२४९

क्षीरोदमथनप्रकरणवर्णनम्।
ऋषय ऊचुः।
नारायणस्य माहात्म्यं श्रुत्वा सूत! यथाक्रमम्।
न तृप्तिर्जायतेऽस्माकमतः पुनरिहोच्यताम् ॥ २४९.१ ॥

कथं देवा गताः पूर्वममरत्वं विचक्षणाः।
तपसा कर्मणा वापि प्रसादात्कस्य तेजसा ॥ २४९.२ ॥

सूत उवाच।
यत्र नारायणो देवो महादेवश्च शूलधृक्।
तत्रामरत्वे सर्वेषां सहायौ तत्र तौ स्मृतौ ॥ २४९.३ ॥

पुरा देवासुरे युद्धे हताश्च शतशः सुरैः।
पुनः सञ्जीविनीं विद्यां प्रयोज्य भृगुनन्दनः ॥ २४९.४ ॥

जीवापयति दैत्येन्द्रान् यथा सुप्तोत्थितानिव।
तस्य तुष्टेन देवेन शङ्करेण महात्मना ॥ २४९.५ ॥

मृतसञ्जीविनी नाम विद्या दत्ता महाप्रभा।
तां तु माहेश्वरीं विद्यां महेश्वर मुखोद्गताम् ॥ २४९.६ ॥

भार्गवे संस्थितां दृष्ट्वा मुमुहुः सर्वदानवाः।
ततोऽमरत्वं दैत्यानां कृतं शुक्रेण धीमता ॥ २४९.७ ॥

या नास्ति सर्वलोकानां देवानां सर्वरक्षसाम्।
न नागानामृषीणाञ्च न च ब्रह्मेन्द्र विष्णुषु ॥ २४९.८ ॥

तां लब्ध्वा शङ्कराच्छुक्रः परां निर्गतिमागतः।
ततो दैवासुरो घोरः समरः सुमहानभूत् ॥ २४९.९ ॥

तत्र देवैर्हतान् दैत्यान् शुक्रो विद्याबलेन च।
उत्थापयति दैत्येन्द्रान् लीलयैव विचक्षणः ॥ २४९.१० ॥

एवम्विधेन शक्रस्तु बृहस्पतिरुदारधीः।
हन्यमानास्ततो देवाः शतशोऽथ सहस्रशः ॥ २४९.११ ॥

विषण्णवदनाः सर्वे बभूवुर्विकलेन्द्रियाः।
ततस्तेषु विषण्णेषु भगवान् कमलोद्भवः ।
मेरुपृष्ठे सुरेन्द्राणामिदमाह जगत्पतिः ॥ २४९.१२ ॥

ब्रह्मोवाच।
देवाः! श्रुणुत मद्वाक्यं तत्तथैव निरूप्यताम्।
क्षिपतां दानवै- सार्द्धं सख्यमत्र प्रवर्तताम् ॥ २४९.१३ ॥

क्रियताममृतोद्योगो मथ्यतां क्षीरवारिधिः।
सहायं वरुणं कृत्वा चक्रपाणिर्विबोध्यताम् ॥ २४९.१४ ॥

मन्थानं मन्दरं कृत्वा शेषनेत्रेण वेष्टितम्।
दानवेन्द्रो बलि स्वामी स्तोककालं निवेश्यताम् ॥ २४९.१५ ॥

प्रार्थ्यतां कूर्मरूपश्च पाताले विष्णुरव्ययः।
प्रार्थ्यतां मन्दरः शैलः मन्थकार्यं प्रवर्त्यताम् ॥ २४९.१६ ॥

तच्छ्रुत्वा वचनं देवा जग्मुर्दानवमन्दिरम्।
अलं विरोधेन वयं भृत्यास्तव बले!ऽधुना ॥ २४९.१७ ॥

क्रियताममृतोद्योगो व्रियतां शेषनेत्रकम्।
त्वया चोत्पादिते दैत्य! अमृतेऽमृतमन्थने ॥ २४९.१८ ॥

भविष्यामोऽमराः सर्वे त्वत्प्रसादान्न संशयः।
एवमुक्तस्तदा देवैः परितुष्टः स दानवः ॥ २४९.१९ ॥

यथा वदत हे देवाः! तथा कार्यं मयाऽधुना।
शक्तोऽहमेक एवात्र मथितुं क्षीरवारिधिम् ॥ २४९.२० ॥

