२०१

ऋषीणामाख्याने निमेराख्यानवर्णनम्।
मत्स्य उवाच।
वसिष्ठस्तु महातेजा निमे पूर्वपुरोहितः।
बभूव पार्थिवश्रेष्ठ! यज्ञास्तस्य समन्ततः ॥ २०१.१ ॥

श्रान्तात्मा पार्थिवश्रेष्ठ! विशश्राम तदा गुरुः।
तं गत्वा पार्थिवश्रेष्ठो निमिर्वचनमब्रवीत् ॥ २०१.२ ॥

भगवन्यष्टुमिच्छामि तन्मां याजयमाचिरम्।
तमुवाच महातेजा वसिष्ठः पार्थिवोत्तमम् ॥ २०१.३ ॥

कञ्चित्कालं प्रतीक्षस्व तव यज्ञैः सुसत्तमैः।
श्रान्तोऽस्मि राजन्! विश्रम्य याजयिष्यामि ते नृपः ॥ २०१.४ ॥

एवमुक्तः प्रत्युवाच वसिष्ठं नृपसत्तम!।
पारलौकिककार्ये तु कः प्रतीक्षितुमुत्सहेत् ॥ २०१.५ ॥

न च मे सौहृदं ब्रह्मन्! कृतान्तेन बलीयसा।
धर्मकार्ये त्वरा कार्या चलं यस्माद्धि जीवितम् ॥ २०१.६ ॥

धर्मपथ्यौदनो जन्तुर्मृतोऽपि सुखमश्नुते।
श्वः कार्य्यमद्य कुर्वीत पूर्वाह्णे चापराह्निकम् ॥ २०१.७ ॥

न हि प्रतीक्षते मृत्युः कृतञ्चास्य न वा कृतम्।
क्षेत्रापणगृहासक्तमन्यत्र गतमानसम् ॥ २०१.८ ॥

वृकश्चोरणमासाद्य मृत्युरादाय गच्छति।
नैकान्तेन प्रियः कश्चित्द्वेष्य चास्य न विद्यते ॥ २०१.९ ॥

आयुष्ये कर्मणि क्षीणे प्रसह्य हरते जनम्।
प्राणवायोश्चलत्वञ्च त्वया विदितमेव च ॥ २०१.१० ॥

यदत्र जीव्यते ब्रह्मन्! क्षणमात्रन्तदद्भुतम्।
शरीरं शाश्वतं मन्ये विद्याभ्यासे धनार्जने ॥ २०१.११ ॥

अशाश्वतं धर्मकार्ये ऋणवानस्मि सङ्कटे।
सोऽहं सम्भृत सम्भारो भवन्मूलमुपागतः ॥ २०१.१२ ॥

नचेद्याजयसे मां त्वं अन्यं यास्यामि याजकम्।
एवमुक्तस्तदा तेन निमिना ब्राह्मणोत्तमः ॥ २०१.१३ ॥

शशाप तं निमिं क्रोधाद्विदेहस्त्वं भविष्यसि।
श्रान्तं मां त्वं समुत्सृज्य यस्मादन्यं द्विजोत्तमम् ॥ २०१.१४ ॥

धर्मज्ञस्तु नरेन्द्र! त्वं याजकं कर्तुमिच्छसि।
निमिस्तं प्रत्युवाचाथ धर्मकार्यरतस्य मे ॥ २०१.१५ ॥

विघ्नङ्करोषि नान्येन याजनं च तथेच्छसि।
शापं ददासि यस्मात्वं विदेहोऽथ भविष्यसि ॥ २०१.१६ ॥

एवमुक्ते तु तौ जातौ विदेहौ द्विजपार्थिवौ।
देहहीनौ तयोर्जीवौ ब्रह्मणमुपजग्मतुः ॥ २०१.१७ ॥

तावागतौ समीक्ष्याथ ब्रह्मा वचनमब्रवीत्।
अद्य प्रभृति ते स्थानं निमि जीव ददाम्यहम् ॥ २०१.१८ ॥

नेत्र पक्ष्मसु सर्वेषां त्वं वसिष्यसि पार्थिव।
त्वत् सम्बन्धात्तथा तेषां निमेषः सम्भविष्यति ॥ २०१.१९ ॥

