२३०

शान्तिविधानवर्णनम् ।

गर्ग उवाच।
देवतार्चाः प्रनृत्यन्ति वेपन्ते प्रज्वलन्ति च।
वमन्त्यग्निं तथा धूमं स्नेहं रक्तं तथा वसाम् ॥ २३०.१ ॥

आरयन्ति रुदन्त्येताः प्रस्विद्यन्ति हसन्ति च।
उत्तिष्ठन्ति निषीदन्ति प्रधावन्ति धमन्ति च ॥ २३०.२ ॥

भुञ्जते विक्षिपन्ते वा कोशप्रहरणध्वजान्।
अवाङ्मुखा वै भवन्ति स्थानात् स्थानं भ्रमन्ति च ॥ २३०.३ ॥

एवमाद्या हि दृश्यन्ते विकाराः सहसोत्थिताः।
लिङ्गायतन विप्रेषु तत्र वासं नरोचयेत् ॥ २३०.४ ॥

राज्ञो वा व्यसनन्तत्र स च देशो विनश्यति।
देवयात्रासु चोत्पातात् दृष्ट्वा देशभयं वदेत् ॥ २३०.५ ॥

पितामहस्य हर्म्येषु तत्र वासं न रोचयेत्।
पशूनां रुद्रजं ज्ञेयं नृपाणां लोकपालजम् ॥ २३०.६ ॥

ज्ञेयं सेनापतीनान्तु यत्स्यात् कन्दविशाखजम्।
लोकानां विष्णुवस्वीन्द्र विश्वकर्मसमुद्भवम् ॥ २३०.७ ॥

विनायकोद्भवं ज्ञेयं गणानां ये तु नायकाः।
देवप्रेष्यान्नृपप्रेष्यादेव स्त्रीभिर्नृपस्त्रियः ॥ २३०.८ ॥

वासुदेवोद्भवं ज्ञेयं ग्रहाणामेव नान्यथा।
देवतानां विकारेषु श्रुतिवेत्ता पुरोहितः ॥ २३०.९ ॥

देवतार्चान्तु गत्वा वै स्नानमाच्छाद्य भूषयेत्।
पूजयेच्च महाभाग! गन्धमाल्यान् न सम्पदा ॥ २३०.१० ॥

मधुपर्केण विधिवत् उपतिष्ठेदनन्तरम्।
पुरोधा जुहुयाद्वह्नौ सप्तरात्रमतन्द्रितः ॥ २३०.११ ॥

विप्राश्च पूज्या मधुरान्नपानैः सदक्षिणं सप्तदिनं नरेन्द्र!।
प्राप्तेऽष्टमेऽह्नि क्षितिगोप्रदानैः सकाञ्चनैः शान्तिमुपैति पापम् ॥ २३०.१२ ॥