२१३

सावित्र्युपाख्यानम्।
सावित्र्युवाच।
धर्मामर्मविधानज्ञ! सर्वधर्मप्रवर्त्तक!।
त्वमेव जगतो नाथः प्रजासंयमनो यमः ॥ २१३.१ ॥

कर्मणामनुरूपेण यस्माद्यमयसे प्रजा-।
तस्माद्वै प्रोच्यसे देव! यम इत्येव नामतः ॥ २१३.२ ॥

धर्मेणेमाः प्रजाः सर्वा यस्माद्रञ्जयसे प्रभो!।
तस्मात्ते धर्मराजेति नाम सद्भिर्निगद्यते ॥ २१३.३ ॥

सुकृतं दुष्कृतं चोभे पुरोधाय यदा जनाः।
त्वत्सकाशं मृता यान्ति तस्मात्त्वं मृत्युरुच्यसे ॥ २१३.४ ॥

कालं कलार्द्धं कलयन् सर्वेषां त्वं हि तिष्ठसि।
तस्मात् कालेति ते नाम प्रोच्यते तत्त्वदर्शभिः ॥ २१३.५ ॥

सर्वेषामेव भूतानां यस्मादन्तकरो महान्।
तस्मात्त्वमन्तकः प्रोक्तः सर्वदेवैर्महाद्युते! ॥ २१३.६ ॥

विवस्वतस्त्वं तनयः प्रथमं परिकीर्तितः।
तस्माद्वैवस्वतो नाम्ना सर्वलोकेषु कथ्यते ॥ २१३.७ ॥

आयुष्ये कर्मणि क्षीणे गृह्णासि प्रसभञ्जनम्।
तदा त्वं कथ्यसे लोके सर्वप्राणिहरेति वै ॥ २१३.८ ॥

तव प्रसादाद्देवेश! सङ्करो न प्रजायते।
सतां सदा गतिर्देव! त्वमेव परिकीर्तितः ॥ २१३.९ ॥

जगतोऽस्य जगन्नाथ! मर्यादापरिपालकः।
पाहिमां त्रिदशश्रेष्ठ! दुःखितां शरणागताम्
पितरौ च तथैवास्य राजपुत्रस्य दुःखितौ ॥ २१३.१० ॥

यम उवाच।
स्तवेन भक्त्या धर्मज्ञे! मया तुष्टेन सत्यवान्।
तव भर्ता विमुक्तोऽयं लब्धकामा व्रजाबले! ॥ २१३.११ ॥

राज्यं कृत्वा त्वया सार्द्धं वत्सराशीतिपञ्चकम्।
नाकपृष्ठमथारुह्या त्रिदशैः सह रंस्यते॥ २१३.१२ ॥

त्वयि पुत्रशतञ्चापि सत्यवान् जनयिष्यति।
ते चापि सर्वे राजानः क्षत्रियास्त्रिदशोपमाः ॥ २१३.१३ ॥

मुख्यास्त्वन्नाम पुत्राख्या भविष्यन्ति हि शाश्वताः।
पितुश्च ते पुत्रशतं भविता तव मातरि ॥ २१३.१४ ॥

मालव्यां मालवी नाम शाश्वताः पुत्रपौत्रिणः।
भ्रातरस्ते भविष्यन्ति क्षत्रियास्त्रिदशोपमाः ॥ २१३.१५ ॥

स्तोत्रेणानेन धर्मज्ञे! कल्पमुत्थाय यस्तु माम्।
कीर्तयिष्यति तस्यापि दीर्घमायुर्भविष्यति ॥ २१३.१६ ॥

एतावदुक्ता भगवान् यमस्तु प्रमुच्य तं राजसुतं महात्मा।
अदर्शनं तत्र यमो जगाम कालेन सार्द्धं सह मृत्युना च ॥ २१३.१७ ॥