चालयिष्यन्ति तु तदा नेत्र पक्ष्माणि मानवाः।
एवमुक्ते मनुष्याणां नेत्र पक्ष्मसु सर्वशः ॥ २०१.२० ॥

जगाम निमिजीवस्तु वरदानात् स्वयम्भुवः।
वसिष्ठ जीवं भगवान् ब्रह्मा वचनमब्रवीत् ॥ २०१.२१ ॥

मित्रावरुणयोः पुत्रो वसिष्ठ! त्वं भविष्यसि।
वसिष्ठेति च ते नाम तत्रापि च भविष्यति ॥ २०१.२२ ॥

जन्मद्वयमतीतञ्च तत्रापि त्वं स्मरिष्यसि।
एतस्मिन्नेव काले तु मित्रश्च वरुणस्तथा ॥ २०१.२३ ॥

बदर्याश्रममासाद्य तपस्तेपतुरव्ययम्।
तपस्यतोस्तयोरेवं कदाचिन्माधवे ऋतौ ॥ २०१.२४ ॥

पुष्पितद्रुमसंस्थाने शुभे द्वयितमारुते।
उर्वशी तु वरारोहा कुर्वती कुसुमोच्चयम् ॥ २०१.२५ ॥

सुसूक्ष्मरक्तवसना तयोर्दृष्टिपथङ्गता।
तां दृष्ट्वा सुमुखीं सुभ्रं नीलनीरजलोचनाम् ॥ २०१.२६ ॥

उभौ चुक्षुभतुर्धैर्यात्तद्रूपपरिमोहितौ।
तपस्यतोस्तयो वीर्यमस्खलच्च मृगासने ॥ २०१.२७ ॥

स्कन्नं रेतस्ततो दृष्ट्वा शापभीतौ परस्परम्।
चक्रतुः कलशे शुक्रं तोयपूर्णे मनोरमे ॥ २०१.२८ ॥

तस्मादृषिवरौ जातौ तेजसा प्रतिमौ भुवि।
वसिष्ठश्चाप्यगस्त्यश्च मित्रावरुणयोर्द्वयोः ॥ २०१.२९ ॥

वसिष्ठस्तूपयेमेऽथ भगिनीं नारदस्य तु।
अरुन्धतीं वरारोहां तस्यां शक्तिमजीजनत् ॥ २०१.३० ॥

शक्तेः पराशरः पुत्रस्तस्य वंशं निबोध मे।
यस्य द्वैपायनः पुत्रः स्वयं विष्णुरजायत ॥ २०१.३१ ॥

प्रकाशो जनितो येन लोके भारत चन्द्रमाः।
पराशरस्य तस्य त्वं श्रृणु वंशमनुत्तमम् ॥ २०१.३२ ॥

काण्डषपो वाहनपो जैह्मपो भौमतापनः।
गोपालिरेषां पञ्चम एते गौराः पराशराः ॥ २०१.३३ ॥

प्रपोहयावाह्य मयाः ख्याते याः कौतुजातयः।
हर्यश्विः पञ्चमो ह्येषां नीलाज्ञेयाः पराशराः ॥ २०१.३४ ॥

कार्ष्णायनाः कपि सुखाः काकेयस्था जपातयः।
पुष्करः पञ्चमश्चैषां कृष्णाज्ञेयाः पराशराः ॥ २०१.३५ ॥

आविष्टायन वालेया स्वायष्टाश्चोपयाश्च ये।
इषीकहस्ताश्चैते वै पञ्चश्वेताः पराशराः ॥ २०१.३६ ॥

पाटिको बादरिश्चैवस्तम्बा वै क्रोधनायनाः।
क्षैमिरेषां पञ्चमस्तु एते श्यामाः पराशराः ॥ २०१.३७ ॥

खल्यायनाः वार्ष्णायनास्तैलेयः खलु यूथपाः।
तन्तिरेषां पञ्चमस्तु एते धूम्राः पराशराः ॥ २०१.३८ ॥

उक्तास्तवैते नृप! वंशमुख्याः पराशराः सूर्यसमप्रभावाः।
येषां तु नाम्ना परिकीर्तितेन पापं समग्रं पुरुषो जहाति ॥ २०१.३९ ॥