chapter ccxlv.
बलिप्रह्लादसंवादवर्णनम्।
शौनक उवाच।
निस्तेजसोऽसुरान् दृष्ट्वा समस्तानसुरेश्वरः।
प्रह्लादमथ पप्रच्छ बलिरात्मपितामहम् ॥ २४५.१ ॥
बलिरुवाच।
तात! निस्तेजसो दैत्या निर्दग्धा इव वह्निना।
किमेते सहसैवाद्य ब्रह्मदण्डहता इव ॥ २४५.२ ॥
दुरिष्टं किन्नु दैत्यानां किं कृत्या वैरिनिर्मिता।
नाशायैषा समुद्भूता यया निस्तेजसोऽसुराः ॥ २४५.३ ॥
शौनक उवाच।
इति दैत्यपतिर्धीरः पृष्टः पौत्रेण पार्थिव!।
चिरन्ध्यात्वा जगादैनमसुरेन्द्रं बलिन्तदा ॥ २४५.४ ॥
चलन्ति गिरयो भूमिर्जहाति सहसा धृतिम्।
सर्वे समुद्राः क्षुभिता दैत्या निस्तेजसः कृताः ॥ २४५.५ ॥
सूर्योदयो यथा पूर्वं तथा गच्छन्ति न ग्रहाः।
देवानाञ्च परा लक्ष्मीः कारणैरनुमीयते॥ २४५.६ ॥
महदेतन्महाबाहो! कारणं दानवेश्वर!।
न ह्यल्पमिति मन्तव्यं त्वया कार्यं सुरार्दन! ॥ २४५.७ ॥
शौनक उवाच।
इत्युक्त्वा दानवपतिं प्रह्लादः सोऽसुरोत्तमः।
अत्यन्तभक्तो देवेशं जगाम मनसा हरिम् ॥ २४५.८ ॥
स ध्यानयोगं कृत्वाऽथ प्रह्लादः सुमनोहरम्।
विचारयामास ततो यतो देवजनार्दनः ॥ २४५.९ ॥
स ददर्शोदरेऽदित्या प्रह्लादो वामनाकृतिम्।
अन्तस्थान् बिभ्रतं सप्त लोकानादिप्रजापतिम् ॥ २४५.१० ॥
तदन्तस्थान् वसून् रुद्रानश्विनौ मरुतस्तथा।
साध्यान् विश्वांस्तथादित्यान् गन्धर्वोरगराक्षसान् ॥ २४५.११ ॥
विरोचनं स्वतनयं बलिञ्चासुरनायकम्।
जम्भं कुजम्भं नरकं तत्रैवान्यान्महासुरान् ॥ २४५.१२ ॥
आत्मानमुर्वीङ्गगनं वायुमम्भो हुताशनम्।
समुद्रान्वै द्रुमसरित् सरांसि च पशून्मृगान्
वयोमनुष्यानशिलांस्तथैव च सरीसृपान् ॥ २४५.१३ ॥
प्रह्लाद उवाच।
वत्स! ज्ञातं मया सर्वं यदर्थं भवतामियम्।
तेजसोहानिरुत्पन्ना तच्छृणु त्वमशेषतः ॥ २४५.१४ ॥
देवदेवो जगद्योनिरयोनिर्जगदादिकृत्।
अनादिरादिर्विश्वस्य वरेण्यो वरदो हरिः ॥ २४५.१५ ॥
परम्पराणां परमः परः परवतामपि।
प्रमाणञ्च प्रमाणानां सप्तलोकगुरोर्गुरुः ॥ २४५.१६ ॥
प्रभुः प्रभूणां परमः पराणामनादिमध्यो भगवाननन्तः।
