राजधर्मवर्णने राज्ञो देवसाम्यत्ववर्णनम्।
मत्स्य उवाच।
दण्डप्रणयनार्थाय राजा सृष्टः स्वयम्भुवा।
देवभागानुपादाय सर्वभूतादि गुप्तये ॥ २२६.१ ॥
तेजसा यदमुं कश्चिन्नैव शक्नोति वीक्षितुम्।
ततो भवति लोकेषु राजा भास्करवत्प्रभुः ॥ २२६.२ ॥
यदास्य दर्शने लोकः प्रसादमुपगच्चति।
नयनानन्दकारित्वात्तदा भवति चन्द्रमाः ॥ २२६.३ ॥
यथा यमः प्रियद्वेष्ये प्राप्ते काले प्रयच्छति।
तथा राज्ञा विधातव्याः प्रजास्तद्वि यमव्रतम् ॥ २२६.४ ॥
वरुणेन यथा पाशैर्बद्ध एव प्रदृश्यते।
तथा पापान्निगृह्णीयाद् व्रतमेतद्वि वारुणम् ॥ २२६.५ ॥
परिपूर्णं यथा चन्द्रं दृष्ट्वा हृष्यति मानवः।
तथा प्रकृतयो यस्मिन् स चन्द्रप्रतिमो नृपः ॥ २२६.६ ॥
प्रतापयुक्तस्तेजस्वी नित्यं स्यात् सर्वकर्मसु।
दुष्टसामन्त हिंस्रेषु राजाग्नेयव्रते स्थितः ॥ २२६.७ ॥
यथा सर्वाणि भूतानि बिभ्रतः पार्थिवं व्रतम्।
इन्द्रस्यार्कस्य वातस्य यमस्य वरुणस्य च ॥ २२६.८ ॥
चन्द्रस्याग्नेः पृथिव्याश्च तेजो व्रतं नृपश्चरेत्।
वार्षिकान् चतुरो मासान् यथेन्द्रोप्यथवर्षति ॥ २२६.९ ॥
तथाभिवर्षेत्स्वं राज्यं काममिन्द्रव्रतं स्मृतम्।
अष्टौ मासान् यथादित्यस्तोयं हरति रश्मिभिः ॥ २२६.१० ॥
प्रविश्य सर्वभूतानि यथा चरति मारुतः।
तथा चारैः प्रवेष्टव्यं व्रतमेतद्धि मारुतम्॥ २२६.११ ॥