आहरिष्येऽमृतं दिव्यममृतत्वाय वोऽधुना।
सुदूरादाश्रयं प्राप्तान् प्रणतानपि वैरिणः ॥ २४९.२१ ॥

यो न पूजयते भक्त्या प्रेत्य चेह विनश्यति।
पालयिष्यामि वः सर्वानधुना स्नेहमास्तितः ॥ २४९.२२ ॥

एवमुक्त्वा स दैत्येन्द्रो देवैः सह ययौ तदा।
मन्दरं प्रार्थयामास सहायत्वे धराधरम् ॥ २४९.२३ ॥

सखा भवत्वमस्माकमधुनाऽमृतमन्थने।
सुरासुराणां सर्वेषां महत्कार्यमिदं जगत् ॥ २४९.२४ ॥

तथेति मन्दरः प्राह यद्याधारो भवेन् मम।
यत्र स्थित्वा भ्रमिष्यामि मथिष्ये वरुणालयम् ॥ २४९.२५ ॥

कल्प्यतां नेत्रकार्ये यः शक्तः स्याद्वेष्टने मम।
ततस्तु निर्गतौ देवौ कूर्मशेषौ महाबलौ ॥ २४९.२६ ॥

विष्णोर्भागौ चतुर्थांशाद्धरण्या धारणे स्थितौ।
ऊचतुर्गर्वसंयुक्तं वचनं शेषकच्छपौ॥ २४९.२७ ॥

त्रैलोक्यधारणेनापि न ग्लानिर्मम जायते।
किमु मन्दरकात्क्षुद्रात् घुटिकासन्निभादिह ॥ २४९.२८ ॥

शेष उवाच।
ब्रह्माण्डवेष्टनेनापि ब्रह्माण्डमथनेन वा।
न मे ग्लानिर्भवेद्देहे किमु मन्दरवर्तने ॥ २४९.२९ ॥

तत उत्पाट्य तं शैलं तत्क्षणात् क्षीरसागरे।
चिक्षेप लीलया नागः कूर्मश्चाधः स्थितस्तदा ॥ २४९.३० ॥

निराधारं यदा शैलं नशेकुर्देवदानवाः।
मन्दरभ्रमणं कर्तुं क्षीरोदमथने तथा ॥ २४९.३१ ॥

नारायणनिवासन्ते जग्मुर्बलि समन्विताः।
यत्रास्ते देवदेवेशः स्वयमेव जनार्दनः ॥ २४९.३२ ॥

तत्रापश्यन्त तन्देवं सितपद्मप्रभं शुभम् ।
योगनिद्रासु निरतं पीतवाससमच्युतम् ॥ २४९.३३ ॥

हारकेयूरनद्धाङ्गमहिपर्यङ्क संस्थितम्।
पादपद्मेन पद्मायाः स्पृशन्तं नाभिमण्डलम् ॥ २४९.३४ ॥

स्वपक्षव्यजनेनाथ वीज्यमानङ्गरुत्मता।
स्तूयमानं समन्ताच्च सिद्धचारणकिन्नरैः ॥ २४९.३५ ॥

आम्नायैर्मूर्त्तिमद्भिश्च स्तूयमानं समन्ततः।
सव्यबाहूपधानं तन्तुष्टुवुर्देवदानवाः ॥ २४९.३६ ॥

कृताञ्जलिपुटाः सर्वे प्रणताः सर्वतो दिशम्।

देवदानवा ऊचुः।
नमो लोकत्रयाध्यक्ष! तेजसामितभास्कर! ॥ २४९.३७ ॥

नमो विष्णो! नमो जिष्णो! नमस्ते कैटभार्दन!।
नमः सर्गक्रियाकर्त्रे जगत्पालयते नमः ॥ २४९.३८ ॥

रुद्ररूपाय शर्व्वाय नमः संहारकारिणे।
नमः शूलाबुधाधृष्य नमो दानवघातिने ॥ २४९.३९ ॥

नमः क्रमत्रयाक्रान्त त्रैलोक्यायाभवाय च।
नमः प्रचण्डदैत्येन्द्र कुलकाल महानल! ॥ २४९.४० ॥