त्रैलोक्यमंशेन सनाथमेष कर्तुं महात्माऽदितिजोऽवतीर्णः ॥ २४५.१७ ॥
न तस्य रुद्रो न च पद्मयोनिर्नेन्द्रो न सूर्येन्दुमरीचिमुख्याः।
जानन्ति दैत्याधिप! यत्स्वरूपं स वासुदेवः कलयावतीर्णः ॥ २४५.१८ ॥
योऽसौ कलांशेन नृसिंहरूपी जघान पूर्वं पितरं ममेशः।
यः सर्वयोगी शमनो निवासः स वासुदेवः कलयावतीर्णः ॥ २४५.१९ ॥
यमक्षरं वेदविदो विदित्वा विशन्ति यं ज्ञानविधूतपापाः।
यस्मिन् प्रविष्टा न पुनर्भवन्ति तं वासुदेवं प्रणमामि नित्यम् ॥ २४५.२० ॥
भूतान्यशेषाणि यतो भवन्ति यथोर्मयस्तोयनिधेरजस्रम्।
लयञ्च यस्मिन् प्रलये प्रयान्ति तं वासुदेवं प्रणमाम्यचिन्त्यम् ॥ २४५.२१ ॥
न यस्य रूपं न बलप्रभावौ न यस्य भावः परमस्य पुंसः।
विज्ञायते शर्वपितामहाद्यैस्तं वासुदेवं प्रणमाम्यजस्रम् ॥ २४५.२२ ॥
रूपस्य चक्षुर्ग्रहणे त्वगिष्टा स्पर्शे ग्रहित्री रसना रसस्य।
श्रोत्रञ्च शब्दग्रहणे नराणां घ्राणञ्च गन्धग्रहणे नियुक्तम् ॥ २४५.२३ ॥
येनैकदंष्ट्राग्रसमुद्धृतेयं धराचलान् धारयतीह सर्वान्।
यस्मिंश्च शेते सकलं जगच्च तमीशमाद्यं प्रणतोऽस्मि विष्णुम् ॥ २४५.२४ ॥
न घ्राणग्राह्यः श्रवणादिभिर्यः सर्वेश्वरो वेदितुमक्षयात्मा।
शक्यस्तमीड्यं मनसैव देवं ग्राह्यन्ततोऽहं हरिमीशितारम् ॥ २४५.२५ ॥
अंशावतीर्णेन च येन गर्भे हृतानि तेजांसि महासुराणाम्।
नमामि तं देवमनन्तमीशमशेषसंसारतरोः कुठारम् ॥ २४५.२६ ॥
देवो जगद्योनिरयं महात्मा स षोडशांशेन महासुरेन्द्र!।
स देवमातुर्जठरं प्रविष्टो हृतानि वस्तेन बलाद्वपूंषि ॥ २४५.२७ ॥
बलिरुवाच।
तात! कोऽयं हरिर्नाम यतो नोभयमागतम्।
सन्ति मे शतशो दैत्या वासुदेवबलाधिकाः ॥ २४५.२८ ॥
विप्रचित्तिः शिविः शङ्कुरयः शङ्कुस्तथैव च।
अयः शिराश्चाश्वशिरा भङ्गकारो महाहनुः ॥ २४५.२९ ॥
प्रतापः प्रघसः शम्भुः ककुरश्च सुदुर्जयः।
एते चान्ये च मे सन्ति दैतेया दानवास्तथा॥ २४५.३० ॥
महाबला महावीर्या भूभारोद्धरणक्षमाः।
एषामेकैकशः कृष्णो न वीर्यार्द्धेन सम्मितः ॥ २४५.३१ ॥
शौनक उवाच।
पौत्रस्यैतद्चः श्रुत्वा प्रह्लादो दैत्यपुङ्गवः।
