वराहावतारचरित्रवर्णनम्।
शौनक उवाच।
जगदण्डमिदं पूर्वमासीद्दिव्यं हिरण्मयम्।
प्रजापतेरियं मूर्तिरितीयं वैदिकी श्रुतिः ॥ २४८.१ ॥
तत्तु वर्षसहस्रान्ते बिभेदोर्घ्वमुखं विभुः।
लोकसर्जनहेतोस्तु बिभेदाधोमुखं नृप!॥ २४८.२ ॥
भूयोऽष्टदा बिभेदाण्डं विष्णुर्वै लोकजन्मकृत्।
चकार जगतश्चात्र विभागं सविभागकृत् ॥ २४८.३ ॥
यच्छिद्रमूर्ध्वमाकाशं विवराकृतितां गतम्।
विहितं विश्वयोगेन यदधस्तद्रसातलम् ॥ २४८.४ ॥
यदण्डमकरोत्पूर्वं देवो लोकचिकीर्षया।
तत्र यत्सलिलं स्कन्नं सोऽभवत्काञ्चनो गिरिः ॥ २४८.५ ॥
शैलैः सहस्रैर्महती मेदिनी विषमाभवत्।
तैश्च पर्वतजालौघैर्बहुयोजनविस्तृतैः ॥ २४८.६ ॥
पीडिता गुरुभिर्देवी व्यथिता मेदिनी तदा।
महामते भूरि बलं दिव्यं नारायणात्मकम् ॥ २४८.७ ॥
हिरण्मयं समुत्सृज्य तेजो वै जातरूपिणम्।
अशक्ता वै धारयितुमधस्तात् प्राविशत्तदा ॥ २४८.८ ॥
पीड्यमाना भगवतस्तेजसा तस्य सा क्षितिः।
पृथ्वीं विशन्तीं दृष्ट्वा तु तामधोमधुसूदनः ॥ २४८.९ ॥
उद्धारार्थं मनश्चक्रे तस्या वै हितकाम्यया ॥ २४८.१० ॥
भगवानुवाच।
मत्तेज एषा वसुधा समासाद्य तपस्विनी।
रसातलं प्रविशति पङ्के गौरिव दुर्बला ॥ २४८.११ ॥
पृथिव्युवाच।
त्रिविक्रमायामितविक्रमाय महावराहाय सुरोत्तमाय।
श्रीशार्ङ्गचक्रासिगदाधराय नमोऽस्तु ते देववर! प्रसीद ॥ २४८.१२ ॥
तव देहाज्जगज्जातं पुष्करद्वीपमुत्थितम्।
ब्रह्माणमिह लोकानां भूतानां शाश्वतं विदुः ॥ २२४८.१३ ॥
तव प्रसादाद्देवोऽयं दिवं भुङ्क्ते पुरन्दरः।
तव क्रोधाद्धि बलवान् जनार्दन जितो बलिः॥ २४८.१४ ॥
धाता विधाता संहर्ता त्वयि सर्वं प्रतिष्ठितम्।
मनुः कृतान्तोऽधिपतिर्ज्वलनः पवनो घनः ॥ २४८.१५ ॥
वर्णाश्चाश्रमधर्माश्च सागरास्तरवो जलम्।
नद्यो धर्मश्च कामश्च यज्ञा यज्ञस्य च क्रियाः ॥ २४८.१६ ॥
विद्यावेद्यञ्च सत्वञ्च ह्रीः श्रीः कीर्तिर्धृतिः क्षमा।
पुराणं वेदवेदाङ्गं साङ्ख्ययोगौ भवाभवौ ॥ २४८.१७ ॥
जङ्गमं स्थावरञ्चैव भविष्यञ्च भवच्च यत्।
सर्वन्तच्च त्रिलोकेषु प्रभावोपहितन्तव ॥ २४८.१८ ॥
त्रिदशोदारफलदः स्वर्गस्त्री चारुपल्लवः।
सर्वलोकमनः कान्तः सर्वसत्वमनोहरः ॥ २४८.१९ ॥
वमानानेकविटपस्तोयदाम्बुमधुस्रवः।
दिव्यलोकमहास्कन्धसत्यलोकप्रशाखवान् ॥ २४८.२० ॥
