क्रियायोगविधिवर्णनम्।
ऋषय ऊचुः।
क्रियायोगः कथं सिद्ध्येद् गृहस्थादिषु सर्वदा।
ज्ञानयोगसहस्राद्धि कर्मयोगो विशिष्यते ॥ २५८.१
सूत उवाच।
क्रियायोगं प्रवक्ष्यामि देवतार्चानुकीर्तनम्।
भुक्तिमुक्तिप्रदं यस्मान्नान्यत् लोकेषु विद्यते ॥ २५८.२
प्रतिष्ठायां सुराणां तु देवतार्चानुकीर्तनम्।
देवयज्ञोत्सवञ्चापि बन्धनाद्ये न मुच्यते ॥ २५८.३
विष्णौस्तावत् प्रवक्ष्यामि यादृग्रूपं प्रशस्यते।
शङ्खचक्रधरं शान्तं पद्महस्तं गदाधरम् ॥ २५८.४
च्छत्राकारं शिरस्तस्य कम्बुग्रीवं शुभेक्षणम्।
तुङ्गनाशं शुक्तिकर्णं प्रशान्तोरुभुजक्रमम् ॥ २५८.५
क्वचिदष्टभुजं विद्याच्चतुर्भुजमथापरम्।
द्विभुजश्चापि कर्तव्यो भवनेषु पुरोधसा ॥ २५८.६
देवस्याष्टभुजस्यास्य यथा स्थानं निबोधत।
खड्गो गदाशरः पद्मं दिव्यं दक्षिणतो हरेः॥ २५८.७
धनुश्च खेटकञ्चैव शङ्खचक्रे च वामतः ।
चतुर्भुजस्य वक्ष्यामि यथैवायुधसंस्थितिः ॥ २५८.८
दक्षिणेन गदापद्मं वासुदेवस्य कारयेत्।
वामतः शङ्खचक्रे च कर्तव्ये भूतिमिच्छता ॥ २५८.९
कृष्णावतारे तु गदा वामहस्ते प्रशस्यते।
यथेच्छया शङ्खचक्रे चोपरिष्टात् प्रकल्पयेत् ॥ २५८.१०
अधस्तात् पृथिवी तस्य कर्तव्या पादमध्यतः।
दक्षिणे प्रणतं तद्वद् गरुत्मन्तं निवेशयेत् ॥ २५८.११
वामतस्तु भवेल्लक्ष्मीः पद्महस्ता शुभानना।
गरुत्मानग्रतो वापि संस्थाप्यो भूतिमिच्छता ॥ २५८.१२
श्रीश्चपुष्टिश्च कर्तव्ये पार्श्वयोः पद्मसंयुते।
तोरणञ्चोपरिष्टात्तु विद्याधरसमन्वितम् ॥ २५८.१३
देवदुन्दुभिसंयुक्तं गन्धर्व मिथुनान्वितम्।
पत्रवल्लीसमोपेतं सिंहव्याघ्र समन्वितम् ॥ २५८.१४
तथा कल्पतलोपेतं स्तुवद्भिरमरेश्वरैः।
एवं विधो भवेद् विष्णो स्त्रिभागेनास्य पीठिका ॥ २५८.१५
नवतालप्रमाणास्तु देवदानवकिन्नराः।
अतःपरं प्रवक्ष्यामि मानोन्मानं विशेषतः ॥ २५८.१६
जालान्तरप्रविष्टानां भानूनां यद्रजःस्फुटम्।
त्रसरेणुः सविज्ञेयो वालाग्रं तैरथाष्टभिः ॥ २५८.१७
तदष्टकेन लिक्षा तु यूकालिक्षाष्टकैर्मता।
यवो यूकाष्टकं तद्वदष्टभिस्तैस्तदङ्गुलम्॥ २५८.१८
स्वकीयाङ्गुलिमानेन मुखं स्याद् द्वादशाङ्गुलम्।
मुखमानेन कर्तव्या सर्वावयवकल्पना ॥ २५८.१९
