ता लक्षणान्विता ॥ २६२.१२
परिवेषं त्रिभागेन निर्गमं तत्र कारयेत्।
विस्तारं तत्प्रमाणञ्च मूलेचाग्रे ततोर्ध्वतः ॥ २६२.१३
जलमार्गश्च कर्तव्यस्त्रिभागेन सुशोभनः।
लिङ्गस्यार्द्धविभागेन स्थौल्येन समधिष्ठिता ॥ २६२.१४
मेखला तत्त्रिभागेन खातञ्चैव प्रमाणतः।
अथवा पादहीनन्तु शोभनं कारयेत्सदा ॥ २६२.१५
उत्तरस्थं प्रणालञ्च प्रमाणादधिकारयेत्।
स्थण्डिलायामथारोग्यं धनं धान्यञ्च पुष्कलम् ॥ २६२.१६
गोप्रदा च भवेद्यक्षी वेदी सम्पत् प्रदा भवेत्।
मण्डलायां भवेत्कीर्तिर्वरदा पूर्णचन्द्रिका ॥ २६२.१७
आयुःप्रदा भवेद्वज्रा पद्मा सौभाग्यदा भवेत्।
पुत्रप्रदार्धचन्द्रा स्यात् त्रिकोणशत्रुनाशिनी ॥ २६२.१८
देवस्य यजनार्थन्तु पीठिका दश कीर्तिताः।
शैले शैलमयी दद्यात् पार्थिवे पार्थिवी तथा ॥ २६२.१९
दारुजे दारुजां कुर्यात् मिश्रे मिश्रां तथैव च।
नान्ययोनिस्तु कर्तव्या सदा शुभफलेप्सुभिः ॥ २६२.२०
अर्च्चायामा समन्दैर्घ्यं लिङ्गायामसमन्तथा।
यस्य देवस्य या पत्नी तां पीठे परिकल्पयेत् ॥
एतत्सर्वं समाख्यातं समासात्पीठलक्षणम् ॥ २६२.२१