सागराकारनिर्यासो रसातलजलाश्रयः।
नागेन्द्रपादपोपेतो जन्तुपक्षिनिषेवितः ॥ २४८.२१ ॥
शीलाचारार्यगन्धस्त्वं सर्वलोकमयोद्रुमः।
द्वादशार्कमयद्वीपो रुद्रैकादशपत्तनः ॥ २४८.२२ ॥
वस्वष्टाचलसंयुक्त स्त्रैलोक्याम्भो महोदधिः।
सिद्धसाध्योर्मिसलिल सुपर्णानिलसेवित ॥ २४८.२३ ॥
दैत्यलोकमहाग्राहो रक्षोरगरुषाकुलः।
पितामहमहाधैर्यः स्वर्गस्त्रीरत्नभूषितः ॥ २४८.२४ ॥
धीश्रीह्रीकान्तिभिः नित्यं नदीभिरुपशोभितः।
कालयोग महापर्व प्रयागगति वेगवान् ॥ २४८.२५ ॥
त्वं स्वयोगमहावीर्यो नारायणमहार्णवः।
कालो भूत्वा प्रसन्नाभिरद्भिर्ह्रादयसे पुनः ॥ २४८.२६ ॥
त्वया सृष्टास्त्रयो लोकास्त्वयैव प्रतिसंहृताः।
विशन्ति योगिनः सर्वे त्वामेव प्रतियोजिताः ॥ २४८.२७ ॥
युगे युगे युगान्ताग्निः कालमेघो युगे युगे।
महाभारावताराय देव! त्वं हि युगे युगे ॥ २४८.२८ ॥
त्वं हि शुक्लः कृतयुगे त्रेतायां चम्पकप्रभः।
द्वापरे रक्तसङ्काशः कृष्णः कलियुगे भवान् ॥ २४८.२९ ॥
वैवर्ण्यमभिधत्सेत्वं प्राप्तेषु युगसन्धिषु।
वैवर्ण्यं सर्वधर्माणामुत्पादयसि वेदवित् ॥ २४८.३० ॥
भासि वासिप्रतपसि त्वञ्च पासि विचेष्टसे।
क्रुध्यसि क्षान्तिमायासि त्वं दीपयसि वर्षसि ॥ २४८.३१ ॥
त्वं हास्यसि न निर्यासि निर्वापयसि जाग्रसि।
निःशेषयसि भूतानि कालो भूत्वा युगक्षये ॥ २४८.३२ ॥
शेषमात्मानमालोक्य विशेषयसि त्वं पुनः।
युगान्ताग्नावलीढेषु सर्वभूतेषु किञ्चन ॥ २४८.३३ ॥
यातेषु शेषो भवसि तस्माच्छेषोऽसि कीर्तितः।
च्यवनोत्पत्तियुक्तेषु ब्रह्मेन्द्र वरुणादिषु ॥ २४८.३४ ॥
यस्मान्न च्यवसे स्थानात्तस्मात्सङ्कीर्त्यसेऽच्युतः।
ब्रह्माणमिन्द्रञ्च यमं रुद्रं वरुणमेव च ॥ २४८.३५ ॥
निगृह्य हरसे यस्मात् तस्माद्धरिरिहोच्यसे।
सम्मानयसि भूतानि वपुषा यशसा श्रिया ॥ २४८.३६ ॥
परेण वपुषा देव! तस्माच्चासि सनातनः।
यस्माद् ब्रह्मादयो देवा मुनयश्चोग्रतेजसः ॥ २४८.३७ ॥
न तेऽन्तं त्वधिगच्छन्ति तेनानन्तस्त्वमुच्यसे।
न क्षीयसे न क्षरसे कल्पकोटिशतैरपि ॥ २४८.३८ ॥
तस्मात्त्वमक्षरत्वाच्च विष्णुरित्येव कीर्त्यसे।
विष्टब्धं यत्त्वया सर्वं जगत् स्थावरजङ्गमम् ॥ २४८.३९ ॥
जगद्विष्टम्भनाच्चैव विष्णुरेवेति कीर्त्यसे।