सौवर्णी राजती वापि ताम्री रत्नमयी तथा।
शैलीदारुमयीचापि लोहसङ्घमयी तथा ॥ २५८.२०
रीतिकाधातुयुक्ता वा ताम्रकांस्यमयी तथा।
शुभदारुमयीवापि देवतार्चा प्रशस्यते ॥ २५८.२१
अङ्गुष्ठपर्वादारभ्य वितस्तिर्यावदेव तु।
गृहेषु प्रतिमा कार्या नाधिका शस्यते बुधैः ॥ २५८.२२
आषोडशा तु प्रासादे कर्तव्या नाधिका ततः।
मध्योत्तमकनिष्ठा तु कार्या वित्तानुसारतः ॥ २५८.२३
द्वारोच्छ्रायस्य यन्मानमष्टधा तत्तु कारयेत्।
बागमेकं ततस्त्यक्त्वा परिशिष्टन्तु यद् भवेत् ॥ २५८.२४
भागद्वयेन प्रतिमा त्रिभागीकृत्य तत्पुनः।
पीठिका भागतः कार्या नातिनीचा न चोच्छ्रिता ॥ २५८.२५
प्रतिमामुखमानेन नवभागान् प्रकल्पयेत्।
चतुरङ्गुला भवेद् ग्रीवा भागेन हृदयं पुनः ॥ २५८.२६
नाभिस्तस्मादधः कार्या भागेनैकेन शोभना।
निम्नत्वे विस्तरत्वे च अङ्गुलं परिकीर्तितम् ॥ २५८.२७
नाभेरधस्तथा मेढ्रं भागेनैकेन कल्पयेत्।
द्विभागेनायतावूरू जानुनी चतुरङ्गुले ॥ २५८.२८
जङ्घे द्विभागे विख्याते पादौ च चतुरङ्गुलौ।
चतुर्दशाङ्गुलस्तद्वत् मौलिरस्य प्रकीर्तितः ॥ २५८.२९
ऊर्ध्वं मानमिदं प्रोक्तं पृथुत्वञ्च निबोधतः।
सर्वावयवमानेषु विस्तारं क्षृणुत द्विजाः ! ॥ २५८.३०
चतुरङ्गुलं ललाटं स्यादूर्ध्वं नासा तथैव च।
द्व्यङ्गुलन्तु हनुर्ज्ञेयमोष्ठः स्वाङ्गुलसम्मितः ॥ २५८.३१
अष्टाङ्गुले ललाटे च तावन्मात्रे भ्रुवौ मते।
अर्द्धाङ्गुला भ्रुवोर्लेखा मध्ये धनुरिवानता ॥ २५८.३२
उन्नताग्रा भवेत्पार्श्वे श्लक्ष्ण तीक्ष्ण प्रसस्यते।
अक्षिणी द्व्यङ्गुला यामे तदर्धं चैव विस्तरे ॥ २५८.३३
उन्नतोदरमध्ये तु रक्तान्ते शुभलक्षणे।
तारकार्धविभागेन दृष्टिः स्यात् पञ्चभागिका ॥ २५८.३४
द्वंयगुलन्तु भ्रुवोर्मध्ये नासा मूलमथाङ्गुलम्।
नासाग्रविस्तरं तद्वत् पुटद्वयमथानतम् ॥ २५८.३५
नासा पुटबिलं तद्वदर्धाङ्गुलमुदाहृतम्।
कपोले द्व्यङ्गुले तद्वत् कर्णमूलाद्विनिर्गते ॥ २५८.३६
हन्वग्रमङ्गुलं तद्वद्विस्तारो द्व्यङ्गुलो भवेत्।
अर्द्धाङ्गुला भ्रुवो राजी प्रणालसदृशी समा ॥ २५८.३७
अर्द्धाङ्गुल समस्तद्वदुत्तरोष्ठस्तु विस्तरे।
