वराहावतारविषयेऽर्जुनप्रश्नः।
अर्जुन उवाच।
प्रादुर्भावान् पुराणेषु विष्णोरमिततेजसः।
सतां कथयतां विप्र वाराह इति नः श्रुतम् ॥ २४७.१ ॥
न जाने तस्य चरितं न विधिं न च विस्तरम्।
न कर्मगुणसंस्थानं न चाप्यन्तं मनीषिणः ॥ २४७.२ ॥
किमात्मको वराहोऽसौ किं मूर्त्तिः कस्य देवता।
किं प्रमाणः किं प्रभावः किं वा तेन पुरा कृतम् ॥ २४७.३ ॥
एतन्मे शंस तत्वेन वाराहं श्रुतिविस्तरम्।
यथार्हञ्च समेतानां द्विजातीनां विशेषतः ॥ २४७.४ ॥
शैनक उवाच।
एतत्ते कथयिष्यामि पुराणं ब्रह्मसम्मितम्।
महावराहचरितं कृष्णस्याद्भुतकर्मणः ॥ २४७.५ ॥
यथा नारायणो राजन्! वाराहं वपुरास्थितः।
दंष्ट्रया गां समुद्रस्थामुज्जहारारिमर्दनः ॥ २४७.६ ॥
छन्दोगीर्भिरुदाराभिः श्रुतिभिः समलङ्कृतः।
मनः प्रसन्नतां कृत्वा निबोध विजयाधुना ॥ २४७.७ ॥
इदं पुराणं परमं पुण्यं वेदैश्च सम्मितम्।
नाना श्रुतिसमायुक्तं नास्तिकाय न कीर्त्तयेत् ॥ २४७.८ ॥
पुराणं वेदमखिलं साङ्ख्यं योगञ्च वेद यः।
कार्त्स्न्येन विधिना प्रोक्तं सौख्यार्थं वै वदिष्यति ॥ २४७.९ ॥
विश्वेदेवास्तथा साध्या रुद्रादित्यास्तथाश्विनौ।
प्रजानां पतयश्चैव सप्त चैव महर्षयः॥ २४७.१० ॥
मनः सङ्कल्पजाश्चैव पूर्वजा ऋषयस्तथा।
वसवो मरुतश्चैव गन्धर्व्वा यक्षराक्षसाः ॥ २४७.११ ॥
दैत्याः पिशाचाः नागाश्च भूतानि विविधानि च।
ब्राह्मणाः क्षत्रियाः वैश्याः शूद्राः म्लेच्छाश्च ये भुवि ॥ २४७.१२ ॥
चतुष्पादानि सर्व्वाणि तिर्य्यग्योनिशतानि च।
जङ्गमानि च सत्वानि यच्चान्यज्जीवसञ्ज्ञितम् ॥ २४७.१३ ॥
पूर्णे युगसहस्रे तु ब्राह्मोऽहनि तथागते।
निर्व्वाणे सर्वभूतानां सर्वोत्पातसमुद्भवे ॥ २४७.१४ ॥
हिरण्यरेतास्त्रिशिखस्ततो भूत्वा वृषाकपिः।
शिखाभिर्विधमंल्लोकानशोषयत वह्निना ॥ २४७.१५ ॥
दह्यमानास्ततस्तस्य तेजोराशिभिरुद्गतैः।
विवर्णवर्णा दग्धाङ्गा हतार्चिष्मद्भिराननैः ॥ २४७.१६ ॥
साङ्गोपनिषदो वेदा इतिहासपुरोगमाः।
सर्वविद्याः क्रियाश्चैव सर्वधर्मपरायणाः ॥ २४७.१७ ॥
ब्रह्माणमग्रतः कृत्वा प्रभवं विश्वतोमुखम्।
सर्वदेवगणाश्चैव त्रयस्त्रिंशत्तु कोटयः ॥ २४७.१८ ॥
तस्मिन्नहनि सम्प्राप्ते तं हंसं महदक्षरम्।
प्रविशन्ति महात्मानं हरिं नारायणं प्रभुम् ॥ २४७.१९ ॥
तेषां भूयः प्रवृत्तानां निधनोत्पत्तिरुच्यते।
यथा सूर्यस्य सततमुदयास्तमने इह ॥ २४७.२० ॥
पूर्णे युगसहस्रान्ते सर्वे निःशेष उच्यते।
यस्मिन् जीवकृतं सर्वे निःशेषं समतिष्ठत ॥ २४७.२१ ॥
संहृत्य लोकानखिलान् सदेवासुरमानुषान्।
