राजधर्मवर्णनम्।
मत्स्य उवाच।
राजन्! पुत्रस्य रक्षा च कर्तव्या पृथिवीक्षिता।
आचार्यश्चात्र कर्तव्यो नित्ययुक्तश्च रक्षिभिः ॥ २२०.१ ॥
धर्मकामार्थशास्त्राणि धनुर्वेदञ्च शिक्षयेत्।
रथे च कुञ्चरे चैनं व्यायामङ्कारयेत्सदा ॥ २२०.२ ॥
शिल्पानि शिक्षयेच्चैनं नाप्तो मिथ्या प्रियं वदेत्।
शरीररक्षाव्याजेन रक्षिणोऽस्य नियोजयेत् ॥ २२०.३ ॥
न चास्य सङ्गो जातव्यः क्रुद्धलुब्धावमानितैः।
तथा च विनयेदेनं यथा यौवनगोचरै ॥ २२०.४ ॥
इन्द्रियैर्नापकृष्येत सतां मार्गात्सुदुर्गमात्।
गुणाधानमशक्यन्तु यस्य कर्तुं स्वभावयः ॥ २२०.५ ॥
बन्धनं तस्य कर्तव्यं गुप्तदेशे सुखान्वितम्।
अविनीतकुमारं हि कुलमाशु विशीर्यते ॥ २२०.६ ॥
अधिकारेषु सर्वेषु विनीतं विनियोजयेत्।
आदौ स्वल्पे ततः पश्चात्क्रमेणाथ महात्स्वपि ॥ २२०.७ ॥
मृगया पानमक्षांश्च वर्जयेत् पृथिवीपतिः।
एतान्ये सेवमानास्तु विनष्टाः पृथिवीक्षितः ॥ २२०.८ ॥
बहवो नरशार्दूल! तेषां सङ्ख्या न विद्यते।
दिवा स्वापं क्षितीशस्तु विशेषेण विवर्जयेत् ॥ २२०.९ ॥
वाक्यारुष्यं न कर्तव्यं दण्डपारुष्यमेव च।
परोक्षनिन्दा च तथा वर्जनीया महीक्षिता॥ २२०.१० ॥
अर्थस्य दूषणं राजा द्विप्रकारं विवर्जयेत्।
अर्थानां दूषणञ्चैकं तथार्थेषु च दूषणम् ॥ २२०.११ ॥
प्राकाराणां समुच्छेदो दुर्गादीनामसत्क्रिया।
अर्थानां दूषणं प्रोक्तं विप्रकीर्णत्वमेव च ॥ २२०.१२ ॥
अदेशकाले यद्दानमपात्रे दानमेव च।
अर्थेषु दूषणं प्रोक्तमसत्कर्म प्रवर्तनम् ॥ २२०.१३ ॥
कामः क्रोधो मदो मानो लोभो हर्षस्तथैव च।
एते वर्ज्याः प्रयत्नेन सादरं पृथिवीक्षिता ॥ २२०.१४ ॥
एतेषां विजयं कृत्वा कार्यो भृत्य-जयस्ततः।
कृत्वा भृत्यजयं राजा पौरान् जानपदान् जयेत् ॥ २२०.१५ ॥
कृत्वा च विजयन्तेषां शत्रून् बाह्यांस्ततो जयेत्।
बाह्याश्च विविधा ज्ञेयास्तुल्याभ्यन्तरकृत्रिमाः ॥ २२०.१६ ॥
गुरवस्ते यथा पूर्वं तेषु यत्नपरो भवेत्।
पितृपैतामहं मित्रममित्रञ्च तथा रिपोः ॥ २२०.१७ ॥
कृत्रिमञ्च महाभाग! मित्रं त्रिविधमुच्यते।
तथापि च गुरुः पूर्वं भवेत्तत्रापि चादृतः ॥ २२०.१८ ॥
स्वाम्यमात्यो जनपदो दुर्गं दण्डस्तथैव च।
कोशो मित्रञ्च धर्मज्ञ! सप्ताङ्गं राज्यमुच्यते ॥ २२०.१९ ॥
सप्ताङ्गस्यापि राज्यस्य मूलं स्वामी प्रकीर्तितः।
तन्मूलत्वात्तथाङ्गानां स तुरक्ष्यः प्रयत्नतः ॥ २२०.२० ॥
षडङ्गरक्षा कर्तव्या तथा तेन प्रयत्नतः।
अङ्गेभ्यो यस्तथैकस्तु द्रोहमाचरतेऽल्पधीः ॥ २२०.२१ ॥
बन्धस्तस्य तु कर्तव्यः शीघ्रमेव महीक्षिता।
न राज्ञा मृदुना भाव्यं मृदुर्हि परिभूयते ॥ २२०.२२ ॥
न भाव्यं दारुणेनापि तीक्ष्णादुद्विजते जनः।
काले भृदुर्यो भवति काले भवति दारुणः ॥ २२०.२३ ॥
राजा लोकद्वयापेक्षी तस्य लोकद्वयं भवेत्।
