मनुमत्स्यसंवादे राजधर्मवर्णनम्।
मनुरुवाच।
रक्षोघ्नानि विषघ्नानि यानि धार्याणि भूभुजा।
अगदानि समाचक्ष्व तानि धर्मभृताम्वर!॥ २१८.१ ॥
मत्स्य उवाच।
विल्वाटकी यवक्षारं पाटलावाह्लिकोषणाः।
श्रीपर्णी शल्लकी-युक्तो निक्वाथः प्रोक्षणं परम् ॥ २१८.२ ॥
सविषं प्रोक्षितं तेन सद्यो भवति निर्विषम्।
यवसैन्धवपानीय वस्त्रशय्यासनोदकम् ॥ २१८.३ ॥
कवचाभरणं छत्रं बालव्यजनवेश्मनाम्।
शेलुः पाठलातिविषा शिग्रुमूर्वा पुनर्नवा ॥ २१८.४ ॥
समङ्गावृषमूलञ्च कपित्थवृषशोणितम्।
महादन्तशठन्तद्वत् प्रोक्षणं विषनाशनम् ॥ २१८.५ ॥
लाक्षाप्रियङ्गु मञ्जिष्ठा सममेला हरेणुका।
यष्ट्याह्वा मधुरा चैव बभ्रुपित्तेन कल्पिताः ॥ २१८.६ ॥
निखनेद् गोविषाणस्थं सप्तरात्रं महीतले।
ततः कृत्वा मणिं हेम्ना बद्धं हस्तेन धारयेत् ॥ २१८.७ ॥
संसृष्टं सविषन्तेन सद्यो भवति निर्विषम्।
मनोह्वया शमीपत्रं तुम्बिका श्वेतसर्षपाः ॥ २१८.८ ॥
कपित्थकुष्ठमञ्जिष्ठाः पित्तेन श्लक्ष्णकल्पिताः।
शुनो गोः कपिलाश्च सौम्याक्षिप्तोऽपरोगदः ॥ २१८.९ ॥
विषजित् परमं कार्यं मणिरत्नञ्च पूर्ववत्।
मूषिका जतुका चापि हस्ते बद्धा विषापहा ॥ २१८.१० ॥
हरेणु मांसी मञ्जिष्ठा रजनी मधुकामधु।
अक्षत्वक् सुरसं लाक्षा श्वपित्तं पूर्ववद् भुवि ॥ २१८.११ ॥
वादित्राणि पताकाश्च पिष्टैरेताः प्रलोपिताः।
श्रुत्वा दृष्ट्वा समाघ्राय सद्यो भवति निर्विषः ॥ २१८.१२ ॥
त्र्युषणं पञ्चलवणं मञ्जिष्ठा रजनीद्वयम्।
सूक्ष्मैला त्रिवृतापत्रं विडङ्गानीन्द्रवारुणी ॥ २१८.१३ ॥
मधुकं वेतसं क्षौद्रं विषाणे च निधापयेत्।
तस्मादुष्णाम्बुना मात्रं प्रागुक्तं योजयेत्ततः ॥ २१८.१४ ॥
शुक्लं सर्जरसोपेत सर्षपा एलवालुकैः ॥ २१८.१५ ॥
सुवोगा तस्करसुरौ कुसुमैरर्जुनस्य तु।
धूपो वासगृहे हन्ति विषं स्यावरजङ्गमम् ॥ २१८.१६ ॥
न तत्र कीटा न विषन्दर्दुरा न सरीसृपाः।
न कृत्या कर्मणाञ्चापि धूपोऽयं यत्र दह्यते ॥ २१८.१७ ॥
कल्पितैश्चन्दनक्षीर पलाश द्रुमवल्कलैः।
मूर्वैला वालु सरसा नाकुली तण्डुलीयकैः ॥ २१८.१८ ॥
क्वाथः सर्वोदकार्येषु काकमाचीयुतो हितः।
रोचनापत्रनेपाली कुङ्कुमै स्तिलकान् वहन् ॥ २१८.१९ ॥
