२४०

यात्राकालविधानवर्णनम्।

मनुरुवाच।
इदानीं सर्वधर्मज्ञ! सर्वशास्त्रविशारद!।
यात्राकालविधानं मे कथयस्व महीक्षिताम् ॥ २४०.१ ॥

मत्स्य उवाच।
यदा मन्येत नृपतिराक्रन्देन बलीयसा।
पार्ष्णिग्राहाभिभूतोऽयं तदा यात्रां प्रयोजयेत् ॥ २४०.२ ॥

दुष्टा योधा भृता भृत्याः साम्प्रतञ्च बलं मम।
मूलरक्षासमर्थोऽस्मि तदा यात्रां प्रयोजयेत् ॥ २४०.३ ॥

अशुद्धपार्ष्णिनृपतिर्न तु यात्रां प्रयोजयेत्।
पार्ष्णिग्राहाधिकं सैन्यं मूले निक्षिप्य च व्रजेत् ॥ २४०.४ ॥

चैत्र्यां वा मार्गशीर्ष्यां वा यात्रां यायान्नराधिपः।
चैत्र्यां पश्येच्च नैदाघं हन्ति पुष्टिञ्च शारदीम् ॥ २४०.५ ॥

एतदेव विपर्यस्तं मार्गशीर्ष्यां नराधिपः।
शत्रोर्वा व्यसने यायात् काल एव सुदुर्लभः ॥ २४०.६ ॥

दिव्यान्तरिक्षक्षितिजैरुत्पातैः पीडितं परम्।
षडक्ष पीडा सन्तप्तं पीडितञ्च तथा ग्रहैः ॥ २४०.७ ॥

ज्वलन्ती च तथैवोल्का दिशं याञ्च प्रपद्यते।
भूकम्पोल्का दिशं याति याञ्चकेतुः प्रसूयते ॥ २४०.८ ॥

निर्घातश्च पतेद्यत्र तां यायाद्वसुधाधिपः।
स बलव्यसनोपेतं तथा दुर्भिक्षपीडितम् ॥ २४०.९ ॥

सम्भूतान्तरकोपञ्च क्षिप्रं प्रायादरिं नृपः।
यूकामाक्षीकबहुलं बहुपङ्कन्तथा बिलम् ॥ २४०.१० ॥

नास्तिकं भिन्नमर्यादं तथा मङ्गलवादिनम्।
अपेतप्रकृतिञ्चैव निःसारञ्च तथा जयेत् ॥ २४०.११ ॥

विद्विष्टनायकं सैन्यं तथा भिन्नं परस्परम्।
व्यसनाशक्तनृपतिं बलं राजाभियोजयेत् ॥ २४०.१२ ॥

सैनिकानां न शास्त्राणि स्फुरन्त्यङ्गानि यत्र च।
दुःस्वप्नानि च पश्यन्ति बलन्तदभियोजयेत् ॥ २४०.१३ ॥

उत्साहबलसम्पन्नः स्वानुरक्त बलस्तथा।
तुष्टपुष्टबलो राजा परानभिमुखो व्रजेत् ॥ २४०.१४ ॥

शरीरस्फुरणे धन्ये तथा दुःस्वप्न नाशने।
निमित्ते शकुने धन्ये जाते शत्रुपुरं व्रजेत् ॥ २४०.१५ ॥

ऋक्षेषु षट्सु शुद्धेषु ग्रहेष्वनुगुणेषु च।
प्रश्नकाले शुभे जाते परान् यायान्नराधिपः ॥ २४०.१६ ॥

एवन्तु दैवसम्पन्नस्तथा पौरुषसंयुतः।
देशकालोपपन्नान्तु यात्रां कुर्यान्नराधिपः ॥ २४०.१७ ॥

स्थले नक्रस्तु नागस्य तस्यापि सजले वशे।
उलूकस्य निशि ध्वाङ्क्षः स च तस्य दिवा वशे ॥ ४०.१८ ॥

एवं देशञ्च कालञ्च ज्ञात्वा यात्रां प्रयोजयेत् ॥ २४०.१९ ॥

पदाति साग बहुलां सेनां प्रावृषि योजयेत्।
हेमन्ते शिशिरे चैव रथवाजिसमाकुलाम्
खरोष्ट्रबहुलां सेनां तथा ग्रीष्मे नराधिपः ॥ २४०.२० ॥

चतुरङ्गबलोपेतां वसन्ते वा शरद्यथ।
सेना पदातिबहुला यस्य स्यात्पृथिवीपतेः ॥ २४०.२१ ॥

अभियोज्यो भवेत्तेन शत्रुर्विषममाश्रितः।
गम्ये वृक्षावृते देशे स्थितं शत्रुन्तथैव च ॥ २४०.२२ ॥

किञ्चित् पङ्के तथा यायाद् बहुनागो नराधिपः।
तथाश्वबहुलो यायाच्छत्रुं समं पथिस्थितम् ॥ २४०.२३ ॥

तमाश्रयन्तो बहुलास्तांस्तु राजा प्रपूजयेत्।
खरोष्ट्रबहुलो राजा शत्रूर्बन्धेन संस्थितः ॥ २४०.२४ ॥

बन्धनस्थोऽभियोज्योऽरिस्तथा प्रावृषिभूभृजा।
हिमपातयुते देशे स्थितं ग्रीष्मेऽभियोजयेत् ॥ २४०.२५ ॥

यवसेन्धनसंयुक्त कालः पार्थिव! हैमनः।
शरद्वसन्तौ धर्मज्ञ! कालौ साधारणौ स्मृतौ ॥ २४०.२६ ॥

विज्ञाय राजा हितदेशकालौ दैवं त्रिकालञ्च तथैव बुद्ध्वा।
यायात् परं कालविदां मतेन सञ्चिन्त्य सार्द्धं द्विजमन्त्रविद्भिः ॥ २४०.२७ ॥