नमो नाभहृदोद्भूत पद्मगर्भ महाचल!।
पद्मभूत! महाभूत! कर्त्रे हर्त्रे जगत्प्रिय! ॥ २४९.४१ ॥

जनिता सर्वलोकेश! क्रिया कारणकारिणे।
अमरारि विनाशाय महासमरशालिने ॥ २४९.४२ ॥

लक्ष्मीमुखाब्ज मधुप! नमः कीर्तिनिवासिने।
अस्माकममरत्वाय ध्रियतां ध्रियतामयम् ॥ २४९.४३ ॥

मन्दरः सर्वशैलानामयुतायुत विस्तृतः।
अनन्तबलबाहुभ्यामवष्टभ्यैकपाणिना ॥ २४९.४४ ॥
मथ्यताममृतं देव! स्वधा स्वाहार्थकामिनाम्।
ततः श्रुत्वा स भगवान् स्तोत्रपूर्व्वं वचस्तदा।
विहाय योगनिद्रान्तामुवाच मधुसूदनः ॥ २४९.४५ ॥

श्रीभगवानुवाच।
स्वागतं विबुधाः! सर्वे किमागमनकारणम्।
यस्मात्कार्य्यादिह प्राप्तस्तद् ब्रूत विगतज्वराः ॥ २४९.४६ ॥

नारायणेनैव मुक्ताः प्रोचुस्तत्र दिवौकसः।
अमरत्वाय देवेश! मथ्यमाने महोदधौ ॥ २४९.४७ ॥

यथाऽमृतत्वं देवेश! तथा नः कुरु माधव!।
त्वया विना न तच्छक्यमस्माभिः कैटभार्दन! ॥ २४९.४८ ॥

प्राप्तुं तदमृतं नाथ! ततोऽग्रे भव नो विभो!।
इत्युक्तश्च ततो विष्णुरप्रधृष्योऽरिमर्दनः ॥ २४९.४९ ॥

जगाम देवैः सहितो यत्रासौ मन्दराचलः।
वेष्टितो भोगिभोगेन धृतश्चामरदानवैः ॥ २४९.५० ॥

विषभीतास्ततो देवा यतः पुच्छं ततः स्थिताः।
मुखतो दैत्यसङ्घास्तु सैंहिकेयपुरः सराः ॥ २४९.५१ ॥

सहस्रवदनं चास्य शिरः सव्येन पाणिना।
दक्षिणेन बलिर्देहं नागस्याकृष्टवांस्तथा ॥ २४९.५२ ॥

दधारामृतमन्थानं मन्दरं चारुकन्दरम्।
नारायणः स भगवान् भुजयुग्मद्वयेन तु ॥ २४९.५३ ॥

ततो देवासुरैः सर्वैर्जयशब्दपुरः सरम्।
दिव्यं वर्षशतं साग्रं मथितः क्षीरसागरः ॥ २४९.५४ ॥

ततः श्रान्तास्तु ते सर्वे देवाः दैत्यपुरः सरः।
श्रान्तेषु तेषु देवेन्द्रो मेघो भूत्वाम्बुशीकरान् ॥ २४९.५५ ॥

ववर्षामृतकल्पांस्तान् ववौ वायुश्च शीतलः।
भग्नप्रायेषु देवेषु शान्तेषु कमलासनः ॥ २४९.५६ ॥

मथ्यतां मथ्यतां सिन्धुरित्युवाच पुनः पुनः।
अवश्यमुद्योगवतां श्रीरपारा भवेत्सदा ॥ २४९.५७ ॥

ब्रह्मप्रोत्साहिताः देवा ममन्थुः पुनरम्बुधिम्।
भ्राम्यमाणे ततः शैले योजनायुतशेखरे ॥ २४९.५८ ॥

निपेतुर्हस्तियूथानि वराहशरभादयः।
श्वापदायुतलक्षाणि तथा पुष्पफलाद्रुमाः ॥ २४९.५९ ॥

ततः फलानां वीर्य्येण पुष्पौषधिरसेन च।
क्षीरसङ्घर्षणाच्चापि दधिरूपमजायत ॥ २४९.६० ॥

ततस्तु सर्वजीवेषु चूर्णितेषु सहस्रशः।
तदम्बुमेदसोत्सर्गाद् वारुणी समपद्यत ॥ २४९.६१ ॥

