मनुमत्स्यसंवादे स्वप्नदर्शनवर्णनम्।
मनुरुवाच।
स्वप्नाख्यानं कथं देव! गमने प्रत्युपस्थिते।
दृश्यन्ते विविधाकाराः कथन् तेषां फलं भवेत् ॥ २४२.१ ॥
मत्स्य उवाच।
इदीनीं कथयिष्यामि निमित्तं स्वप्नदर्शने।
नाभिं विनान्यगात्रेषु तृणवृक्षसमुद्भवः ॥ २४२.२ ॥
चूर्णनं मूर्ध्नि कांस्यानां मुण्डनं नग्नता तथा।
मलिनाम्बरधारित्वमभ्यङ्गः पङ्कदिग्धता ॥ २४२.३ ॥
उच्चात् प्रपतनञ्चैव दोलारोहणमेव च ।
अर्जनं पक्कलोहानां हयानामपि मारणम् ॥ २४२.४ ॥
रक्तपुष्पद्रुमाणाञ्च मण्डलस्य तथैव च।
वराहर्क्षखरोष्ट्राणां तथा चारोहणक्रिया ॥ २४२.५ ॥
भक्षणं पक्वमांसानां तैरस्य कृसरस्य च।
नर्तनं हसनञ्चैव विवाहो गीतमेव च॥ २४२.६ ॥
तन्त्रीवाद्य विहीनानां वाद्यानामभिवादनम्।
स्रोतोऽवगाहगमनं स्नानं गोमयवारिणा ॥ २४२.७ ॥
पङ्कोदकेन च तथा मही तोयेन चाप्यथ।
मातुः प्रवेशो जठरे चितारोहणमेव च ॥ २४२.८ ॥
शक्रध्वजाभिपतनं पतनं शशिसूर्ययोः।
दिव्यान्तरिक्षभौमानामुत्पातानाञ्च दर्शनम् ॥ २४२.९ ॥
देवद्विजातिभूपाल गुरूणां क्रोध एव च।
आलिङ्गनं कुमारीणां पुरुषाणाञ्च मैथुनम् ॥ २४२.१० ॥
हानिश्चैव स्वगात्राणां विरेकवमनक्रिया।
दक्षिणाशाभिगमनं व्याधिनाभिभवस्तथा ॥ २४२.११ ॥
फलापहानिश्च तथा पुष्पहानिस्तथैव च।
गृहाणाञ्चैव पातश्च गृहसम्मार्जनन्तथा ॥ २४२.१२ ॥
क्रीडा पिशाचक्रव्याद वानरर्क्षनरैरपि।
परादभिभवश्चैव तस्माच्च व्यसनोद्भवः ॥ २४२.१३ ॥
काषायवस्त्रधारित्वं तद्वत् स्त्री क्रीडनन्तथा।
स्नेहपानावगाहौ च रक्तमाल्यानुलेपनम् ॥ २४२.१४ ॥
एवमादीनि चान्यानि दुःस्वप्नानि विनिर्दिशेत्।
एतां सङ्कथनं धन्यं भूयः प्रस्वापनन्तथा ॥ २४२.१५ ॥
कल्कस्नानन्तिलैः होमो ब्राह्मणानाञ्च पूजनम्।
स्तुतिश्च वासुदेवस्य तथा तस्यैव पूजनम् ॥ २४२.१६ ॥
नागेन्द्रमोक्षश्रवणं ज्ञेयं दुःस्वप्नाशनम्।
स्वप्नस्तु प्रथमे यामे सम्वत्सरविपाकिनः ॥ २४२.१७ ॥
षड्भिर्मासैः द्वितीये तु त्रिभिर्मासैस्तृतीयके।
चतुर्थं मासमात्रेण पश्यतो नात्र संशयः ॥ २४२.१८ ॥
अरुणोदयवेलायां दशाहेन फलम्भवेत्।
एकस्यां यदि वा रात्रौ शुभं वा यदि वाशुभम् ॥ २४२.१९ ॥
पश्चाद् वटस्तु यस्तत्र तस्य पाकं विनिर्दिशेत्।
तस्माच्छोभनके स्वप्ने पश्चात् स्वप्नो न पश्यति ॥ २४२.२० ॥
शैलप्रासादनागाश्व वृषभारोहणं हितम्।
द्रुमाणां श्वेतपुष्पाणां गमने च तथा द्विज! ॥ २४२.२१ ॥
द्रुमतृणोद्भवो नाभौ तथैव बहुबाहुता।
तथैव बहुशीर्षत्वं फलितोद्भव एव च ॥ २४२.२२ ॥
सुशुक्लमाल्यधारित्वं सुशुक्लाम्बरधारिता।
चन्द्रार्कताराग्रहणं परिमार्जनमेव च ॥ २४२.२३ ॥
शक्रध्वजालिङ्गनञ्च तदुच्छ्रायक्रिया तथा।
भूम्यम्बुधानां ग्रसनं शत्रूणाञ्च वधक्रिया ॥ २४२.२४ ॥
जयो विवादे द्यूते च सङ्ग्रामे च तथा द्विज!।
भक्षणञ्चार्द्रमांसानां मत्स्यानां पायसस्य च ॥ २४२.२५ ॥
दर्शनं रुधिरस्यापि स्नानं वा रुधिरेण च।
सुरारुधिरमद्यानां पानं क्षीरस्य चाथवा ॥ २४२.२६ ॥
अन्त्रेर्वा वेष्टनं भूमौ निर्मलं गगनं तथा।
मुखेन दोहनं शस्तं महिषीणां तथा गवाम् ॥ २४२.२७ ॥
सिंहीनां हस्तिनीनाञ्च वडवानां तथैव च।
प्रसादो देवविप्रेभ्यो गुरुभ्यश्च तथा शुभः ॥ २४२.२८ ॥
अम्भसा त्वभिषेकस्तु गवां श्रृङ्गश्रितेन वा।
चन्द्राद् भ्रष्टेन वा राजन्! ज्ञेयो राज्यप्रदो हि सः ॥ २४२.२९ ॥
राज्याभिषेकश्च तथा छेदनं शिरसस्तथा।
मरणं वह्निदाहश्च वह्निदाहो गृहादिषु ॥ २४२.३० ॥
लब्धिश्च राज्यलिङ्गानां तन्त्रीवाद्याभिवादनम्।
तथोदकानां तरणं तथा विषमलङ्घनम् ॥ २४२.३१ ॥
हस्तिनीवडवानाञ्च गवाञ्च प्रसवो गृहे।
आरोहणमथाश्वानां रोदनञ्च तथा शुभम्॥ २४२.३२ ॥
वरस्त्रीणां तथालाभः तथालिङ्गनमेव च।
निगडैर्बन्धनं धन्यं तथा विष्ठानुलेपनम् ॥ २४२.३३ ॥
जीवितां भूमिपालानां सुहृदामपि दर्शनम्।
दर्शं देवतानाञ्च विमलानां तथाम्भसाम् ॥ २४२.३४ ॥
शुभान्यथैतानि नरस्तु दृष्ट्वा प्राप्नोत्ययत्नाद् ध्रुवमर्थलाभम्।
स्वप्नानि वै धर्मभृतां वरिष्ठ! व्याधेर्विमोक्षञ्च तथाऽऽतुरोऽपि ॥ २४२.३५ ॥