धिग्धिगित्याह स बलिं वैकुण्ठाक्षेपवादिनम् ॥ २४५.३२ ॥
प्रह्लाद उवाच।
विनाशमुपयास्यन्ति मन्ये दैतेयदानवाः!।
येषां त्वमीदृशो राजा दुर्बुद्धिरविवेकवान् ॥ २४५.३३ ॥
देवदेवं महाभागं वासुदेवमजं विभुम्।
त्वामृते पापसङ्कल्पः कोऽन्य एवं वदिष्यति ॥ २४५.३४ ॥
य एते भवता प्रोक्ताः समस्ता दैत्यदानवाः।
सब्रह्मकास्तथा देवाः स्थावरानन्तभूमयः॥ २४५.३५ ॥
त्वञ्चाहञ्च जगच्चेदं साद्रिद्रुमनदीनदम्।
समुद्रद्वीपलोकाश्च न समं केशवस्य हि ॥ २४५.३६ ॥
यस्यातिवन्द्य-वन्द्यस्य व्यापिनः परमात्मनः।
एकांशेन जगत्सर्वं कस्तमेवं प्रवक्ष्यति ॥ २४५.३७ ॥
ऋते विनाशाभिमुखं त्वामेकमविवेकिनम्।
कुबुद्धिमजितात्मानं वृद्धानां शासनातिगम् ॥ २४५.३८ ॥
शोच्योऽहं यस्य मे गेहे जातस्तव पिताधमः।
यस्य त्वमीदृशः पुत्रो देवदेवस्य निन्दकः ॥ २४५.३९ ॥
तिष्ठत्येषा हि संसार सम्भृताघ विनाशिनी।
कृष्णो भक्तिरहन्तावदवेक्ष्य भवता नु किम्॥ २४५.४० ॥
न मे प्रियतमः कृष्णादपि देहो महात्मनः।
इति जानात्ययं लोको न भवान्दितिजाधम!॥ २४५.४१ ॥
न जानासि प्रियतरं प्राणेभ्योऽपि हरिं मम।
निन्दां करोषि तस्य त्वमकुर्वन्गौरवं मम ॥ २४५.४२ ॥
विरोचनस्तव गुरुर्गुरुस्तस्याप्यहं बले!।
ममापि सर्वजगतां गुरोर्नारायणो गुरुः ॥ २४५.४३ ॥
निन्दां करोषि यस्तस्मिन् कृष्णे गुरुगुरोर्गुरौ।
यस्मात्तस्मादिहैश्वर्यादचिराद् भ्रंशमेष्यसि ॥ २४५.४४ ॥
मम देवो जगन्नाथो बले! तस्माज्जनार्दनः।
भवत्वहमुपेक्ष्यस्ते प्रीतिमानस्तु मे गुरुः ॥ २४५.४५ ॥
एतावन्मात्रमप्येवं निन्दितो जगतो गुरुः।
नावेक्षितं त्वया यस्मात् तस्मात् शापन्ददामि ते ॥ २४५.४६ ॥
यथा मे शिरसः च्छेदादिदं गुरुतरं वचः।
त्वयोक्तमच्युताक्षेपि राज्यभ्रष्टस्तथा पत ॥ २४५.४७ ॥
यथा च कृष्णान्न परं परित्राणं भवार्णवे।
तथाऽचिरेण पश्येयं भवन्तं राज्यविच्युतम् ॥ २४५.४८ ॥
शौनक उवाच।
इति दैत्यपतिः श्रुत्वा गुरोर्वचनमप्रियम्।
प्रसादयामास गुरुं प्रणिपत्य पुनः पुनः ॥ २४५.४९ ॥
बलिरुवाच।