विष्टभ्य तिष्ठसे नित्यं त्रैलोक्यं सचराचरम् ॥ २४८.४० ॥
यक्षगन्धर्वनगरं सुमहद्भूतपन्नगम्।
व्याप्तं त्वयैव विशता त्रैलोक्यं सचराचरम् ॥ २४८.४१ ॥
तस्माद्विष्णुरिति प्रोक्तः स्वयमेव स्वयम्भुवा।
नारा इत्युच्यते ह्यापो ऋषिभिस्तत्वदर्शिभिः ॥ २४८.४२ ॥
अयनन्तस्यताः पूर्वन्तेन नारायणः स्मृतः।
युगे युगे प्रनष्टाङ्गां विष्णो! विन्दसि तत्वतः ॥ २४८.४३ ॥
गोविन्देति ततो नाम्ना प्रोच्यसे ऋषिभिस्तथा।
हृषीकाणीन्द्रियाण्याहुस्तत्वज्ञान विशारदाः ॥ २४८.४४ ॥
ईशिता च त्वमेतेषां हृषीकेशस्तथोच्यते।
वसन्ति त्वयि भूतानि ब्रह्मादीनि युगक्षये ॥ २४८.४५ ॥
त्वं वा वससि भूतेषु वासुदेवस्तथोच्यसे।
सङ्कर्षयसि भूतानि कल्पे कल्पे पुनः पुनः ॥ २४८.४६ ॥
ततः सङ्कर्षणः प्रोक्तस्तत्वज्ञान विशारदैः।
प्रतिव्यूहेन तिष्ठन्ति सदेवासुरराक्षसाः ॥ २४८.४७ ॥
प्रविद्युः सर्वधर्माणां प्रद्युम्नस्तेन चोच्यसे।
निरोद्धा विद्यते यस्मान्न ते भूतेषु कश्चन ॥ २४८.४८ ॥
अनिरुद्धस्ततः प्रोक्तः पूर्वमेव महर्षिभिः।
यत्त्वया धार्यते विश्वं त्वया संह्रियते जगत् ॥ २४८.४९ ॥
त्वं धारयसि भूतानि भवनं त्वं बिभर्षि च।
यत्त्वया धार्यते किञ्चित्तेजसा च बलेन च ॥ २४८.५० ॥
मया हि धार्यते पश्चान्नाधृतं धारये त्वया।
न हि तद्विद्यते भूतं त्वया यन्नात्र धार्यते ॥ २४८.५१ ॥
त्वमेव कुरुषे! देव! नारायण युगे युगे।
महाभारावतरणं जगतो हितकाम्यया ॥ २४८.५२ ॥
तवैव तेजसाक्रान्तां रसातलतलङ्गतम्।
त्रायस्व मां सुरश्रेष्ठ! त्वामेव शरणङ्गताम् ॥ २४८.५३ ॥
दानवैः पीड्यमानाहं राक्षसैश्च दुरात्मभिः।
त्वामेव शरणं नित्यमुपयामि सनातनम् ॥ २४८.५४ ॥
तावन्मेऽस्ति भयं देव! यावन्न त्वां ककुद्मिनम्।
शरणं यामि मनसा शतशोऽप्युपलक्षये ॥ २४८.५५ ॥
उपमानं न ते शक्ताः कर्तु सेन्द्रा दिवौकसः।
तत्त्वं त्वमेव तद्वेत्सि निरुत्तरमतः परम् ॥ २४८.५६ ॥
शौनक उवाच।
ततः प्रीतः स भगवान् पृथिव्यै शार्ङ्ग चक्रधृक्।
काममस्या यथाकाममभिपूरितवान् हरिः ॥ २४८.५७ ॥
अब्रवीच्च महादेवि! माधवीयं स्तवोत्तमम्।
धारयिष्यति यो मर्त्यो नास्ति तस्य पराभवः॥ २४८.५८ ॥
लोकान्निष्कल्मषां श्चैव वैष्णवान् प्रतिपत्स्यते।
एतदाश्चर्य सर्वस्वं माधवीयं स्तवोत्तमम् ॥ २४८.५९ ॥