भृत्यैः सह महीपालः परिहासं विवर्जयेत् ॥ २२०.२४ ॥
भृत्याः परिभवन्तीह नृपं हर्षवशङ्गतम्।
व्यसनानि च सर्वाणि भूपतिः परिवर्जयेत् ॥ २२०.२५ ॥
लोकसङ्ग्रहणार्थाय कृतकव्यसनी भवेत्।
शौण्डीरस्य नरेन्द्रस्य नित्यमुद्रिक्तचेतसः ॥ २२०.२६ ॥
जना विरागमायान्ति सदा दुःसेव्यभावतः।
स्मितपूर्वाभिभाषीस्यात् सर्वस्यैव महीपतिः ॥ २२०.२७ ॥
बध्येष्वपि महाभाग! भ्रुकुटिं न समाचरेत्।
भाव्यं धर्मभृतां श्रेष्ठ! स्थूल्लक्ष्येण भूभुजा ॥ २२०.२८ ॥
स्थूललक्ष्यस्य वशगा सर्वा भवति मेदिनी।
अदीर्घसूत्रश्च भवेत् सर्वकर्मसु पार्थिवः ॥ २२०.२९ ॥
दीर्घसूत्रस्य नृपतेः कर्महानिर्ध्रुवम्भवेत्।
रागे दर्पे च माने च द्रोहे पापे च कर्मणि ॥ २२०.३० ॥
अप्रिये चैव कर्तव्ये दीर्घसूत्रः प्रशस्यते।
राज्ञा संवृतमन्त्रेण सदा भाव्यं नृपोत्तम!॥ २२०.३१ ॥
तस्यासंवृतमन्त्रस्य राज्ञः सर्वापदो ध्रुवम्।
कृतान्येव तु कार्याणि ज्ञायन्ते यस्य भूपतेः ॥ २२०.३२ ॥
नारब्धानि महाभाग! तस्य स्याद्वसुधावशे।
मन्त्रमूलं सदा राज्यं तस्मान्मन्त्रः सुरक्षितः ॥ २२०.३३ ॥
कर्तव्यः पृथिवीपालैर्मन्त्रभेद भयात् सदा।
मन्त्रवित्साधितो मन्त्रः सम्पत्तीनां सुखावहः ॥ २२०.३४ ॥
मन्त्रच्छलेन बहवो विनष्टाः पृथिवीक्षितः।
आकारैरिङ्गितैर्गत्या चेष्टया भाषितेन च ॥ २२०.३५ ॥
नेत्रवक्त्रविकारैश्च गृह्यतेऽन्तर्गतं मनः।
न यस्य कुशलैस्तस्य वशे सर्वा वसुन्धरा॥ २२०.३६ ॥
भवतीह महीपाले सदा पार्थिवनन्दन!।
नैकस्तु मन्त्रयेन्मन्त्रं राजा न बहुभिः सह ॥ २२०.३७ ॥
नारोहेद्विषमां नावमपरीक्षितनाविकम्।
ये चास्य भूमिजयिनो भवेयुः परिपन्थिनः ॥ २२०.३८ ॥
तानानयेद्वशे सर्वान् सामादिभिरुपक्रमैः।
यथा न स्यात् कृशीभावः प्रजानामनवेक्षया ॥ २२०.३९ ॥
तथा राज्ञा प्रकर्तव्यं स्वराष्ट्रं परिरक्षता।
मोहाद्राजा स्वराष्ट्रं यः कर्षयत्यनवेक्षया ॥ २२०.४० ॥
सोऽचिराद् भ्रश्यते राज्याज्जीविताच्च सबान्धवः।
भृतो वत्सो जातबलः कर्मयोग्यो यथा भवेत् ॥ २२०.४१ ॥
तथा राष्ट्रं महाभाग! भृतं कर्मसहम्भवेत्।
यो राष्ट्रमनुघृह्णाति राज्यं स परिरक्षति ॥ २२०.४२ ॥
सञ्जातमुपजीवेत्तु विन्दते स महत्फलम्।
गृह्याद्धिरण्यं धान्यञ्च महीं राजासु रक्षिताम् ॥ २२०.४३ ॥
महता तु प्रयत्नेन स्वाराष्ट्रस्य च रक्षिता।
नित्यं स्वेभ्यः परेभ्यश्च यथा माता यथा पिता ॥ २२०.४४ ॥
गोपितानि सदा कुर्यात् संयतानीन्द्रियाणि च।
अजस्रमुपयोक्तव्यं फलन्तेभ्यस्तथैव च ॥ २२०.४५ ॥
सर्वं कर्मेदमायत्तं विधाने दैवमानुषे।
तयोर्देवमचिन्त्यञ्च पौरुषे विद्यते क्रिया ॥ २२०.४६ ॥
एवं महीं पालयतोऽस्य भर्तुर्लोकानुरागः परमो भवेत्तु।
लोकानुरागप्रभवा च लक्ष्मीर्लक्ष्मीवतश्चापि परा च लक्ष्मीः ॥ २२०.४७ ॥