२३५

शान्तिविधानवर्णनम्।

गर्ग उवाच।
अकालप्रसवा नार्यः कालातीत प्रजास्तथा।
विकृतप्रसवाश्चैव युग्म सम्प्रसवास्तथा ॥ २३५.१ ॥

अमानुषा ह्यतुण्डांश्च सञ्जात व्यसनास्तथा।
हीनाङ्गा अधिकाङ्गाश्च जायन्ते यदि वा स्त्रियः ॥ २३५.२ ॥

पश्वः पक्षिणश्चैव तथैव च सरीसृपाः।
विनाशन्तस्य देशस्य कुलस्य च विनिर्दिशेत् ॥ २३५.३ ॥

विवासयेत्तान्नृपतिः स्वराष्ट्रात् स्त्रियश्च पूज्याश्च ततो द्विजेन्द्राः!।
कस्येच्छकैः ब्राह्मणतर्पणञ्च लोके ततः शान्तिमुपैति पापम् ॥ ३५.४ ॥