२५४

भवननिर्माणवर्णनम्।

सूत उवाच।
चतुः शालं प्रवक्ष्यामि स्वरूपन्नामतस्तथा।
चतुः शालञ्चतुर्द्वारैरलिन्दैः सर्वतोमुखम् ॥ २५४.१

नाम्ना तत् सर्वतो भद्रं शुभं देवनृपालये।
पश्चिमद्वारहीनञ्च नन्द्यावर्तः प्रचक्षते ॥ २५४.२

दक्षिणद्वारहीनन्तु वर्द्धमानमुपाहृतम्।
पूर्वद्वारविहीनं नत्स्वस्तिकं नाम विश्रुतम् ॥ २५४.३

रुचकं चोत्तरद्वारविहीनं तत्प्रचक्षते।
सौम्यशाला विहीनं यत्त्रिशालं धान्यकञ्च तत् ॥ २५४.४

क्षेमवृद्धिकरं नॄणां बहुपुत्रफलप्रदम्।
शालया पूर्वया हीनं सुक्षेत्रमिति विश्रुतम् ॥ २५४.५

धन्यं यशस्यमायुष्यं शोकमोह विनाशनम्।
शालया याम्यया हीनं यद्विशालं तु शालया ॥ २५४.६

कुलक्षयकरं नॄणां सर्वव्याधिविनाशनम्।
हीनं पश्चिमया यत्तु पक्षघ्नं नाम तत्पुनः ॥ २५४.७

मित्र बन्धून् सुतान् हन्त तथा सर्वभयापहम्।
याम्यापराभ्यां शालाभ्यां धनधान्यफलप्रदम् ॥ २५४.८

क्षेमवृद्धिकरं नॄणां तथा पुत्र फलप्रदम्।
यम सूर्यञ्च विज्ञेयं पश्चिमोत्तरसालिकम् ॥ २५४.९

राजाग्निभयदं नॄणां कुलक्षयकरं च यत्।
उदक्पूर्वे तु शालेहं दण्डाख्ये यत्र तद्भवेत् ॥ २५४.१०

अकालमृत्युभयदं परचक्रभयावहम्।
धनाख्यं पूर्वयाम्याभ्यां शालाभ्यां यद्विशालकम्॥ २५४.११

तच्छस्त्रभयदं नॄणां पराभवभयावहम्।
चुल्लीपूर्वा पराभ्यां तु साभवेन्मृत्युसूचनी ॥ २५४.१२

वैधव्यदायकं स्त्रीणामनेकभयकारकम्।
कार्यमुत्तरयाम्याभ्यां शालाभ्यां भयदं नृणाम् ॥ २४३.१३

सिद्धार्थवज्रवर्ज्याणि विशालानि सदा बुधैः।
अथातः सम्प्रवक्ष्यामि भवनं पृथिवीपतेः ॥ २५४.१४

पञ्चप्रकारं तत्प्रोक्तमुत्तमादि विभेदतः।
अष्टोत्तरं हस्तशतं विस्तरश्चोत्तमो मतः ॥ २५४.१५

चतुर्ष्वन्येषु विस्तारो हीयते चाष्टभिः करैः।
चतुर्थांशाधिकं दैर्घ्यं पञ्चस्वपि निगद्यते ॥ २५४.१६

युवराजस्य वक्ष्यामि तथा भवनपञ्चकम्।
षड्भिः षड्भिस्तथाशीति हीयते तत्र विस्तरात् ॥ २५४.१७

त्र्यंशेन चाधिकं दैर्घ्यं पञ्चस्वपि निगद्यते।
सेनापतेः प्रवक्ष्यामि तथा भवनपञ्चकम् ॥ २५४.१८

चतुः षष्टिस्तु विस्तारात् षड्भिः षड्भिस्तु हीयते।
पञ्चस्वेतेषु दैर्घ्यञ्च षड्भागेनाधिकं भवेत् ॥ २५४.१९

मन्त्रिणामथ वक्ष्यामि तथा भवनपञ्चकम्।
चतुश्चतुभिर्हीना स्यात् करषष्टिः प्रविस्तरे ॥ २५४.२०

अष्टांशेनाधिकं दैर्घ्यं पञ्चस्वपि निगद्यते।
सामन्तामात्यलोकानां वक्ष्ये भवनपञ्चकम् ॥ २५४.२१

चत्वारिंशत्तथाष्टौ च चतुर्भिर्हीयते क्रमात्।
चतुर्थांशाधिकं दैर्घ्यं पञ्चस्वेतेषु शस्यते ॥ २५४.२२

