२०२

ऋषीणां नामगोत्रवंशप्रवरवर्णनम्।
मत्स्य उवाच।
अतः परमगस्त्यस्य वक्ष्ये वंशोद्भवान् द्विजान्।
अगस्त्यश्च करम्भश्च कौशल्यः करटस्तथा ॥ २०२.१ ॥

सुमेधसो मयोभुवस्तथा गान्धारकायणाः।
पौलस्त्याः पौलहाश्चैव क्रतुवंशभवास्तथा ॥ २०२.२ ॥

आर्षेयाभिमताश्चैषां सर्वेषां प्रवराः शुभाः।
अगस्त्यश्च महेन्द्रश्च ऋषिश्चैव मयोभुवः ॥ २०२.३ ॥

परस्परमवैवाह्या ऋषयः परिकीर्तिताः।
पौर्णमासाः पारणाश्च आर्षेयाः परिकीर्तिताः ॥ २०२.४ ॥

अगस्त्यः पौर्णमासश्च पारणश्च महातपाः।
परस्परमवैवाह्याः पौर्णमासास्तु पारणैः॥ २०२.५ ॥

एवमुक्तो ऋषीणान्तु वंश उत्तमपौरुषः।
अत परं प्रवक्ष्यामि किम्भवानद्य कथ्यताम् ॥ २०२.६ ॥

मनुरुवाच।
पुलहस्य पुलस्त्यस्य क्रतोश्चैवमहात्मनः।
अगस्त्यस्य तथा चैव कथं वंशस्तदुच्यताम् ॥ २०२.७ ॥

मत्स्य उवाच।
क्रतुः खल्वनपत्योऽभूद्राजन्वैवस्वतेऽन्तरै।
इध्मवाहं स पुत्रत्वे जग्राह ऋषिसत्तमः ॥ २०२.८ ॥

अगस्त्यपुत्रं धर्मज्ञं आगस्त्याः क्रतवस्ततः।
पुलहस्य तथा पुत्रास्त्रयश्च पृथिवीपते! ॥ २०२.९ ॥

तेषान्तु जन्म वक्ष्यामि उत्तरत्र यथाविधि।
पुलहस्तु प्रजां दृष्ट्वा नातिप्रीतमनाः स्वकाम् ॥ २०२.१० ॥

अगस्त्यजं दृढास्यन्तु पुत्रत्वे वृतवांस्ततः।
पौलहाश्च तथा राजन्! आगस्त्याः परिकीर्तिताः ॥ २०२.११ ॥

पुलस्त्यान्वयसम्भूतान् दृष्ट्वा रक्षः समुद्भवान्।
अगस्त्यस्य सुतान् धीमान् पुत्रत्वे वृतवांस्ततः ॥ २०२.१२ ॥

पौलस्त्याश्च तथा राजन्नागस्त्याः परिकीर्तिताः।
सगोत्रत्वादिमे सर्वे परस्परमनन्वयाः ॥ २०२.१३ ॥

एते तवोक्ताः प्रवरा द्विजानीं महानुभावा नृपवंशकाराः।
एषान्तु नाम्ना परिकीर्तितेन पापं समग्रं पुरुषो जहाति ॥ २०२.१४ ॥