२००

वशिष्ठवंशजान् विप्रान् नामगोत्रवंशप्रवरवर्णनम्।
मत्स्य उवाच।
वसिष्ठवंशजान् विप्रान् निबोध वदतो मम।
एकार्षेयस्तु प्रवरो वासिष्ठानां प्रकीर्तितः ॥ २००.१ ॥

वसिष्ठा एव वासिष्ठा अविवाह्या वसिष्ठजैः।
व्याघ्रपादा औपगवा वैक्लवाः शाद्वलायनाः ॥ २००.२ ॥

कपिष्ठला औपलोमा अलब्धाश्च षठाः कठाः।
गौपयाना बोधपाश्च दाकव्या ह्यथ वाह्यकाः ॥ २००.३ ॥

वालिशयाः पालिशयास्ततो वाग्ग्रन्थयश्चये।
आपस्थूणाः शीतवृत्ताः तथा ब्राह्म पुरेयकाः ॥ २००.४ ॥

लोमायनाः स्वस्तिकराः शाण्डिलिर्गौडिनिस्तथा।
वाडोहलिश्च सुमनाश्चोपावृद्धिस्तथैव च ॥ २००.५ ॥

चौलिर्वौलिर्ब्रह्मबलः पौलिः श्रवस एव च।
पौडवो याज्ञवल्क्यश्च एकार्षेया महर्षयः ॥ २००.६ ॥

वसिष्ठ एषां प्रवर अवैवाह्याः परस्परम्।
शैलालयो महाकर्णः कौरव्यः क्रोधिनस्तथा ॥ २००.७ ॥

कपिञ्जला वालखिल्या भागवित्तायनाश्च ये।
कीलायनः कालशिखः कोरकृष्णाः सुरायणाः ॥ २००.८ ॥

शाकाहार्याः शाकधियः काण्वा उपलपाश्च ये।
शाकायना उहाकाश्च अथ माषशरावयः ॥ २००.९ ॥

दाकायना वालवयो वाकयो गोरथास्तथा।
लम्बायनाः श्यामवयो ये चकोडोदरायणाः ॥ २००.१० ॥

प्रलम्बायनाश्च ऋषय औपमन्यव एव च।
साङ्ख्यायनाश्च ऋषयस्तथा वै वेदशेरकाः ॥ २००.११ ॥

पालङ्कायन उद्गाहा ऋषयश्च बलेक्षवः।
मातेया ब्रह्मबलिनः पर्णागारिस्तथैव च ॥ २००.१२ ॥

त्र्यार्षेयोऽभिमतश्चैषां सर्वेषां प्रवरस्तथा।
भिगीवसुर्वशिष्ठश्च इन्द्रप्रमदिरेव च ॥ २००.१३ ॥

परस्परमवैवाह्या ऋषयः परिकीर्तिताः।
औपस्थलास्वस्थलयो पालोहालो हलाश्च ये॥ २००.१४ ॥

माध्यन्दिनो माक्षतयः पैप्पलादिर्विचक्षुषः।
त्रैश्रृङ्गायन सैवल्काः कुण्डिनश्च नरोत्तम!॥ २००.१५ ॥

त्र्यार्षेयाभिमताश्चैषां सर्वेषां प्रवराः शुभाः।
वसिष्ठमित्रावरुणौ कुण्डिनश्च महातपाः ॥ २००.१६ ॥

परस्परमवैवाह्या ऋषयः परिकीर्तिताः।
शिवकर्णो वयश्चैव पादपश्च तथैव च ॥ २००.१७ ॥

त्र्यार्षेयोऽभिमतश्चैषां सर्वेषां प्रवरस्तथा।
जातूकर्ण्यो वसिष्ठश्च तथैवात्रिश्च पार्थिव !
परस्परमवैवाह्या ऋषयः परिकीर्तिताः ॥ २००.१८ ॥

वसिष्ठवंशेऽभिहिता मयैते ऋषिप्रधानाः सततं द्विजेन्द्राः।
येषां तु नाम्ना परिकीर्तितेन पापं समग्रं पुरुषो जहाति ॥ २००.१९ ॥