मनुमत्स्यसंवादे राजधर्मवर्णनम्।
मनुरुवाच।
राजरक्षारहस्यानि यानि दुर्गे निधापयेत्।
कारयेद्वा महीभर्ता ब्रूहि तत्त्वानि तानि च ॥ २१९.१ ॥
मत्स्य उवाच।
शिरीषोदुम्बर-शमी वीजपूरं घृतप्लुतम्।
क्षुद्योगः कथितो राजन्! मासार्द्धं तु पुरातनैः ॥ २१९.२ ॥
कशेरुफलमूलानि इक्षुमूलं तथा बिसम्।
दूर्वाक्षीरघृतैर्मण्डः सिद्धोऽयं मासिकः परः ॥ २१९.३ ॥
नरं शस्त्रहतं प्राप्तो न तस्य मरणं भवेत्।
कल्माषवेणुना तत्र जनयेत्तु विभावसुम् ॥ २१९.४ ॥
गृहे त्रिरपसव्यन्तु क्रियते यत्र पार्थिव!।
नान्योऽग्निर्ज्वलते तत्र नात्र कार्या विचारणा ॥ २१९.५ ॥
कार्पासस्था भुजङ्गस्य तेन निर्मोचनं भवेत्।
सर्पनिर्वासने धूपः प्रशस्तः सततं गृहे ॥ २१९.६ ॥
सामुद्रसैन्धवयवा विद्युद्दग्धा च मृत्तिका।
तयानुलिप्तं यद्वेश्म नाग्निना दह्यते नृप! ॥ २१९.७ ॥
दिवा च दुर्गे रक्ष्योऽग्निर्वाति वाते विशेषतः।
विषाच्च रक्ष्योनृपतिस्तत्र युक्तिं निबोध मे ॥ २१९.८ ॥
क्रीडा-निमित्तं नृपतिर्धारयेन्मृगपक्षिणः।
अन्नं वै प्राक् परीक्षेत वह्नौ चान्यतरेषु च ॥ २१९.९ ॥
वस्त्रं पुष्पमलङ्कारं भोजनाच्छादनं तथा।
नापरीक्षितपूर्वन्तु स्पृशेदपि महामतिः ॥ २१९.१० ॥
स्याच्चासौ वक्त्रसन्तप्त- सोद्वेगञ्च निरीक्षते।
विषदोऽथ विषं दत्तं यच्च तत्र परीक्षते ॥ २१९.११ ॥
स्रस्तोत्तरीयो विमनाः स्तम्भकुड्यादिभिस्तथा।
प्रच्छादयति चात्मानं लज्जते त्वरते तथा ॥ २१९.१२ ॥
भुवं विलिखति ग्रीवां तथा चालयते नृप!।
कण्डूयति च मूर्द्धानं परिलोड्याननन्तथा ॥ २१९.१३ ॥
क्रियासु त्वरितो राजन्! विपरीतास्वपि ध्रुवम्।
एवमादीनि चिह्नानि विषदस्य परीक्षयेत् ॥ २१९.१४ ॥
समीपैर्विक्षिपेद्वह्नौ तदन्नं त्वरयान्वितैः।
इन्द्रायुधसवर्णन्तु रूक्षं स्फोटसमन्वितम् ॥ २१९.१५ ॥
एकावर्तन्तु दुर्गन्न्धि भृशञ्चटचटायते।
तद्धूमसेवनाज्जन्तोः शिरो-रोगश्च जायते ॥ २१९.१६ ॥
सविषेऽऽन्ने विलीयन्ते न च पार्थिव! मक्षिकाः।
निलीनाश्च विपद्यन्ते संस्पृष्टे सविषे तथा ॥ २१९.१७ ॥
विरज्यति चकोरस्य दृष्टिः पार्थिवसत्तम!।
विकृतिश्च स्वरो याति कोकिलस्य तथा नृप! ॥ २१९.१८ ॥
गतिस्खलति हंसस्य भृङ्गराजश्च कूजति।
क्रौञ्चो मदमथाभ्येति कृकवाकुर्विरौति च ॥ २१९.१९ ॥
विक्रोशति शुको राजन्! सारिका वमते ततः।
चामीकरोऽन्यतोयाति मृत्युं कारण्डवस्तथा ॥ २१९.२० ॥
मेहते वानरो राजन्! ग्लायते जीवजीवकः।
दृष्टरोमा भवेद्वभ्रुः पृषतश्चैव रोदिति ॥ २१९.२१ ॥
हर्षमायाति च शिखी विषसन्दर्शनान्नृप!।
अन्नञ्च सविषं राजंश्चिरेण च विपद्यते ॥ २१९.२२ ॥
तदा भवति निःश्राव्यं पक्षपर्युषितोपमम्।
व्यापन्नरसगन्धञ्च चन्द्रिकाभिस्तथा युतम् ॥ २१९.२३ ॥
व्यञ्जनानान्तु शुष्कत्वं द्रवाणां बुद्बुदोद्भवः।
ससैन्धवानां द्रव्याणां जायते फेनमालिता ॥ २१९.२४ ॥
सस्यराजिश्च ताम्रा स्यात् नीला च पयसस्तथा।
कोकिलाभा च मद्यस्य तोयस्य च नृपोत्तम! ॥ २१९.२५ ॥
धान्याम्लस्य तथा कृष्णा कपिला कोद्रवस्य च।
मधुश्यामा च तक्रस्य नीला पीता तथैव च॥ २१९.२६ ॥
घृतस्योदकसङ्काशा कपोताभा च सत्तनुः।
हरिता माक्षिकस्यापि तैलस्य च तथारुणा ॥ २१९.२७ ॥
फलानामप्यपक्वानां पाकः क्षिप्रं प्रजायते।
प्रकोपश्चैव पक्वानां माल्यानां म्लानता तथा ॥ २१९.२८ ॥
मृदुता कठिनानां स्यात् मृदूनाञ्च विपर्ययः।
सूक्ष्माणां रूपदलनं तथा चैवातिरङ्गता ॥ २१९.२९ ॥
श्याममण्डलता चैव वस्त्राणां वै तथैव च।
लोहानाञ्च मणीनाञ्च मलपङ्कोपदिग्धता॥ २१९.३० ॥
अनुलेपनगन्धानां माल्यानाञ्च नॄपोत्तम।
विगन्धता च विज्ञेया तथा राजन्! जलस्य तु ॥ २१९.३१ ॥
दन्तकाष्ठत्वचः श्यामाः तनुसत्वास्तथैव च।
एवमादीनि चिह्नानि विज्ञेयानि नृपोत्तम!॥ २१९.३२ ॥
तस्माद्राजा सदा तिष्ठेत् मणिमन्त्रौषधां गणैः।
उक्तैः संरक्षितो राजा प्रमादपरिवर्जकः ॥ २१९.३३ ॥
प्रजातरोर्मूलमिहावनीशस्तद्रक्षणाद्राष्ट्रमुपैति वृद्धिम्।
तस्मात्प्रयत्नेन नृपस्य रक्षा सर्वेण कार्या रविवंशचन्द्र! ॥ २१९.३४ ॥