निष्पावसदृशन्तद्वन्नासा पुटदलं भवेत् ॥ २५८.३८
खृक्किणी ज्योतिस्तुल्ये तु कर्णमूलात् षडङ्गुले।
कर्णौ तु भ्रूसमौ ज्ञेयौ ऊर्ध्वन्तु चतुरङ्गुलौ ॥ २५८.३९
द्व्यङ्गुलौ कर्णपार्श्वौ तु मात्रामेकान्तु विस्तृतौ।
कर्णयोरुपरिष्टाच्च मस्तकं द्वादशाङ्गुलम् ॥ २५८.४०
ललाटात्पृष्ठतोऽर्धेन प्रोक्तमष्टादशाङ्गुलम्।
षट्त्रिंशदङ्गुलश्चास्य परिणाहः शिरोगतः ॥ २५८.४१
सकेशनिचयो यस्य द्विचत्वारिंशदङ्गुलः।
केशान्तात्हनुका तद्वदङ्गुलानि तु षोडश ॥ २५८.४२
ग्रीवा मध्यपरीणाह चतुर्विंशतिकाङ्गुलः।
अष्टाङ्गुला भवेद् ग्रीवा पृथुत्वेन प्रशस्यते ॥ २५८.४३
स्तनग्रीवान्तरं प्रोक्तमेकतालं स्वयम्भुवा।
स्तनयोरन्तरं तद्वद् द्वादशाङ्गुलमिष्यते ॥ २५८.४४
स्तनयोर्मण्डलं तद्वद् द्व्यङ्गुलं परिकीर्तितम्।
चूचुकौ मण्डलस्यान्तर्यवमात्रा वुभौ स्मृतौ ॥ २५८.४५
द्वितालञ्चापि विस्ताराद् वक्षस्थलमुदाहृतम्।
कक्षे षडङ्गुले प्रोक्ते बाहुमूलस्तनान्तरे ॥ २५८.४६
चतुर्दशाङ्गुलौ पादावङ्गुष्ठौ तु त्रियङ्गुलौ।
पञ्चाङ्गुलपरीणाहमङ्गुष्ठाग्रं तथोन्नतम् ॥ २५८.४७
अङ्गुष्ठकसमा तद्वदायामा स्यात्प्रदेशिनी।
तस्याः षोडशभागेन हीयते मध्यमाङ्गुली ॥ २५८.४८
अनामिकाष्टभागेन कनिष्ठा चापि हीयते।
पर्वत्रयेण चाङ्गुल्यो गुल्फौ द्व्यङ्गुलकौ मतौ॥ २५८.४९
पार्ष्णिर्द्व्यङ्गुलमात्रस्तु कलयोच्चः प्रकीर्तितः।
द्विपर्वाङ्गुष्ठकः प्रोक्त परीणाहश्च द्व्यङ्गुलः ॥ २५८.५०
प्रदेशिनी परीणाहस्त्र्यङ्गुलः समुदाहृतः।
कन्यसा चाष्टभागेन हीयते क्रमशो द्विजाः ॥ २५८.५१
अङ्गुलेनोच्छ्रयः कार्यो ह्यङ्गुष्ठस्य विशेषतः।
तदर्धेन तु शेषाणामङ्गुलीनान्तथोच्छ्रयः ॥ २५८.५२
जङ्घाग्रे परिणाहस्तु अङ्गुलानि चतुर्दश।
जङ्घा मध्ये परीणाहस्तथैवाष्टादशाङ्गुलः ॥ २५८.५३
जानुमध्ये परीणाह एकविशतिरङ्गुलः।
जानूच्छ्रयोऽङ्गुलप्रोक्ते मण्डलन्तु त्रिरङ्गुलम् ॥ २५८.५४
उरुमध्ये परीणाहो ह्यष्टाविंशतिकाङ्गुलः।
एकत्रिंशोपरिष्टाच्च वृषणौ तु त्रिरङ्गुलौ॥ २५८.५५
द्व्यङ्गुलश्च तथा मेढ्रं परीणाहः षडङ्गुलम्।
मणिबन्धादधो विद्यात् केशरेकास्तथैव च॥ २५८.५६
मणिकोशपरीणाहश्चतुरङ्गुल इष्यते।
