राजधर्मवर्णने दानप्रयोगवर्णनम्।
मत्स्य उवाच।
सर्वेषामप्युपायानां दानं श्रेष्ठतमं मतम्।
सुदत्तेनेह भवति दानेनोभयलोकजित् ॥ २२४.१ ॥
न सोऽस्ति राजन्! दानेन वशगो यो न जायते।
दानेन वशगा देवा भवन्तीह सदा नृणाम् ॥ २२४.२ ॥
दानमेवोपजीवन्ति प्रजाः सर्वा नृपोत्तम!
प्रियो हि दानवान् लोके सर्वस्यैवोपजायते ॥ २२४.३ ॥
दानवानचिरेणैव तथा राजा परान् जयेत्।
दानवानेव शक्नेति संहतान् भेदितुं परान्॥ २२४.४ ॥
यद्यप्यलुभ्धगम्भीराः पुरुषाः सागरोपमाः।
न गृह्णन्ति तथाप्येते जायन्ते पक्षपातिनः॥ २२४.५ ॥
यद्यप्यलुब्धगम्भीराः पुरुषाः सागरोपमाः।
न गृह्णन्ति तथाप्येते जायन्ते पक्षपातिनः॥ २२४.६ ॥
अन्यत्रापि कृतं पुंसां दानं श्रेष्ठतमं परम्।
दानवानेव लोकेषु पुत्रत्वे ध्रियते सदा ॥ २२४.७ ॥
न केवलं दानपरा जयन्ति भूलोकमेकं पुरुषप्रवीराः।
जयन्ति ते राजसुरेन्द्रलोकं सुदुर्जयं यो विबुधाधिवासः ॥ २२४.८ ॥