वारुणीगन्धमाघ्राय मुमुदुर्देवदानवाः।
तदा स्वादेन बलिनो देवदैत्यादयोऽभवन् ॥ २४९.६२ ॥

ततोऽतिवेगाज्जगृहुर्नागेन्द्रं सर्वतोऽसुराः।
मन्थानं मन्थयष्टिस्तु मेरुस्तत्राचलोऽभवत् ॥ २४९.६३ ॥

अभवच्चाग्रतो विष्णुर्भुजमन्दरबन्धनः।
स वासुकिफणालग्न पाणिः कृष्णो व्यराजत ॥ २४९.६४ ॥

यथा नीलोत्पलैर्युक्तो ब्रह्मदण्डोऽतिविस्तरः।
ध्वनिर्मेघसहस्रस्य जलधेरुत्थितस्तदा ॥ २४९.६५ ॥

भागे द्वितीये मघवानादित्यस्तु ततःपरम्।
ततो रुद्रा महोत्साहा वसवो गुह्यकादयः ॥ २४९.६६ ॥

पुरतो विप्रचित्तिश्च नमुचिर्वृत्रशम्बरौ।
द्विमूर्द्धा वज्रदंष्ट्रश्च सौंहिकेयो बलिस्तथा ॥ २४९.६७ ॥

एते चान्ये च बहवो मुखभागमुपस्थिताः।
ममन्थुरम्बुधिं दृप्ता बलतेजो विभूषिताः ॥ २४९.६८ ॥

बभूवात्र महाघोषो महामेघरवोपमः।
उदधेर्मथ्यमानस्य मन्दरेण सुरासुरैः ॥ २४९.६९ ॥

तत्र नानाजलचरा वनिर्धूता महाद्रिणा।
विलयं समुपाजग्मुः शतशोऽथ सहस्रशः ॥ २४९.७० ॥

वारुणानि च भूतानि विविधानि महेश्वरः।
पातालतलवासीनि विलयं समुपानयत् ॥ २४९.७१ ॥

तस्मिंश्च भ्राम्यमाणेऽद्रौ सङ्घृष्टाश्च परस्परम्।
न्यपतन् पतगोपेताः पर्वताग्रान्महाद्रुमाः ॥ २४९.७२ ॥

तेषां सङ्घर्षणाच्चाग्निरर्चिभिः प्रज्वलन् मुहुः।
विद्युद्भिरिव नीलाभ्रमावृणोत् मन्दरं गिरिम् ॥ २४९.७३ ॥

ददाह कुञ्जरांश्चैव सिंहांश्चैव विनिःसृतान्।
विगतासूनि सर्वाणि सत्वानि विविधानि च ॥ २४९.७४ ॥

तमग्निममरश्रेष्ठः प्रदहन्तमितस्ततः।
वारिणा मेघजेनेन्द्रः शमयामास सर्वतः ॥ २४९.७५ ॥

ततो नाना रसास्तत्र सुस्रुवुः सागराम्भसि।
महाद्रुमाणां निर्यासा बहवश्चौषधीरसाः ॥ २४९.७६ ॥

तेषाममृतवीर्य्याणां रसानां पयसैव च।
अमरत्वं सुरा जग्मुः काञ्चनच्छविसन्निभाः ॥ २४९.७७ ॥

अथ तस्य समुद्रस्य तज्जातमुदकं पयः।
रसान्तरैर्विमिश्रञ्च ततः क्षीरादभूद् घृतम् ॥ २४९.७८ ॥

तता ब्रह्माणमासीनं देवा वचनमब्रुवन्।
श्रान्ताः स्म सुभृशं ब्रह्मन्नोद्भवत्यमृतञ्च यत् ॥ २४९.७९ ॥

ऋते नारायणात् सर्वे दैत्या देवोत्तमास्तथा।
चिरायितमिदञ्चापि सागरस्य तु मन्थनम् ॥ २४९.८० ॥

ततो नारायणं देवं ब्रह्मा वचनमब्रवीत्।
विधत्स्वैषां बलं विष्णो! भवानेव परायणम् ॥ २४९.८१ ॥

विष्णुरुवाच।
बलं ददामि सर्वेषां कर्मैतद्ये समास्थिताः।
क्षुभ्यतां क्रमशः सर्वैर्मन्दरः परिवर्त्यताम् ॥ २४९.८२ ॥