२४३

यात्रासमये मङ्गलामङ्गलासूचकशकुनवर्णनम्।

मनुरुवाच।
गमनं प्रति राज्ञान्तु सम्मुखादर्शने च किम्।
प्रशस्तांश्चैव सम्भाष्य सर्वानेतांश्च कीर्तय ॥ २४३.१ ॥

मत्स्य उवाच।
औषधानि त्वयुक्तानि धान्यं कृष्णञ्च यद् भवेत्।
कार्पासश्चतृणं राजन्! शुष्कं गोमयमेव च ॥ २४३.२ ॥

इन्धनञ्च तथाङ्गारं गुडं तैलं तथा शुभम्।
अभ्यक्तं मलिनं मुण्डन्ततानग्नञ्च मानवम्॥ २४३.३ ॥

मुक्तकेशं रुजार्तञ्च काषायाम्बरधारिणम्।
उन्मत्तकन्तथा सत्वं दीनञ्चाथ नपुंसकम् ॥ २४३.४ ॥

अयः पङ्कस्तथा चर्म केशबन्धनमेव च।
तथैवोद्धृतसाराणि पिण्याकादीनी यानि च ॥ २४३.५ ॥

चण्डाल श्वपचाश्चैव राजबन्धनपालकाः।
वधकाः पापकर्माणो गर्भिणी स्त्री तथैव च ॥ २४३.६ ॥

तुष भस्म कपालास्थि भिन्नभाण्डानि यानि च।
रक्तानि चैव भाण्डानि मृतं शार्ङ्गिकमेव च ॥ २४३.७ ॥

एवमादीनि चान्यानि अशस्तान्यभिदर्शने।
अशस्तो वाह्यशब्दश्च भिन्नभैरवजर्जरः ॥ २४३.८ ॥

पुरतः शब्द एहीति शस्यते न तु पृष्ठतः।
गच्छेति पश्चात् धर्मज्ञो! पुरस्तात्तु विगर्हितः ॥ २४३.९ ॥

क्व यासि तिष्ठ मा गच्छ किन्ते तत्र गतस्य तु।
अन्ये शब्दाश्च ये निष्ठाः ते विपत्तिकरा अपि ॥ २४३.१० ॥

ध्वजादिषु तथा स्थानं क्रव्यादानां विगर्हितम्।
स्खलनं वाहनानाञ्च वस्त्रसङ्गस्तथैव च ॥ २४३.११ ॥

निर्गतस्य तु द्वारादौ शिरसश्चाभिघातिता।
छत्रध्वजानां वस्त्राणां पतनञ्च तथा शुभम् ॥ २४३.१२ ॥

दृष्टे निमित्ते प्रथमममङ्गल्यविनाशनम्।
केशवं पूजयेद्विद्वान् स्तवेन मधुसूदनम् ॥ २४३.१३ ॥

द्वितीये तु ततो दृष्टे प्रतीपे प्रविशेद् गृहम्।
अथेष्टानि प्रवक्ष्यामि मङ्गल्यानि तथाऽनघ! ॥ २४३.१४ ॥

श्वेताः सुमनसः श्रेष्ठाः पूर्णकुम्भास्तथैव च।
जलजाः पक्षिणश्चैव मांसं मत्स्याश्च पर्थिव! ॥ २४३.१५ ॥

गवस्तुरङ्गमा नागा बद्ध एकः पशुस्त्वजः।
त्रिदेशाः सुहृदो विप्रा ज्वलितश्च हुताशनः ॥ २४३.१६ ॥

पणिका च महाभाग! दूर्वा चार्द्रञ्च गोमयम्।
रुक्मरूप्यन्तथा ताम्रं सर्वरत्नानि चाप्यथ ॥ २४३.१७ ॥

औषधानिव धर्मज्ञ! यवाः सिद्धार्थकास्तथा।
नृवाह्यमानं यानञ्च भद्रपीठन्तथैव च ॥ २४३.१८ ॥

खङ्गं चक्रं पताका च मृदश्चायुधमेव च।
राजलिङ्गानि सर्वाणि सर्वे रुदितवर्जिताः ॥ २४३.१९ ॥

घृतं दधि पयश्चैव फलानिविविधानि च।
स्वस्तिकं वर्द्धमानञ्च नन्द्यावर्तं सकौस्तुभम् ॥ २४३.२० ॥

वादित्राणां सुखः शब्दः गम्भीरः सुमनोहरः।
गान्धारषड्जऋषभा ये च शस्तास्तथा खराः ॥ २४३.२१ ॥

वायुः सशर्करोरुक्षः सर्वत्र समुपस्थितः।
प्रतिलोमस्तथा नीचो विज्ञेयोभयकृद्द्विज!॥ २४३.२२ ॥

अनुकूलो मृदुः स्निग्धः सुखस्पर्शः सुखावहः।
रुक्षा रूक्ष स्वराभद्राः क्रव्यादाः परिगच्छताम् ॥ २४३.२३ ॥

मेधाः शस्ताघनाः स्निग्धा गजबृंहितसन्निभाः।
अनुलोमास्तडिच्छन्नाः शक्रचापन्तथैव च ॥ २४३.२४ ॥

अप्रशस्ते तथा ज्ञेये परिवेषप्रवर्षणे।
अनुलोमा ग्रहाः शस्ता वाक्पतिस्तु विशेषतः ॥ २४३.२५ ॥

आस्तिक्यं श्रद्दधानत्वं तथा पूज्याभिपूजनम्।
शस्तान्येतानि धर्मज्ञ! यश्च स्यान्मनसः प्रियम् ॥ २४३.२६ ॥

मनसस्तुष्टिरेवात्र परमं जयलक्षणम्।
एकतः सर्वलिङ्गानि मनसस्तुष्टिरेकतः ॥ २४३.२७ ॥

मनोत्सुकत्वं मनसः प्रहर्षः शुभस्य लाभो विजयप्रवादः।
मङ्गल्यलब्धिः श्रवणञ्च राजन्! ज्ञेयानि नित्यं विजयावहानि ॥ २४३.२८ ॥