वास्तुविद्यानुकीर्तनम्
सूत उवाच।
अथातः सम्प्रवक्ष्यामि दार्वाहरणमुत्तमम्।
धनिष्ठा पञ्चके मुक्त्वा विष्ट्यादिकमतः परम् ॥ २५७.१
ततः सांवत्सरादिष्टे दिने यायाद्वनं बुधः।
प्रथमं बलिपूजाञ्च कुर्य्याद्वृक्षस्य सर्वदा ॥ २५७.२
पूर्वोत्तरेण पतितं गृहदारु प्रशस्यते।
अन्यथा न शुभं विन्द्यात् याम्योपरि निपातनम् ॥ २५७.३
क्षीरवृक्षोद्भवं दारु न गृहे विनिवेशयेत्।
कृताधिवासं विहगैरनिलानलपीडितम् ॥ २५७.४
गजावरुग्णञ्च तथा विद्युन्निर्घातपीडितम्।
अर्द्धशुष्कं तथा दारुभग्नशुष्कं तथैव च ॥ २५७.५
चैत्यदेवालयोत्पन्नं नदीसङ्गमजन्तथा।
श्मशानकूपनिलयं तडागादि समुद्भवम् ॥ २५७.६
वर्जयेत् सर्वथा दारु यदीच्छेद्विपुलां श्रियम्।
तथा कण्टकिनो वृक्षान् नीपनिम्ब विभीतकान् ॥ २५७.७
श्लेष्मातका नाम्रतरून् वर्जयेत् गृहकर्मणि।
आसनाशोकमधुकसर्जशालाः शुभावहाः ॥ २५७.८
चन्दनं पनसन्धन्यं सुरदारुहरिद्रवः।
द्वाभ्यामेकेन वा कुर्यात् त्रिभिर्वा भवनं शुभम् ॥ २५७.९
बहुभिः कारितं यस्मादनेकभयदं भवेत्।
एकैव शिंशपा धन्या श्रीपर्णा तिन्दुकी तथा ॥ २५७.१०
एता नान्यसमायुक्ताः कदाचिच्छुभकारकाः।
स्यन्दनः पनसस्तद्वत् सरलार्जुनपद्मकाः ॥ २५७.११
एते नान्यसमायुक्ता वास्तुकार्यफलप्रदाः।
तरुच्छेदे महापीते गोधा विन्द्याद्विचक्षणः ॥ २५७.१२
माञ्चिष्ठवर्णे भेकः स्यान्नीले सर्पादि निर्दिशेत्।
अरुणे सरठं विद्यान्मुक्ताभे शुकमादिशेत् ॥ २५७.१३
कपिले मूषकान्विद्यात् खड्गाभे जलमादिशेत् ।
एवं विधं सगर्भन्तु वर्जयेद्वास्तु कर्मणि ॥ २५७.१४
पूर्वच्छिन्नन्तु गृह्णीयान्निमित्तशकुनैः शुभैः।
व्यासेन गुणिते दैर्घ्य अष्टाभिर्वैहृते तथा ॥ २५७.१५
यच्छेषमायतं विद्यादष्टभेदं वदामि वः।
ध्वजो धूमश्च सिंहश्च वृषभः खर एव च॥ २५७.१६
हस्तीध्वाङ्क्षश्च पूर्वाद्याः करशेषाभवन्त्यमी।
ध्वजः सर्वमुखो धन्यः प्रत्यग्द्वारो विशेषतः ॥ २५७.१७
उदङ्मुखो भवेत्सिंहः प्राङ्मुखो वृषभो भवेत्।
दक्षिणाभिमुखो हस्ती सप्तभिः समुदाहृतः ॥ २५७.१८
एकेन ध्वज उद्धिष्टस्त्रिभिः सिंहः प्रकीर्तितः।
पञ्चभिर्वृषभः प्रोक्तो विकोणस्थाश्च वर्जयेत् ॥ २५७.१९
तमेवाष्टगुणं कृत्वा करराशिं विचक्षणः।
सप्तविंशाहृते भागे ऋक्षं विद्याद्विचक्षणः ॥ २५७.२०
अष्टभिर्भाजिते ऋक्षे यः शेषः सव्ययो मतः।
व्याधिकं न कुर्वीत यतो दोषकरम्भवेत् ॥
आयाधिके भवेच्छान्तिरित्याह भगवान् हरिः ॥ २५७.२१
कृत्वाग्रतो द्विजवरानथ पूर्णकुम्भं दध्यक्ष ताम्र दल पुष्प फलोपशोभम्।
कृत्वा हिरण्यवसनानि तदा द्विजेभ्यो मङ्गल्यशान्तिनिलयाय गृहं विशेत्तु ॥ २५७.२२
गृह्योक्तहोमविधिना बलिकर्म कुर्यात् प्रासादवास्तुशमने च विधिर्य उक्तः।
सन्तर्पयेद्द्विजवरानथ भक्ष्यभोज्यैः शुक्लाम्बरः स्वभवनं प्रविशेत्सधूपम् ॥ २५७.२३