२३२

शान्तिविधानवर्णनम्।

गर्ग उवाच।
पुरेषु येषु दृश्यन्ते पादपादेव चोदिता।
रुदन्तो वा हसन्तो वा स्रवन्तो वा रसान्बहून् ॥ २३२.१ ॥

अरोगा वा विना वातं शाखां मुञ्चत्यथ द्रुमाः।
फलं मूलं तथा कालं दर्शयन्ति त्रिहायनाः ॥ २३२.२ ॥

पूर्ववत्स्वं दर्शयन्ति फलं पुष्पं तथान्तरे।
क्षीरं स्नेहं तथा रक्त मधु तोयं स्रवन्ति च ॥ २३२.३ ॥

शुष्यन्त्यरोगाः सहसा शुष्का रोहन्ति वा पुनः।
उत्तिष्ठन्तीह पतिताः पतन्ति च तथोत्थिताः ॥ २३२.४ ॥

तत्र वक्ष्यामि ते ब्रह्मन्! विपाकं फलमेव च।
रोदने व्याधिमभ्येति हसने देशविभ्रमम् ॥ २३२.५ ॥

शाखाप्रपतनं कुर्यात् सङ्ग्रामे योधपातनम्।
बालानां मरणं कुर्यात् बालानां बालपुष्पिता॥ २३२.६ ॥

स्वराष्ट्रभेदं कुरुते फलपुष्पमथान्तरे।
क्षयः सर्वत्र गोक्षीरे स्नेहे दुर्भिक्षलक्षणम् ॥ २३२.७ ॥

वाहनापचयं मद्ये रक्ते सङ्ग्राममाविशेत्।
मधुस्रावे भवेद् व्याधिर्जलस्रावे न वर्षति ॥ २३२.८ ॥

अरोगशोषणं ज्ञेयं ब्रह्मन्! दुर्भिक्षलक्षणम्।
शुष्केषु सम्प्रहरोहस्तु वीर्यमन्त्रञ्च हीयते ॥ २३२.९ ॥

उत्थाने पतितानाञ्च नयं भेदकरम्भवेत्।
स्थानात् स्तानन्तु गमने देशभङ्गस्तथा भवेत् ॥ २३२.१० ॥

ज्वलत्स्वपि च वृक्षेषु रुद्रत्स्वपि धनक्षयम्।
एतत्पूजितवृक्षेषु सर्वं राज्ञो विपद्यते ॥ २३२.११ ॥

पुष्पे फले वा विकृते राज्ञो मृत्यु तथादिशेत्।
अन्येषु चैव वृक्षेषु वृक्षोत्पातेष्वतन्द्रितः ॥ २३२.१२ ॥

आच्छादयित्वा तं वृक्षं गन्धमाल्यैर्विभूषयेत्।
वृक्षोपरि तथा छत्रं कुर्यात् पापप्रशान्तये ॥ २३२.१३ ॥

शिवमभ्यर्चयेद्देवं पशुञ्चास्मै निवेदयेत्।
रुद्रेभ्य इति वृक्षेषु हुत्वा रुद्रं जपेत्ततः ॥ २३२.१४ ॥

मध्वाज्ययुक्तेन तु पायसेन सम्पूज्य विप्रांश्च भुवञ्च दद्यात्।
गीतेन नृत्येन तथार्चयेत्तु देवं हरं पापविनाशहेतोः ॥ २३२.१५ ॥