अधीतवेदः पुरुषो मुनिः प्रीतमना भवेत् ॥ २४८.६० ॥
मा भैर्धरणि! कल्याणि! शान्तिं व्रज ममाग्रतः।
एष त्वामुचितं स्थानं प्रापयामि मनीषितम् ॥ २४८.६१ ॥
ततो महात्मा मनसा दिव्यं रूपमचिन्तयत्।
किन्नु रूपमहं कृत्वा उद्धरेयं धरामिमाम् ॥ २४८.६२ ॥
जलक्रीडारुचिस्तस्माद्वाराहं वपुरास्थितः।
अदृश्यं सर्वभूतानां वाङ्मयं ब्रह्म संस्थितम् ॥ २४८.६३ ॥
शतयोजनविस्तीर्णमुच्छ्रितं द्विगुणं ततः।
नीलजीमूतसङ्काशं मेघस्तनितनिस्वनम् ॥ २४८.६४ ॥
गिरिसंहननं भीमं श्वेततीक्ष्णाग्रदंष्ट्रिणम्।
विद्युदग्निप्रतीकाशमादित्य समतेजसम् ॥ २४८.६५ ॥
पीनोन्नतकटीदेशे वृषलक्षणपूजितम्।
रूपमास्थाय विपुलं वाराहमजितो हरिः ॥ २४८.६६ ॥
पृथिव्युद्धरणायैव प्रविवेश रसातलम्।
वेदपादो यूपदंष्ट्र क्रतुदन्तश्चितीमुखः ॥ २४८.६७ ॥
अग्निजिह्वो दर्भलोमा ब्रह्मशीर्षो महातपाः।
अहोरात्रेक्षणधरो वेदाङ्गश्रुतिभूषणः ॥ २४८.६८ ॥
आज्यनासः स्रुवतुण्डः सामघोषस्वनो महान्।
सत्यधर्ममयः श्रीमान् कर्मविक्रम सत्क्रमः ॥ २४८.६९ ॥
प्रायश्चित्त नखो घोरः पशुजानुर्मखाकृतिः।
उद्गाथा होमलिङ्गोऽथ बीजौषधि महाफलः ॥ २४८.७० ॥
वाय्वन्तरात्मा यज्ञास्थि विकृतिः सोमशोणितः।
वेदस्कन्धो हविर्गन्धो हव्यकव्यविभागवान् ॥ २४८.७१ ॥
प्राग्वंशकायो द्युतिमान् नानादीक्षाभिरन्वितः।
दक्षिणा हृदयो योगी महासत्रमयो महान् ॥ २४८.७२ ॥
उपाकर्मोष्ठरुचकः प्रवर्ग्यावर्तभूषणः।
नानाच्छन्दोगतिपथो गुह्योपनिषदासनः ॥ २४८.७३ ॥
छाया पत्नी सहायो वै मणिश्रृङ्ग इवोच्छ्रितः।
रसातलतले मग्नां रसातलतलङ्गताम् ॥ २४८.७४ ॥
प्रभुर्लोकहितार्थाय दष्ट्राङ्ग्रेणोज्जहार ताम्।
ततः स्वस्थानमानीय वराहः पृथिवीधरः ॥ २४८.७५ ॥
मुमोच पूर्वं मनसा धारिताञ्च वसुन्धराम्।
ततो जगाम निर्वाणं मेदिनी तस्य धारणात् ॥ २४८.७६ ॥
चकार च नमस्कारं तस्मै देवाय शम्भवे।
एवं यज्ञवराहेण भूत्वा भूतहितार्थिना ॥ २४८.७७ ॥
उद्धृता पृथिवी देवी सागराम्बुगता पुरा।
अथोद्धृत्य क्षितिं देवो जगतः स्थापनेच्छया
पृथिवी प्रविभागाय मनश्चक्रेऽम्बुजेक्षणः ॥ २४८.७८ ॥
रसाङ्गतामवनिमचिन्तविक्रमः सुरोत्तमः प्रवरवराहरूपधृक्।
वृषाकपिः प्रसभमथैकदंष्ट्रया समुद्धरद्धरणिमतुल्यपौरुषः ॥ २४८.७९ ॥