२५१

क्षीरोदमथनवर्णनम्।
सूत उवाच।
मथ्यमाने पुनस्तस्मिन् जलधौ समदृश्यत।
धन्वन्तरिः स भगवान् आयुर्वेदप्रजापतिः ॥ २५१.१॥

मदिरा चायताक्षी सा लोकचित्तप्रमाथिनी।
ततोऽमृतञ्च सुरभिः सर्वभूतभयापहा ॥ २५१.२॥

जग्राह कमलां विष्णुः कौस्तुभञ्च महामणिम्।
गजेन्द्रञ्च सहस्राक्षो हयरत्नञ्च भास्करः ॥ २५१.३॥

धन्वन्तरिञ्च जग्राह लोकारोग्यप्रवर्तकम्।
च्छत्रं जग्राह वरुणः कुण्डले च शचीपतिः ॥ २५१.४॥

पारिजाततरुं वायुर्जग्राह मुदितस्तथा।
धन्वन्तरिस्ततो देवो वपुष्मानुदतिष्ठत ॥ २५१.५॥

श्वेतं कमण्डलुं बिभ्रदमृतं यत्र तिष्ठति।
एतदत्यद्भुतं दृष्ट्वा दानवानां समुत्थितः ॥ २५१.६॥

अमृतार्थे महानादो ममेदमिति जल्पताम्।
ततो नारायणो मायामास्थितो मोहिनीं प्रभुः ॥ २५१.७॥

स्त्रीरूपमतुलं कृत्वा दानवानभिसंसृतः।
ततस्तदमृतं तस्यै ददुस्ते मूढचेतनाः।
स्त्रियै दानवदैतेयाः सर्वे तद्गतमानसाः ॥ २५१.८॥

अथास्त्राणि च मुख्यानि महाप्रहरणानि च।
प्रगृह्याभ्यद्रवन्देवान् सहिता दैत्यदानवाः ॥ २५१.९॥

ततस्तदमृतं देवो विष्णुरादाय वीर्यवान्।
जहार दानवेन्द्रेभ्यो नरेण सहितः प्रभुः ॥ २५१.१०॥

ततो देवगणाः सर्वे पपुस्तदमृतं तदा।
विष्णोः सकाशात् सम्प्राप्य सङ्ग्रामे तुमुले सति ॥ २५१.११॥

ततः पिबत्सु तत्कालं देवेष्वमृतमीप्सितम्।
राहुर्विबुधरूपेण दानवोऽप्यपिबत्तदा ॥ २५१.१२॥

तस्य कण्ठमनुप्राप्ते दानवस्यामृते तदा।
आख्यातं चन्द्रसूर्याभ्यां सुराणां हितकाम्यया ॥ २५१.१३॥

ततो भगवता तस्य शिरश्छिन्नमलङ्कृतम्।
चक्रायुधेन चक्रेण पिबतोऽमृतमोजसा ॥ २५१.१४॥

तच्छैलश्रृङ्गप्रतिमं दानवस्य शिरो महत्।
चक्रेणोत्कृत्तमपतच्चालयन् वसुधातलम् ॥ २५१.१५॥

ततो वैरविनिर्बन्धः कृतो राहुमुखेन वै।
शाश्वतश्चन्द्रसूर्याभ्यां प्रसह्याद्यापि बाधते ॥ २५१.१६॥

विहाय भगवांश्चापि स्त्रीरूपमतुलं हरिः।
नाना प्रहरणैर्भीमैर्दानवान् समकम्पयत् ॥ २५१.१७॥

प्रासाः सुविपुलास्तीक्ष्णाः पतन्तश्च सहस्रशः।
ते सुराश्चक्रनिर्भिन्ना वमन्तो रुधिरं बहु ॥ २५१.१८॥

अरिशक्तिगदाभिन्ना निपेतुर्धरणीतले।
भिन्नानि पट्टिशश्चापि शिरांसि युधिदारुणैः ॥ २५१.१९॥

तप्तकाञ्चनमाल्यानि निपेतुरनिशन्तदा।
रुधिरेणावलिप्ताङ्गा निहताश्च महासुराः ॥ २५१.२०॥

