स्तम्भमाननिर्णयवर्णनम्।
सूत उवाच।
अथातः सम्प्रवक्ष्यामि स्तम्भमान विनिर्णयम्।
कृत्वा स्वभुवनोच्छ्रायं सदा सप्तगुणं बुधैः ॥ २५५.१
अशीत्यंशः पृथुत्वं स्यादग्रेणावगुणैः सह।
रुचकश्चतुरः स्यात्तु अष्टास्रो वज्र उच्यते ॥ २५५.२
द्विवज्र षोडशास्त्रस्तु द्वात्रिंशास्त्रः प्रलीनकः।
मध्यप्रदेशे यस्तम्भो वृत्तो वृत्त इति स्मृतः ॥ २५५.३
एते पञ्च महास्तम्भाः प्रशस्ताः सर्ववास्तुषु।
पद्म वल्ली लता कुम्भ पत्र दर्पण रूपिताः ॥ २५५.४
स्तम्भस्य नवमांशेन पद्मकुम्भान्तराणि तु।
स्तम्भतुल्या तुला प्रोक्ता हीना चोपतुला ततः ॥ २५५.५
त्रिभागेनेह सर्वत्र चतुर्भागेन वा पुनः।
हीनं हीनं चतुर्थांशात् तथा सर्वासु भूमिषु ॥ २५५.६
वासगेहानि सर्वेषां प्रवेशे दक्षिणेन तु।
द्वाराणि तु प्रवक्ष्यामि प्रशस्तानीह यानि तु ॥ २५५.७
पूर्वेणेन्द्रं जयन्तञ्च द्वारं सर्वत्र शस्यते।
याम्यञ्च वितथञ्चैव दक्षिणेन विदुर्बुधाः ॥ २५५.८
पश्चिमे पुष्पदन्तं च वारुणञ्च प्रशस्यते।
उत्तरेण तु भल्लाटं सौम्यं तु शुभदम्भवेत् ॥ २५५.९
तथा वास्तुषु सर्वत्र वेधं द्वारस्य वर्जयेत्।
द्वारे तु रथ्यया विद्धे भवेत् सर्वकुलक्षयः ॥ २५५.१०
तरुणाद्वेष बाहुल्यं शोकः पङ्केन जायते।
अपस्मारो भवेन्नूनं कूपवेधेन सर्वदा ॥ २५५.११
व्यथा प्रस्रवणेन स्यात् कीलेनाग्नि भयं भवेत्।
विनाशो देवता विद्धे स्तम्भेन स्त्रीकृतं भवेत् ॥ २५५.१२
गृहभर्तुर्विनाशः स्यात् गृहेण च गृहे कृते।
अमेध्यावस्करैर्विद्धे गृहिणी बन्धकी भवेत् ॥ २५५.१३
तथा शस्त्रमयं विन्द्यादन्त्यजस्य गृहेण तु।
उच्छ्राया द्विगुणां भूमिं त्यक्त्वा वेधो न जायते ॥ २५५.१४
स्वयमुत्पाटिते द्वारे उन्मादो गृहवासिनाम्।
स्वयं वा पिहिते विद्यात् कुलनाशं विचक्षणः ॥ २५५.१५
मानाधिके राजभयं न्यूने तस्करतो भवेत्।
द्वारोपरि च यद्द्वारं तदन्तकमुखं स्मृतम् ॥ २५५.१६
अध्वनो मध्यदेशे तु अधिको यस्य विस्तरः।
वज्रन्तु सङ्कटं मध्ये सद्योभर्तुर्विनाशनम् ॥ २५५.१७
तथान्यपीडितं द्वारं बहुदोषकरं भवेत्।
मूलद्वारा तथान्यत्तु नाधिकं शोभनं भवेत् ॥ २५५.१८
कुम्भश्रीपर्णि वल्लीभिर्मूलद्वारन्तु शोभयेत्।
पूजयेच्चापि तन्नित्यं बलिना चाक्षतोदकैः ॥ २५५.१९
भवनस्य वटः पूर्वे दिग्भागे सर्वकामिकः।
उदुम्बरस्तथा याम्ये वारुण्यां पिप्पलः शुभः ॥ २५५.२०
प्लक्षश्चोत्तरतो धन्यो विपरीतास्त्वसिद्धये।
कण्टकीक्षीरवृक्षश्च आसनः सफलो द्रुमः ॥ २५५.२१
भार्य्याहानौ प्रजाहानौ भवेतां क्रमशस्तदा।
न च्छिन्द्यात् यदि तानन्यानन्तरे स्थापयेच्छुभान् ॥ २५५.२२
पुन्नागा शोक बकुल शमी तिलक चम्पकान्।
दाडिमी पिप्पली द्राक्षा तथा कुसुममण्डपान् ॥ २५५.२३
जम्बीरपूगपनसद्रुमकेतकीभिर्जातीसरोजशतपत्रिकमल्लिकाभिः।
यन्नालिकेरकदलीदलपाटलाभिर्युक्तं तदत्र भवनं श्रियमातनोति ॥ २५५.२४