राजधर्मवर्णने सामप्रयोगवर्णनम्।
मनुरुवाच।
उपायांस्त्वं समाचक्ष्व सामपूर्वान् महाद्युते!।
लक्षणञ्च तथा तेषां प्रयोगञ्च सुरोत्तम!॥ २२२.१ ॥
मत्स्य उवाच।
सामभेदस्तथा दानदण्डञ्च मनुजेश्वर!।
उपेक्षा च तथा माया इन्द्रजालञ्च पार्थिव! ॥ २२२.२ ॥
प्रयोगाः कथिताः सप्त तन्मे निगदतः श्रृणु।
द्विविधं कथितं साम तथ्यञ्चातथ्यमेव च ॥ २२२.३ ॥
तत्राप्यतथ्यं साधुनामाक्रोशायैव जायते।
तत्र साधुः प्रयत्नेन सामसाध्यो नरोत्तम! ॥ २२२.४ ॥
महाकुलीना ऋजवो धर्मनित्या जितेन्द्रियाः।
सामसाध्या न चातथ्यन्तेषु साम प्रयोजयेत् ॥ २२२.५ ॥
तथ्यं साम च कर्तव्यं कुलशीलादि वर्णनम्।
तथा तदुपचाराणां कृतानाञ्चैव वर्णनम्॥ २२२.६ ॥
अनयैव तथा युक्त्या कृतज्ञाख्यापनं स्वकम्।
एवं साम्ना च कर्तव्या वशगा धर्मतत्पराः ॥ २२२.७ ॥
साम्ना यद्यपि रक्षांसि गृह्णन्तीति परा श्रुतिः।
तथाप्येतदसाधूनां प्रयुक्तं नोपकारकम् ॥ २२२.८ ॥
अतिशङ्कितमित्येवं पुरुषं सामवादिनम्।
असाधवो विजानन्ति तस्मात्तत्तेषु वर्जयेत् ॥ २२२.९ ॥
ये शुद्धवंशाः ऋजवः प्रणीता धर्मे स्थिताः सत्यपरा विनीताः।
ते सामसाध्याः पुरुषाः प्रदिष्टा मानोन्नता ये सततञ्च राजन् ॥ २२२.१० ॥