प्रसीद तात! मा कोपं कुरु मोहहते मयि।
बलावलेपमत्तेन मयैतद्वाक्यमीरितम् ॥ २४५.५० ॥
मोहोपहतविज्ञानः पापोऽहं दितिजोत्तम!।
यच्छप्तोऽस्मि दुराचरास्तत्साधु भवता कृतम् ॥ २४५.५१ ॥
राज्यभ्रंशं वसुभ्रंशं प्राप्यैव न तथाप्यहम्।
विषण्णोऽस्मि यथा तात! तथैवाविनये कृते ॥ २४५.५२ ॥
त्रैलोक्यराज्यमैश्वर्यमन्यद्वा नातिदुर्लभम्।
संसारे दुर्लभास्ते तु गुरवो ये भवद्विधाः ॥ २४५.५३ ॥
तत्प्रसीद न मे कोपं कर्तुमर्हसि दैत्यप!।
त्वत्कोपदृष्ट्या ताताहं परितप्ये न शापतः॥ २४५.५४ ॥
प्रह्लाद उवाच।
वत्स! कोपो न मोहेन जनितस्तेन ते मया।
शापो दत्तो विवेकश्च मोहेनापहृतो मम॥ २४५.५५ ॥
यदि मोहेन मे ज्ञानं न क्षिप्तं स्यान्महासुर!।
तत्कथं सर्वगं जानन् हरिं किञ्चिच्छपाम्यहम् ॥ २४५.५६ ॥
योऽयं शापो मया दत्तो भवतोऽसुरपुङ्गव!।
भाव्यमेतेन नूनन्ते तस्मान्मा त्वं विषीद वै ॥ २४५.५७ ॥
अद्य प्रभृति देवेशे भगवत्यच्युते हरौ।
भवेथा भक्तिमानीशे स ते त्राता भविष्यति ॥ २४५.५८ ॥
शापं प्रप्याथ मां वीर! संस्मरेथाः स्मृतस्त्वया।
तथा तथा यतिष्येऽहं श्रेयसा योज्यसे यथा ॥ २४५.५९ ॥
एवमुक्त्वा स दैत्येन्द्रं विरराम महाद्युतिः।
अजायत सगोविन्दो भगवान् वामनाकृतिः ॥ २४५.६० ॥
अवतीर्णे जगन्नाथे तस्मिन् सर्वामरेश्वरे।
देवाश्च मुमुचुर्दुःखं देवमाताऽदितिस्तथा ॥ २४५.६१ ॥
ववुर्वाताः सुखस्पर्शा विरजस्कमभून्नभः।
धर्मे च सर्वभूतानां तदा मतिरजायत ॥ २४५.६२ ॥
नोद्वेगश्चाप्यभूत्तत्र मनुजेन्द्रासुरेष्वपि।
तदादि सर्वभूतानां भूम्यम्बरदिवौकसाम् ॥ २४५.६३ ॥
तं जातमात्रं भगवान् ब्रह्मा लोकपितामहः।
जातकर्मादिकं कृत्वा कृष्णं दृष्ट्वा च पार्थिव!
तुष्टाव देवदेवेशमृषीणाञ्चैव श्रृण्वताम् ॥ २४५.६४ ॥
ब्रह्मेवाच।
जयाद्येश! जयाजेय! जय सर्वात्मकात्मक।
जय जन्मजरापेत! जयानन्त! जयाच्युत! ॥ २४५.६५ ॥
जयाजित! जयामेय! जयाव्यक्तस्थिते! जय।
परमार्थार्थसर्वज्ञ! ज्ञानज्ञेयात्म निःसृत! ॥ २४५.६६ ॥
जयाशेष! जगत्साक्षिन्! जगत्कर्त्तः! जगद्गुरो!