कृत्वा सुसंस्थां भगवानास्त एक जगद्गुरुः ॥ २४७.२२ ॥
स स्रष्टा सर्वभूतानां कल्पान्तेषु पुनः पुनः।
अव्ययः शाश्वतो देवो यस्य सर्वमिदं जगत् ॥ २४७.२३ ॥
नष्टार्ककिरणो लोके चन्द्रग्रहविवर्जिते।
त्यक्तधूमाग्निपवने क्षीणयज्ञवषट्क्रिये ॥ २४७.२४ ॥
अपक्षिगणसम्पाते सर्वप्राणिहरे पथि।
अमर्यादाकुले रौद्रे सर्वतस्तमसावृते ॥ २४७.२५ ॥
अदृश्ये सर्वलोकेऽस्मिन्नभावे सर्वकर्मणाम्।
प्रशान्ते सर्वसम्पाते नष्टे वैरपरिग्रहे ॥ २४७.२६ ॥
गते स्वभावसंस्थाने लोके नारायणात्मके।
परमेष्ठी हृषीकेशः शयनायोपचक्रमे ॥ २४७.२७ ॥
पीतवासा लोहिताक्षः कृष्णो जीमूतन्निभः।
शिखा-सहस्र-विकच जटाभारं समुद्वहन् ॥ २४७.२८ ॥
श्रीवत्सलक्षणधरं रक्तचन्दनभूषितम्।
वक्षो बिभ्रन्महाबाहुः स विष्णुरिव तोयदः ॥ २४७.२९ ॥
पुण्डरीकसहस्रेण स्रगस्य शुशुभे शुभा।
पत्नी चास्य स्वयं लक्ष्मीर्देहमावृत्य तिष्ठति ॥ २४७.३० ॥
ततः स्वपिति शान्तात्मा सर्वलोके शुभावहः।
किमप्यमितयोगात्मा निद्रा योगमुपागतः ॥ २४७.३१ ॥
ततो युगसहस्रे तु पूर्णे स पुरुषोत्तमः।
स्वयमेव विभुर्भूत्वा बुध्यते विबुधाधिपः ॥ २४७.३२ ॥
ततश्चिन्तयते भूयः सृष्टिं लोकस्य लोककृत्।
नरान् देवगणांश्चैव पारमेष्ठ्येन कर्मणा ॥ २४७.३३ ॥
ततः सञ्चिन्तयन् कार्यं देवेषु समितिञ्जयः।
सम्भवं सर्वलोकस्य विदधाति सतां गतिः ॥ २४७.३४ ॥
कर्ता चैव विकर्ता च संहर्ता वै प्रजापतिः।
नारायणं परं सत्यं नारायणः परं पदम् ॥ २४७.३५ ॥
नारायणः परो यज्ञो नारायणः परा गतिः।
स स्वयम्भूरिति ज्ञेयः स स्रष्टा भुवनाधिपः ॥ २४७.३६ ॥
स सर्वमिति विज्ञेयो ह्येष यज्ञः प्रजापतिः।
यद्वेदितव्यस्त्रिदशैस्तदेष परिकीर्त्यते ॥ २४७.३७ ॥
यत्तु वेद्यं भगवतो देवा अपि न तद्विदुः।
प्रजानां पतयः सर्वे ऋषयश्च सहामरैः ॥ २४७.३८ ॥
नास्यान्तमधिगच्छन्ति विचिन्वन्त इति श्रुतिः।
यदस्य परमं रूपं न तत्पश्यन्ति देवताः ॥ २४७.३९ ॥
प्रादुर्भावे तु यद्रूपन्तदर्चन्ति दिवौकसः।
दर्शितं यदि तेनैव तदवेक्ष्यन्ति देवताः ॥ २४७.४० ॥
यन्न दर्शितवानेष कस्तदन्वेष्टुमीहते।
ग्राम्याणां सर्वभूतानामग्निमारुतयोर्गतिः ॥ २४७.४१ ॥
तेजसस्तपसश्चैव निधानममृतस्य च।
चतुराश्रमधर्मेशः चातुर्होत्र फलाशनः ॥ २४७.४२ ॥
चतुःसागरपर्यन्तः चतुर्युग निवर्तकः।
तदेष संहृत्य जगत्कृत्वा गर्भस्थमात्मनः ॥
मुमोचाण्डं महायोगी धृतं वर्षसहस्रकम् ॥ २४७.४३ ॥
सुरासुरद्विजभुजगाप्सरोगणैः द्रुमौषधिक्षितिधरयक्षगुह्यकैः ।
प्रजापतिः श्रुतिभिरसङ्कुलं तदा स वै सृजज्जगदिदमात्मना प्रभुः ॥ २४७.४४ ॥