शिल्पिनां कञ्चुकीनाञ्च वेश्यानां गृहपञ्चकम् ।
अष्टाविंशत् कराणान्तु विहिनं विस्तरे क्रमात् ॥ २५४.२३

द्विगुणं दैर्घ्यमेवोक्तं मध्यमेष्वेवमेव तत्।
दूतीकर्मान्तिकादीनां वक्ष्ये भवनपञ्चकम् ॥ २५४.२४

चतुर्थांशाधिकं दैर्घ्यं विस्तारो द्वादशैव तु।
अर्धार्धकरहानिः स्याद्विस्तारात् पञ्चशः क्रमात् ॥ २५४.२५

दैवज्ञगुरुवैद्यानां सभास्तारपुरोधसाम्।
तेषामपि प्रवक्ष्यामि तथा भवन पञ्चकम् ॥ २५४.२६

चत्वारिंशत्तु विस्ताराच्चतुर्भिर्हीयते क्रमात्।
पञ्चस्वेतेषु दैर्घ्यञ्च षड्भागे नाधिकं भवेत् ॥ २५४.२७

चतुर्वर्णस्य वक्ष्यामि सामान्यं गृहपञ्चकम्।
द्वात्रिंशति कारणान्तु चतुर्भिर्हीयते क्रमात् ॥ २५४.२८

आषोडशादितिपरं नूनमन्तेवसायिनाम्।
दशांशेनाष्टभागेन त्रिभागेनाथ पादिकम् ॥ २५४.२९

अधिकं दैर्घ्यमित्याहु ब्राह्मणादेः प्रशस्यते।
सेनापतेर्नृपस्यापि गृहयोरन्तरेण तु ॥ २५४.३०

नृपवासगृहं कार्य्यं भाण्डागारन्तथैव च।
सेनापतेर्गृहस्यापि चातुर्वर्ण्यस्य चान्तरे ॥
वासाय च गृहं कार्यं राजपूज्येषु सर्वदा ॥ २५४.३१

अन्तरप्रभवानाञ्च स्वपितुर्गृहमिष्यते।
तथा हस्तशतादर्द्धं गदितं वनवासिनाम् ॥ २५४.३२

सेनापतेर्नृपस्यापि सप्तत्यासहितेऽन्विते।
चतुर्दश हृते व्यासे शालान्यासः प्रकीर्तितः ॥ २५४.३३

पञ्चत्रिंशान्विते तस्मिन्नलिन्दः समुदाहृतः।
तथा षट्त्रिंशद्धस्ता तु सप्ताङ्गुलसमन्विता ॥ २५४.३४

विप्रस्य महतीशाला न दैर्घ्यं परतो भवेत्।
दशाङ्गलाधिका तद्वत् क्षत्रियस्य न विद्यते ॥ २५४.३५

पञ्चत्रिंशत्कारवैश्ये अङ्गुलानि त्रयोदश।
तावत्करैव शूद्रस्य युतापञ्च दशाङ्गुलैः ॥ २५४.३६

शालायास्तु त्रिभागेन यस्याग्रे वीथिका भवेत् ।
सोष्णीषं नाम तद्वास्तु पश्चाच्छ्रेयोच्छ्रयं भवेत् ॥ २५४.३७

पार्श्वयोर्वीथिका यत्र सावष्टम्भन्तदुच्यते।
समन्ताद्वीथिका यत्र सुस्थितं तदिहोच्यते ॥ २५४.३८

शुभदं सर्वमेतत्स्याच्चातुर्वर्णे चतुर्विधम्।
विस्तरात् षोडशो भागस्तथा हस्तचतुष्टयम् ॥ २५४.३९

प्रथमो भूमिकोच्छ्राय उपरिष्टात् प्रहीयते।
द्वादशांशेन सर्वासु भूमिकासु तथोच्छ्रयः ॥ २५४.४०

पक्केष्टकाभवेद्भित्तिः षोडशांशेन विस्तरात्।
दारवेरविकल्पास्यात्तथा मृण्मयभित्तिका ॥ २५४.४१

गर्भमानेन मानन्तु सर्ववास्तुषु शस्यते।
गृहव्यासस्य पञ्चाशदष्टादशभिरङ्गुलैः ॥ २५४.४२

संयुतो द्वारविष्कम्भो द्विगुणश्चोच्छ्रयो भवेत्।
द्वारशाखा सुबाहुल्यमुच्छ्राय करसम्मितैः ॥ २५४.४३

अङ्गुलैः सर्ववास्तूनां पृथुत्वं शस्यते बुधैः।
उदुम्बरोत्तमागञ्च तदर्धार्धं प्रविस्तरात् ॥ २५४.४४