जगतोऽस्यान्तकृद्देव स्थितिं पालयितुं जय ॥ २४५.६७ ॥
जयाशेष! जयाशेष! जयाखिल! हृदि स्थित!।
जयादिमध्यान्त! जय सर्वज्ञाननिधे! जय ॥ २४५.६८ ॥
मुमुक्षुभिरनिर्देश्य! स्वयं हृष्टजनेश्वर!।
योगिना मुक्तिफलद! दमादिगुणभूषण! ॥ २४५.६९ ॥
जयातिसूक्ष्म! दुर्ज्ञेय! जयस्थूल! जगन्मय!।
जय स्थूलातिसूक्ष्म! त्वं जयातीन्द्रिय! सेन्द्रिय! ॥ २४५.७० ॥
जय स्वमाया योगस्थ! शेषभोग! जयाक्षर!।
जयैकदंष्ट्रा प्रान्ताग्र समुद्धृतवसुन्धर! ॥ २४५.७१ ॥
नृकेसरिन्! जयाराति वक्षस्थलविदारण!।
साम्प्रतं जय विश्वात्मन्! जय वामन! केशव! ॥ २४५.७२ ॥
निजमायापटच्छन्न! जगन्मूर्त्ते! जनार्दन!।
ययाजित! जयानेक स्वरूपैकविध! प्रभो! ॥ २४५.७३ ॥
वर्द्धस्व वर्धिताशेष विकारप्रकृते! हरे!।
त्वय्येषा जगतामीशे संस्थिता धर्मपद्धतिः ॥ २४५.७४ ॥
न त्वामहं न चेशानो नेन्द्राद्या स्त्रिदशा हरे!।
न ज्ञातुमीशा मुनयः सनकाद्या नयोगिनः ॥ २४५.७५ ॥
त्वन्मायापटसम्वीते जगत्यत्र जगत्पते!।
कस्त्वा वेत्स्यति सर्वेश त्वत्प्रसादं विना नरः ॥ २४५.७६ ॥
त्वमेवाराधितो येन प्रसादसुमुख!प्रभो!।
स एकः केवलो देव! वेत्ति त्वां नेतरे जनाः ॥ २४५.७७ ॥
नन्दीश्वरेश्वरेशान! प्रभो! वर्धस्व वामन!।
प्रभवायास्य विश्वस्य विश्वात्मन्! पृथुलोचन! ॥ २४५.७८ ॥
शौनक उवाच।
एवं स्तुतो हृषीकेशः स तदा वामनाकृतिः।
प्रहस्य भावगम्भीरमुवाचाब्जसमुद्भवम् ॥ २४५.७९ ॥
स्तुतोऽहं भवता पूर्वमिन्द्राद्यैः कश्यपेन च।
मया च वः प्रतिज्ञातमिन्द्रस्य भुवनत्रयम् ॥ २४५.८० ॥
भूयश्चाहं स्तुतो देव्या तस्याश्चापि प्रतिश्रुतम्।
यथाशक्राय दास्यामि त्रैलोक्यं हतकण्टकम् ॥ २४५.८१ ॥
सोऽहन्तथा करिष्यामि महेन्द्रो जगतः पतिः।
भविष्यति सहस्राक्षः सत्यमेतद् ब्रवीमि वः ॥ २४५.८२ ॥
ततः कृष्णाजिनं ब्रह्मा हृषीकेशाय दत्तवान्।
यज्ञोपवीतं भगवान् ददौ तस्मै बृहस्पतिः ॥ २४५.८३ ॥
आषाढमददाद्दण्डं मरीचिर्ब्रह्मणः सुतः।
कमण्डलुं वसिष्ठञ्च कौशं वेदमथाङ्गिराः ॥ २४५.८४ ॥
अक्षसूत्रञ्च पुलहः पुलस्त्यः सितवाससी।
उपतस्थुश्च तं वेदाः प्रणवोच्चारभूषणाः ॥ २४५.८५ ॥
शास्त्राण्यशेषाणि तथा साङ्ख्ययोगोक्तयश्च याः।
सवामनो जटी दण्डी छत्री धृतकमण्डलुः ॥ २४५.८६ ॥
सर्वदेवमयो भूत्वा बलेरध्वरमभ्यगात्।
यत्र यत्र पदम्भूयो भूभागे वामनो ददौ ॥ २४५.८७ ॥
ददाति भूमिर्विवरं तत्र तत्रातिपीडिता।
स वामनो जडगतिर्मृदु गच्छन् सपर्वताम् ॥
साब्धिद्वीपवतीं सर्वाञ्चालयामास मेदिनीम् ॥ २४५.८८ ॥