अद्रिणामिव कूटानि धातुरक्तानि शेरते।
ततो हलहलाशब्दः सम्बभूव समन्ततः ॥ २५१.२१॥

अन्योऽन्यं च्छिन्दतां शस्त्रैरादित्ये लोहितायति।
परिघैश्चायसैः पीतैः सन्निकर्षैश्च मुष्टिभिः ॥ २५१.२२॥

निघ्नतां समरेऽन्योऽन्यं शब्दो दिवमिवास्पृशत्।
च्छिन्धि भिन्धि प्रधावेति पातयेभिसरेति वै ॥ २५१.२३॥

विश्रूयन्ते महाघोराः शब्दास्तत्र समन्ततः।
एवं सुतुमुले युद्धे वर्तमाने महाभये ॥ २५१.२४॥

नरानारायणौ देवौ समाजग्मतुराहवम्।
तत्र दिव्यं धनुर्दृष्ट्वा नरस्य भगवानपि ॥
चिन्तयामास वै चक्रं विष्णुर्दानवसत्तमान् ॥ २५१.२५॥

ततोऽम्बराच्चिन्तितमात्रमागतं महाप्रभं चक्रममित्रनाशनम्।
विभावसोस्तुल्यमकुण्ठमण्डलं सुदर्शनं भीममसह्यमुत्तमम् ॥ २५१.२६॥

तदागतं ज्वलितहुताशनप्रभं भयङ्करं करिकरबाहुरच्युतः ।
महाप्रभं दनुकुलदैत्यदारणं तथोज्वलज्ज्वलनसमानविग्रहम् ॥ २५१.२७॥

मुमोच वै तपनमुदप्रवेगवान् महाप्रभं रिपुनगरावदारणम्।
सम्वर्त्तकज्वलनसमानवर्चसं पुनः पुनर्न्यपतत वेगवत्तदा ॥ २५१.२८॥

व्यदारयद्दितितनयान् सहस्रशः करेरितं पुरुषवरेण संयुगे।
दहत् क्वचिज्ज्वलन् इवानिलेरितं प्रसह्य तानसुरगणान्नकृन्तत ॥ २५१.२९॥

प्रवेरितं वियति मुहुः क्षितौ तदा पपौ रणे रुधिरमयः पिशाचवत्।
अथासुरा गिरिभिरदीनमानसा मुहुर्मुहुः सुरगणमर्दयंस्तथा ॥ २५१.३०॥

महाचला विगलितमेघवर्चसः सहस्रशो गगनमहाप्रपातिनः।
अथान्तराभरजननाः प्रपेदिरे सपादपा बहुविधमेघरूपिणः ॥ २५१.३१॥

महाद्रयः प्रविगलिताग्रसानवः परस्परं द्रुतमभिपत्य भास्वराः ।
ततो मही प्रचलितसाद्रिकानाना महीधराः पवनहताः समन्ततः ॥ २५१.३२॥

परस्परं भृशमभिगर्जितं मुहू रणाजिरे भृशमभि सम्प्रवर्त्तते।
नरस्ततो वरकनकाग्रभूषणैर्महेषुभिः पवनपथं समावृणोत् ॥ २५१.३३॥

विदारयन् गिरिशिखराणि पत्रिभिर्महाभये सुरगणविग्रहे तदा।
ततो महीं लवणजलञ्च सागरं महासुराः प्रविविशुरर्दिताः सुरैः ॥ २५१.३४॥

वियद्गतं ज्वलितहुताशनप्रभं सुदर्शनं परिकुपितं निशाम्य च।
ततः सुरैर्विजयमवाप्य मन्दरः स्वमेव देशं गमितः सुपूजितः ॥ २५१.३५॥

विनादयन् स्वदिशमुपेत्य सर्वशस्ततो गताः सलिलधरा यथा गतम्।
ततोऽमृतं सुनिहितमेव चक्रिरे सुराः परां मुदमभिगम्य पुष्कलाम्।
ददुश्च तं निघिममृतस्य रक्षितुं किरीटिने बलिभिरथामरैः सह ॥ २५१.३६॥