विषैर्न बाध्यते स्याच्च नरनारी नृपप्रियः।
चूर्णै र्हरिद्रा मञ्जिष्ठा किणिही कणनिम्बजैः ॥ २१८.२० ॥
दिग्धं निर्विषतामेति गात्रं सर्वविषार्दितम्।
शिरीषस्य फलं पत्रं पुष्पं त्वं मूलमेव च ॥ २१८.२१ ॥
गोमूत्रघृष्टो ह्यगदः सर्वकर्मकरः स्मृतः।
एकवीर! महौषध्यः श्रृणु चातः परं नृप!॥ २१८.२२ ॥
वन्ध्या कर्कोटकी राजन्! विष्णुक्रान्ता तथोत्कटा।
शतमूली सितानन्दा बला मोचा पटोलिका ॥ २१८.२३ ॥
सोमा पिण्डा निशा चैव तथा दग्धरुहा च या।
स्थले कमलिनी या च विशाली शङ्कमूलिका ॥ २१८.२४ ॥
चण्डाली हस्तिमगधा गोऽजापर्णो करम्भिका।
रक्ता चैव महारक्ता तथा बर्हिशिखा च या ॥ २१८.२५ ॥
कोशातकी नक्तमालं प्रियालञ्च सुलोचनी।
वारुणी वसुगन्धा च तथा वै गन्धनाकुली ॥ २१८.२६ ॥
ईश्वरी शिवगन्धा च श्यामला वंशनालिका।
जतुकाली महाश्वेता श्वेता च मधुयष्टिका ॥ २१८.२७ ॥
वज्रकः पारिभद्रश्च तथा वै सिन्धुवारकाः।
जीवानन्दा वसुच्छिद्रा नतनागरकण्टका ॥ २१८.२८ ॥
नालश्च जाली जाती च तथा च वटपत्रिका।
कार्तस्वरं महानीला कुन्दुरुर्हं सपादिका॥ २१८.२९ ॥
मण्डूकपर्णी वारही द्वे तथा तण्डुलीयके।
सर्पाक्षी लवली ब्राह्मी विश्वरूपा सुखाकरा ॥ २१८.३० ॥
रुजापहो वृद्धिकरी तथा चैव तु शल्यदा।
पत्रिका रोहिणी चैव रक्तमाला महौषधी ॥ २१८.३१ ॥
तथामलकवन्दाकं श्यामचित्र फला च या।
काकोली क्षीरकाकोली पीलुपर्णी तथैव च ॥ २१८.३२ ॥
केशिनी वृश्चिकालीच महानागा शतावरी।
गरुडीच तथा वेगा जले कुमुदिनी तथा ॥ २१८.३३ ॥
स्थले चोत्पलिनी या च महाभूमिलता च या।
उन्मादिनी सोमराजी सर्वरत्नानि पार्थिव ॥ २१८.३४ ॥
विशेषान्मरकतादीनि कीटपक्षं विशेषतः।
जीवजाताश्च मणयः सर्वे धार्याः प्रयत्नतः ॥ २१८.३५ ॥
रक्षोघ्नाश्च विषघ्नाश्च कृत्या वैतालनाशनाः।
विशेषान्नरनागाश्च गोखरोष्ट्रसमुद्भवाः ॥ २१८.३६ ॥
सर्पतित्तिरगोमायु वस्त्र(क)मण्डकजाश्च ये।
सिंहव्याघ्रर्क्षमार्जार द्वीपिवानरसम्भवाः ॥
कपिञ्जला गजा वाजिमहिषैण भवाश्च ये ॥ २१८.३७ ॥
इत्येवमेतैः सकलैरुपेतन्द्रव्यैश्च सर्वैः स्वपुरं सुरक्षितम्।
राजा वसेत्तत्र गृहं सुशुभ्रं गुणान्वितं लक्षण सम्प्रयुक्तम् ॥ २१८.३८ ॥