२३७

शान्तिविधानवर्णनम्।

गर्ग उवाच।
प्रविशन्ति यदा ग्राममारण्या मृगपक्षिणः।
अरण्यं यान्ति वा ग्राम्याः स्थलं यान्ति जलोद्भवाः ॥ २३७.१ ॥

स्थलजाश्च जलं यान्ति घोरं वाशन्ति निर्भयाः।
राजद्वारे पुरद्वारे शिवा चाप्यशिवप्रदा ॥ २३७.२ ॥

दिवारात्रिञ्चरावापि रात्रावपि दिवाचराः।
ग्राम्यास्त्यजन्ति ग्रामञ्च शून्यतां तस्य निर्दिशेत् ॥ २३७.३ ॥

दीप्तावाशन्ति सन्ध्यासु मण्डलानि च कुर्वते।
वाशन्ति विस्वरं यत्र तदाप्येतत् फलं लभेत् ॥ २३७.४ ॥

प्रदोषे कुक्कुटो वाशेद् धेमन्ते वापि कोकिलः।
अर्कोदये त्वभिमुखी शिवा रौति भयं वदेत् ॥ २३७.५ ॥

गृहं कपोतः प्रविशेत् क्रव्यादो मूर्ध्नि लीयते।
मधुवा मक्षिकाः कुर्युर्मृत्युर्गृहपतेर्भवेत् ॥ २३७.६ ॥

प्राकारद्वारगेहेषु तोरणापणवीथिषु।
केतुच्छत्रायुधाद्येषु क्रव्यादं प्रपतेद्यदि ॥ २३७.७ ॥

जायन्ते वाथ वल्मीका मधु वा स्यन्दते यदि।
सदेशो नाशमायाति राजा च म्रियते तथा ॥ २३७.८ ॥

मूषकान् शलभान् दृष्ट्वा प्रभूतं क्षुद् भयं भवेत्।
काष्ठोल्मुकास्थिश्रृङ्गाढ्याः श्वानो मर्कटवेदनाः ॥ २३७.९ ॥

दुर्भिक्षवेदना ज्ञेया काकाधान्यमुखा यदि।
जनानभिभवन्तीह निर्भया रणवेदिनः ॥ २३७.१० ॥

काको मैथुनसक्तश्च श्वेतस्तु यदि दृश्यते।
राजा वा म्रियते तत्र स च देशो विनश्यति ॥ २३७.११ ॥

उलूको दृश्यते यत्र नृपद्वारे तथा गृहे ।
ज्ञेयो गृहपतेर्मृत्युर्धननाशस्तथैव च ॥ २३७.१२ ॥

मृगपक्षिविकारेषु कुर्याद्धोमं सदक्षिणम्।
देवा कपोता इति वा जप्तव्याः पञ्चभिर्द्विजैः ॥ २३७.१३ ॥

गावश्च देया विधिवद् द्विजानां सकाञ्चना वस्त्रयुगोत्तरीयाः।
एवं कृते शान्तिमुपैति पापं मृगैर्द्विजैर्वा विनिवेदितं यत् ॥ २३७.१४ ॥