विस्तरेण भवेत्तद्वत्कटिरष्टादशाङ्गुला ॥ २५८.५७
द्वाविंशति तथा स्त्रीणां स्तनौ च द्वादशाङ्गुलौ।
नाभिमध्यपरीणाहो द्विचत्वारिंशदङ्गुलः ॥ २५८.५८
पुरुषे पञ्चपञ्चाशत् कट्याञ्चैव तु वेष्टनम्।
कक्षयोरुपरिष्टात्तु स्कन्धौ प्रोक्तौ षडङ्गुलौ ॥ २५८.५९
अष्टाङ्गुलान्तु विस्तारे ग्रीवाञ्चैव विनिर्दिशेत्।
परीणाहे तथा ग्रीवां कला द्वादश निर्दिशेत् ॥ २५८.६०
आयामो भुजयोस्तद्वत् द्विचत्वारिंशदङ्गुलः।
कार्यन्तु बाहुशिखरं प्रमाणे षोडशाङ्गुलम् ॥ २५८.६१
ऊर्ध्वं यद् बाहुपर्यन्न्तं विन्द्यादष्टाङ्गुलं शतम्।
तथैकाङ्गुलहीनन्तु द्वितीयं पर्व उच्यते ॥ २५८.६२
बाहुमध्ये परीणाहो भवेदष्टादशाङ्गुलः।
षोडशोक्तः प्रबाहुस्तु षट्कलोग्र करोमतः ॥ २५८.६३
सप्ताङ्गुलं करतलं पञ्चमध्याङ्गुलीमता।
अनामिका मध्यमायाः सप्तभागेन हीयते ॥ २५८.६४
तस्यास्तु पञ्चभागेन कनिष्ठा परिहीयते।
मध्यमायास्तु हीना वै पञ्चभागेन तर्जनी ॥ २५८.६५
अङ्गुष्ठस्तर्जनीमूलादधः प्रोक्तस्तु तत्समः।
अङ्गुष्ठपरिणाहस्तु विज्ञेयश्चतुरङ्गुलः ॥ २५८.६६
शेषाणामङ्गुलीनान्तु भागो भागेन हीयते।
मध्यमा मध्यभागन्तु अङ्गुलद्वयमायतम् ॥ २५८.६७
यवो यवेन सर्वासान्तस्यास्तस्याः प्रहीयते।
अङ्गुष्ठपर्वमध्यन्तु तर्जन्या सदृशं भवेत्॥ २५८.६८
यवद्वयाधिकं तद्वदग्रपर्व उदाहृतम्।
पर्वार्धे तु नखान्विद्यादङ्गुलीषु समन्ततः ॥ २५८.६९
स्निग्धं श्लक्ष्णं प्रकुर्वीत ईषद्रक्तं तथाग्रतः।
निम्नपृष्टं भवेन्मध्ये पार्श्वतः कलयोच्छ्रितम् ॥ २५८.७०
तत्रैव केशवल्लीयं स्कन्धोपरि दशाङ्गुला।
स्त्रियः कार्यास्तु तन्वङ्ग्यः स्तनोरुजघनाधिकाः ॥ २५८.७१
चतुर्दशाङ्गुलायाममुदरं नाम निर्दिशेत्।
नानाभरणसम्पन्नाः किञ्चित् श्लक्ष्णभुजास्ततः ॥ २५८.७२
किञ्चिद्धीर्घं भवेद्वक्त्रमलकावलिरुत्तमा।
नासाग्रीवा ललाटञ्च सार्द्धमात्रं त्रिरङ्गुलम् ॥ २५८.७३
अध्यर्द्धाङ्गुलविस्तारः शस्यतेऽधरपल्लवः।
अधिकं नेत्रयुग्मन्तु चतुर्भागेन निर्दिशेत् ॥ २५८.७४
ग्रीवावलिश्च कर्तव्या किञ्चिदर्धाङ्गुलोच्छ्रया।
एवं वारीषु सर्वासु देवानां प्रतिमासु च ।
तव चालमिदं प्रोक्तं लक्षणं पापनाशनम् ॥ २५८.७५