सावित्री तु ततः साध्वी जगाम वरवर्णिनी।
यथा यथा गतेनैव यत्रासीत्सत्यवान्मृतः ॥ २१४.१ ॥
स समासाद्य भर्तारं तस्योत्सङ्ग गतं शिरः।
कृत्वा विवेश तन्वङ्गी लम्बमाने दिवाकरे ॥ २१४.२ ॥
सत्यवानपि निर्मुक्तो धर्मराजाच्छनैः शनैः।
उन्मीलयत नेत्राभ्यां प्रास्फुरच्च नराधिप! ॥ २१४.३ ॥
ततः प्रत्यागतप्राणः प्रियां वचनमब्रवीत्।
क्वासौ प्रयातः पुरुषो यो मामप्यपकर्षति ॥ २१४.४ ॥
न जानामि वरारोहे! कश्चासौ पुरुषः शुभे।
वनेऽस्मिन्चारुसर्वाङ्गि! सुप्तस्य च दिनं गतम् ॥ २१४.५ ॥
उपवासपरिश्रान्ता दुःखिता भवती मया।
अस्मद्दुर्हृदयेनाद्य पितरौ दुःखितौ तथा ॥
द्रष्टुमिच्छाम्यहं सुभ्रु! गगने त्वरिता भव ॥ २१४.६ ॥
सावित्र्युवाच।
आदित्येऽस्तमनुप्राप्ते यदि ते रुचितं प्रभो!।
आश्रमन्तु प्रयास्यावः श्वशुरौ हीन चक्षुषौ ॥ २१४.७ ॥
यथा वृत्तञ्च तत्रैव श्रृणु वक्ष्ये यथाश्रमे।
एतावदुक्त्वा भर्तारं सह भर्त्रा तदा ययौ ॥ २१४.८ ॥
आससादाश्रमं चैव सह भर्त्रा नृपात्मजा।
एतस्मिन्नेव काले तु लब्धचक्षुर्महीपतिः ॥ २१४.९ ॥
द्युमत्सेनः सभार्यस्तु पर्यतप्यत भार्गव!।
प्रियपुत्रमपश्यन्वै स्नुषाञ्चैवाथ कर्शिताम् ॥ २१४.१० ॥
आश्वास्यमानस्तु तथा स तु राजा तपोधनैः।
ददर्श पुत्रमायान्तं स्नुषया सह कानने ॥ २१४.११ ॥
सावित्री तु वरारोहा सह सत्यवता तदा।
ववन्दे तत्र राजानं सभार्यं क्षत्रपुङ्गवम् ॥ २१४.१२ ॥
परिष्वक्तस्तदा पित्रा सत्यवान् राजनन्दनः।
अभिवाद्य ततः सर्वान् वने तस्मिस्तपोधनान् ॥ २१४.१३ ॥
उवास तत्र मां रात्रिमृषिभिः सर्वधर्मवित्।
सावित्र्यपि जगादाथ यथावृत्तमनिन्दिता ॥ २१४.१४ ॥
व्रतं समापयामास तस्यामेव यथा निशि।
ततस्तु यस्त्रियामान्ते ससैन्यस्तस्य भूपतेः ॥ २१४.१५ ॥
आजगाम जनः सर्वो राज्यार्थाय निमन्त्रिणे।
विज्ञापयामास तदा तत्र प्रकृतिशासनम् ॥ २१४.१६ ॥
विचक्षुषस्ते नृपते येन राज्यं पुरा हृतम्।
अमात्यैः स हतो राजा भवांस्तस्मिन् पुरे नृपः ॥ २१४.१७ ॥
एतच्छ्रत्वा ययौ राजा बलेन चतुरङ्गिणा।
लेभे च सकलं राज्यं धर्मराजान् महात्मनः ॥ २१४.१८ ॥
भ्रातॄणां तु शतं लेभे सावित्र्यपि वराङ्गना।
एवम्पतिव्रता साध्वी पितृपक्षं नृपात्मजा ॥ २१४.१९ ॥
उज्जहार वरारोहा भर्तृपक्षं तथैव च।
मोक्षयामास भर्तारं मृत्युपाशगतं तदा ॥ २१४.२० ॥
तस्मात्साधव्यः स्त्रियः पूज्याः सततं देववन्नरैः।
तासां राजन्! प्रसादेन धार्यते वै जगत्त्रयम् ॥ २१४.२१ ॥
तासान्तु वाक्यं भवतीह मिथ्या न जातु लोकेषु चराचरेषु।
तस्मात्सदा ताः परिपूजनीयाः सामान् समग्रानभिकामयानैः ॥ २१४.२२ ॥