२१०

सावित्र्युपाख्यानम्।
मत्स्य उवाच।
तस्य पाटयतः काष्ठं जज्ञे शिरसि वेदना।
स वेदनार्तः सङ्गम्य भार्या वचनमब्रवीत् ॥ २१०.१ ॥

आयासेन ममानेन जाता शिरसि वेदना।
तमश्च प्रविशामीव न च जानामि किञ्चन ॥ २१०.२ ॥

त्वदुत्सङ्गे शिरः कृत्वा स्वप्तुमिच्छामि साम्प्रतम्।
राजपुत्रीमेवमुक्त्वा तदा सुष्वाप पार्थिवः ॥ २१०.३ ॥

तदुत्सङ्गे शिरः कृत्वा निद्रयाविललोचनः।
पतिव्रता महाभागा ततः सा राजकन्यका ॥ २१०.४ ॥

ददर्श धर्मराजं तु स्वयं तं देशमागतम्।
नीलोत्पलदलश्यामं पीताम्बरधरं प्रभुम् ॥ २१०.५ ॥

विद्युल्लतानिबद्धाङ्गं सतोयमिव तोयदम्।
किरीटेनार्कवर्णेन कुण्डलैश्च विरजितम् ॥ २१०.६ ॥

हारभारर्पितोरस्कं तथाङ्गद विभूषितम्।
तथानुगम्यमानं च कालेन सह मृत्युना ॥ २१०.७ ॥

स तु सम्प्राप्य तं देशं देहात्सत्यवतस्तदा।
अङ्गुष्ठमात्रं पुरुषं पाशबद्धं वशङ्गतम् ॥ २१०.८ ॥

आकृष्य दक्षिणामाशां प्रययौ सत्वरं तदा।
सावित्र्यपि वरारोहा दृष्ट्वा तं गतजीवितम् ॥ २१०.९ ॥

अनुवव्राज गच्छन्तन्धर्मराजमतन्द्रिता।
कृताञ्जलिरुवाचाथ हृदयेन प्रवेपता ॥ २१०.१० ॥

इमं लोकं मातृभक्त्या पितृभक्त्यातु मध्यमम्।
गुरुं शुश्रूषया चैव ब्रह्मलोकं समश्नुते ॥ २१०.११ ॥

सर्वे तस्यादृता धर्मा यस्यै ते त्रय आदृताः।
अनादृतास्तु यस्यैते सर्वास्तस्याफलाः क्रियाः॥ २१०.१२ ॥

यावत्त्रयस्ते जीवेयुस्तावन्नान्यं समाचरेत्।
तेषां च नित्यं शुश्रूषां कुर्यात् प्रिय हिते रतः ॥ २१०.१३ ॥

तेषामनुपरोधेन पारतन्त्र्यं यदाऽऽचरेत्।
तत्तन्निवेदयेत्तेभ्यो मनोवचनकर्मभिः।
त्रिष्वप्येतेषु कृत्यं हि पुरुषस्य समस्यते ॥ २१०.१४ ॥

यम उवाच।
कृतेन कामेन निवर्त्तयाशु धर्मा न तेभ्योऽपि हि उच्यते च।
ममोपरोधस्तव चक्लमः स्यात्तथाऽधुना तेन तव ब्रवीमि ॥ २१०.१५ ॥

गुरुपूजरतिर्भक्ता त्वञ्च साध्वी पतिव्रता।
विनिवर्तस्व धर्मज्ञे! ग्लानिर्भवति तेऽधुना ॥ २१०.१६ ॥

सावित्र्युवाच।
पतिर्हि दैवतं स्त्रीणां पतिरेव परायणम्।
अनुगम्यः स्त्रिया साध्व्या पतिः प्राणधनेश्वरः ॥ २१०.१७ ॥

मितन्ददाति हि पिता मितं भ्राता मितं सुतः।
अमितस्य च दातारं भर्त्तारं का न पूजयेत् ॥ २१०.१८ ॥

नीयते यत्र भर्त्ता मे स्वयं वा यत्र गच्छति।
मयापि तत्र गन्तव्यं यथाशक्ति सुरोत्तम! ॥ २१०.१९ ॥

पतिमादाय गच्छन्तमनुगन्तुमहं यदा।
त्वां देव! न हि शक्ष्यामि तदा त्यक्ष्यामि जीवितम् ॥ २१०.२० ॥

मनस्विनी तु या काचित् वैधव्याक्षरदूषिता।
मुहूर्त्तमपि जीवेत मण्डनार्हा ह्यमण्डिता ॥ २१०.२१ ॥

यम उवाच
पतिव्रते! महाभागे! परितुष्टोऽस्मि ते शुभे!।
विना सत्यव्रतः प्राणैर्वरं वरय माचिरम् ॥ २१०.२२ ॥

सावित्र्युवाच।
विनष्टचक्षुषो राज्यं चक्षुषा सह कारय।
च्युतराष्ट्रस्य धर्मज्ञ! श्वशुरस्य महात्मनः ॥ २१०.२३ ॥

यम उवाच।
दूरे पथे गच्छ निवर्त भद्रे! भविष्यतीदं सकलं त्वयोक्तम्।
ममोपरोधस्तव च क्लमः स्यात्तथाधुना तेन तव ब्रवीमि ॥ २१०.२४ ॥