कश्यपवंशज-ऋषीणां नामगोत्रवंशप्रवरवर्णनम्।
मत्स्य उवाच।
मरीचेः कश्यपः पुत्रः कश्यपस्य तथा कुले।
गोत्रकारान् ऋषीन् वक्ष्ये तेषां नामानि मे श्रृणु ॥ १९९.१
आश्रायणिः ऋषिगणो मेषकीरिटकायनाः।
उदग्रजा माठराश्च भोजा विनयलक्षणाः ॥ १९९.२
शालाहलेयाः कौरिष्टाः कन्यकाश्चासुरायणाः।
मन्दाकिन्यां वै मृगयाः श्रृतया भोजयापनाः ॥ १९९.३
देवयाना गोमयानाह्यधश्छाया भयाश्च ये।
कात्यायनाः शाक्रयाणाः बर्हियोगगदायनाः ॥ १९९.४
भवनन्दि महाचक्रि दाक्षपायन एव च।
योधयानाः कार्तिवयो हस्तिदानास्तथैव च ॥ १९९.५
वात्स्यायनानि कृतजा ह्याश्वलायनिनस्तथा।
प्रागायणाः पौलमौलिराश्ववातायनस्तथा ॥ १९९.६
कौवेरकाश्च श्याकारा अग्निशर्मायणश्च ये।
मेषपाः कैकरसपास्तथा चैव तु वभ्रवः ॥ १९९.७
प्राचेयो ज्ञानसञ्ज्ञेया आग्ना प्रासेव्य एव च।
श्यामोदरा वैवशपास्तथा चैवोद्बलायनाः ॥ १९९.८
काष्ठाहारिणमारीचा आजिहायनहास्तिकाः।
वैकर्णेयाः काश्यपेयाः सासिसाहारितायनाः ॥ १९९.९
मान्तगिनश्च भृगवस्त्रयार्षेयाः परिकीर्तिताः।
वत्सरः कश्यपश्चैव निध्रवश्च महातपाः ॥ १९९.१0
परस्परमवैवाह्या ऋषयः परिकीर्तिताः।
अतः परं प्रवक्ष्यामि द्व्यामुष्यायण गोत्रजान् ॥ १९८.११
अनसूयो नाकुरयः स्नातपो राजवर्तपः।
शैशिरोदवहिश्चैव सैरन्ध्रीरोपसेवकिः ॥ १९९.१२
या मुनिः काद्रुपिङ्गाक्षिः सजातम्विस्तथैव च।
दिवावष्टाश्व इत्येते भक्त्या ज्ञेयाश्च काश्यपाः ॥ १९९.१३
त्र्यार्षेयाश्च तथैवेषां सर्वेषां प्रवराः शुभाः।
वत्सरः काश्यपश्चैव वसिष्ठश्च महातपाः ॥ १९९.१४
परस्परमवैवाह्या ऋषयः परिकीर्तिताः।
संयातिश्च नभश्चोभौ पिप्पल्योऽथ जलन्धरः ॥ १९९.१५
भुजातपूरः पूर्यश्च कर्दमो गर्द्दभीमुखः।
हिरण्यबाहुकैरातावुभौ काश्यपगोभिलौ ॥ १९९.१६
कुलहो वृषकण्डश्च मृगकेतुस्तथोत्तरः।
निदाघमसृणौ भत्स्या महान्तः केवलाश्च ये ॥ १९९.१७
शाण्डिल्यो दानवश्चैव तथा वै देवजातयः।
पैप्पलादित्स प्रवरा ऋषयः परिकीर्तिताः ॥ १९९.१८
त्र्यार्षेयाभिमताश्चैषां सर्वेषां प्रवराः शुभाः।
असितो देवलश्चैव कश्यपश्च महातपाः ।
परस्परमवैवाह्या ऋषयः परिकीर्तिताः ॥ १९९.१९
ऋषिप्रधानस्य च कश्यपस्य दाक्षायणीभ्यः सकलं प्रसूतम्।
जगत्समग्रं मनुसिंह पुण्यं किं ते प्रवक्ष्याम्यहमन्तरेण ॥ १९९.२0