२५९

अतः परं प्रवक्ष्यामि देवाकारान् विशेषतः।
दशतालः स्मृतो रामो बलिर्वैरोचनिस्तथा ॥ २५९.१

वराहो नारसिंहश्च सप्ततालस्तु वामनः।
मत्स्यकूर्मौ च निर्दिष्टौ यथा शोभं स्वयम्भुवा ॥ २५९.२

अतः परं प्रवक्ष्यामि रुद्राद्याकारमुत्तमम्।
स पीनोरुभुजस्कन्ध स्तप्तकाञ्चनसप्रभः ॥ २५९.३

शुक्लोऽर्करश्मिसङ्घात श्चन्द्राङ्कितजटो विभुः।
जटामुकुटधारी च द्व्यष्टवर्षाकृतिश्च सः ॥ २५९.४

बाहुवारणहस्ताभो वृतजङ्घोरुमण्डलः।
ऊद्‌र्ध्वकेशश्च कर्तव्यो दीर्घायतविलोचनः ॥ २५९.५

व्याघ्रचर्मपरीधानः कटिसूत्र त्रयान्वितः।
हारकेयूरसम्पन्नो भुजङ्गाभरणस्तथा ॥ २५९.६

बाहवश्चापि कर्तव्या नानाभरणभूषिताः।
पीनोरुगण्डफलकः कुण्डलाभ्यामलङ्कृतः ॥ २५९.७

आजानुलम्बबाहुश्च सौम्यमूर्तिः सुशोभनः।
खेटकं वामहस्ते तु शङ्खञ्चैव तु दक्षिणे ॥ २५९.८

शक्तिं दण्डं त्रिशूलञ्च दक्षिणेषु निवेशयेत्।
कपालं वामपर्श्वे तु नागं खट्वाङ्गमेव च ॥ २५९.९

एकश्च वरदो हस्तस्तथाक्षवलयोऽपरः।
वैशाखस्थानकं कृत्वा नृत्याभिनयसंस्थितः ॥ २५९.१०

नृत्यन्दशभुजः कार्यो गजचर्मधरस्तथा।
तथा त्रिपुरदाहे च बाहवः षोडशैव तु ॥ २५९.११

शङ्खं चक्रं गदाशार्ङ्गं घण्टा तत्राधिका भवेत्।
तथा धनुः पिनाकञ्च शरो विष्णुमयस्तथा ॥ २५९.१२

चतुर्भुजोऽष्ट बाहुर्वा ज्ञानयोगेश्वरो मतः।
तीक्ष्णनासाग्रदशनः करालवदनो महान् ॥ २५९.१३

भैरवः शस्यते लोके प्रत्यायतनसंस्थितः।
न मूलायतने कार्ये भैरवस्तु भयङ्करः ॥ २५९.१४

नारसिंह वराहो वा तथान्येऽपि भयङ्कराः।
नाधिकाङ्गां न हीनाङ्गां कर्तव्या देवताः क्वचित् ॥ २५९.१५

स्वामिनं घातयेन्न्यूना करालवदना तथा।
अधिका शिल्पिनं हन्यात् कृशा चैवार्थनाशिनी ॥ २५९.१६

कृशोदरी तु दुर्भिक्षं निर्मांसा धननाशिनी।
वक्रनासा तु दुःखाय सङ्क्षिप्ताङ्गी भयङ्करी ॥ २५९.१७

चिपिटा दुःखशोकाय अनेत्रा नेत्रनाशिनी।
दुःखदा हीनवक्त्रा तु पाणिपादकृशा तथा ॥ २५९.१८

हीनाङ्गी हीनजङ्घा च भ्रमोन्मादकरी नृणाम्।
शुष्कवक्त्रा तु राजानं कटिहीना च या भवेत् ॥ २५९.१९

पाणिपादविहीनो यो जायते मारको महान्।
जङ्घाजानुवीहिना च शत्रुकल्याणकारिणी ॥ २५९.२०

पुत्रमित्रविनाशाय हीनवक्षस्थला तु या।
सम्पूर्णावयवा या तु आयुर्लक्ष्मी प्रदा सदा ॥ २५९.२१

एवं लक्षणमासाद्य कर्तव्यः परमेश्वरः।
स्तूयमानः सुरैः सर्वैः समन्ताद्दर्शयेद् भवम् ॥ २५९.२२

शक्रेण नन्दिना चैव महाकालेन शङ्करम्।
प्रणता लोकपालास्तु पार्श्वे तु गणनायकाः ॥ २५९.२३

नृत्यद्भृङ्गीरिटिश्चैव भूतवेतालसंवृताः।
सर्वे हृष्टास्तु कर्तव्याः स्तुवन्तः परमेश्वरम् ॥ २५९.२४

गन्धर्व विद्याधर किन्नराणामथाप्सरो गुह्यकनायकानाम्।
गणैरनेकैः शतशो महेन्द्रैर्मुनिप्रवीरैरपि नम्यमानम्॥ २५९.२५

धृताक्षसूत्रैः शतशः प्रबाल पुष्पोपहार प्रचयन्ददद्भिः।
संस्तूयमानं भगवन्तमीड्यं नेत्रत्रयेणामरमर्त्यपूज्यम् ॥ २५९.२६