नर्मदामाहात्म्ये नानाविधतीर्थमाहात्म्यवर्णनम्।
मार्कण्डेय उवाच।
ततो गच्छेत्तु राजेन्द्र! ह्यङ्कुशेखरमुत्तमम्।
दर्शनात्तस्य देवस्य मुच्यते सर्वपातकैः ॥ १९४.१
ततो गच्छेच्च राजेन्द्र! नर्मदेश्वरमुत्तमम्।
तत्र स्नात्वा नरो राजन्! स्वर्गलोके महीयते ॥ १९४.२
अश्वतीर्थं ततो गच्छेत् स्नानं तत्र समाचरेत्।
सुभगो दर्शनीयश्च भोगवान् जायते नरः ॥ १९४.३
पितामहं ततो गच्छेत् ब्रह्मणा निर्मितं पुरा।
तत्र स्नात्वा नरो भक्त्या पितृपिण्डन्तु दापयेत् ॥ १९४.४
तिलदर्भविमिश्रन्तु ह्युदकं तत्र दापयेत्।
तस्य तीर्थप्रभावेण सर्वं भवति चाक्षयम् ॥ १९४.५
सावित्री तीर्थमासाद्य यस्तु स्नानं समाचरेत्।
विधूय सर्वपापानि ब्रह्मलोके महीयते ॥ १९४.६
मनोहरं ततो गच्छेत् तीर्थं परमशोभनम्।
तत्र स्नात्वा नरो राजन्! पितृलोके महीयते ॥ १९४.७
ततो गच्छेत्तु राजेन्द्र! मानसं तीर्थमुत्तमम्।
तत्र स्नात्वा नरो राजन्! रुद्रलोके महीयते ॥ १९४.८
ततो गच्छेच्च राजेन्द्र! कुञ्जतीर्थमनुत्तमम्।
विख्यातं त्रिषु लोकेषु सर्वपापप्रणाशनम् ॥ १९४.९
यान्यान्कामयते कामान् पशुपुत्रधनानि च।
प्राप्नुयात्तानि सर्वाणि तत्र स्नात्वा नराधिप ॥ १९४.१०
ततो गच्छेत्तु राजेन्द्र! त्रिदशज्योति विश्रुतम्।
यत्र ता ऋषिकन्यास्तु तपोऽतप्यन्त सुव्रताः ॥ १९४.११
भर्ता भवतु सर्वासामीश्वरः प्रभुरव्ययः।
प्रीतस्तासां महादेवो दण्डरूपधरो हरः ॥ १९४.१२
विकृताननबीभत्सुर्व्रती तीर्थमुपागतः।
तत्र कन्यां महाराज! वरयन् परमेश्वरः ॥ १९४.१३
कन्यां ऋषेर्वरयतः कन्यादानं प्रदीयताम्।
तीर्थं तत्र महाराज! ऋषिकन्येति विश्रुतम् ॥ १९४.१४
तत्र स्नात्वा नरो राजन्! सर्वपापैः प्रमुच्यते।
ततो गच्छेच्च राजेन्द्र! स्वर्णविन्दुत्विति स्मृतम् ॥ १९४.१५
तत्र स्नात्वा नरो राजन्! दुर्गतिं न च पश्यति।
अप्सरेशं ततो गच्छेत् स्नानं तत्र समाचरेत् ॥ १९४.१६
क्रीडते नागलोकस्थो ह्यप्सरैः सह मोदते।
ततो गच्छेत्तु राजेन्द्र! नरकं तीर्थमुत्तमम् ॥ १९४.१७
तत्र स्नात्वार्चयेद्देवं नरकं च न पश्यति।
भारभूति ततो गच्छेदुपवासपरो जनः ॥ १९४.१८
एतत्तीर्थं समासाद्य चावतारं तु शाम्भवम्।
अर्चयित्वा विरूपाक्षं रुद्रलोके महीयते ॥ १९४.१९
अस्मिस्तीर्थे नरः स्नात्वा भारभूतौ महात्मनः।
यत्र तत्र मृतस्यापि ध्रुवं गाणेश्वरी गतिः ॥ १९४.२०
कार्तिकस्य तु मासस्य ह्यर्चयित्वा महेश्वरम्।
अश्वमेधाद्दशगुणं प्रवदन्ति मनीषिणः ॥ १९४.२१
दीपकानां शतं तत्र घृतपूर्णन्तु दापयेत्।
विमानैः सूर्य्यसङ्काशैर्व्रजते यत्र शङ्करः ॥ १९४.२२
वृषभं यः प्रयच्छेत्तु शङ्खकुन्देन्दुसप्रभम्।
वृषयुक्तेन यानेन रुद्रलोकं स गच्छति ॥ १९४.२३
धेनुमेकान्तु यो दद्यात्तस्मिंस्तीर्थे नराधिप।
पायसं मधुसंयुक्तं भक्ष्याणि विविधानि च ॥ १९४.२४
यथाशक्त्या च राजेन्द्र! ब्राह्मणान् भोजयेत्ततः।
तस्य तीर्थप्रभावेण सर्वं कोटिगुणं भवेत् ॥ १९४.२५
नर्म्मदाया जलं पीत्वा ह्यर्चयित्वा वृषध्वजम्।
दुर्गतिञ्च न पश्यति तस्मिंस्तीर्थे नराधिप! ॥ १९४.२६
हंसयुक्तेन यानेन रुद्रलोकं स गच्छति।
यावच्चन्द्रश्च सूर्यश्च हिमवांश्च महोदधिः ॥ १९४.२७
गङ्गाद्याः सरितो यावत्तावत् स्वर्गे महीयते।
अनाशकन्तु यः कुर्यात्तस्मिंस्तीर्थे नराधिप ॥ १९४.२८
गर्भवासे तु राजेन्द्र! न पुनर्जायते पुमान्।
ततो गच्छेत्तु राजेन्द्र! आषाढी तीर्थमुत्तमम् ॥ १९४.२९
तत्र स्नात्वा नरो राजन्निन्द्रस्यार्द्धासनं लभेत्।
स्त्रियास्तीर्थं ततो गच्छेत् सर्वपापप्रणाशनम् ॥ १९४.३०
तत्रापि स्नातमात्रस्य ध्रुवं गाणेश्वरी गतिः।
ऐरण्डीनर्म्मदायोश्च सङ्गमं लोकविश्रुतम् ॥ १९४.३१
तच्च तीर्थं महापुण्यं सर्वपापप्रणाशनम्।
उपवासपरो भूत्वा नित्यव्रतपरायणः ॥ १९४.३२
तत्र स्नात्वा तु राजेन्द्र! मुच्यते ब्रह्महत्यया।
ततो गच्छेच्च राजेन्द्र! नर्म्मदो दधिसङ्गमम् ॥ १९४.३३
जामदग्न्यमिति ख्यातं सिद्धो यत्र जनार्दनः।
यत्रेष्ट्वा बहुभिर्यज्ञैरिन्द्रो देवाधिपोऽभवत् ॥ १९४.३४
तत्र स्नात्वा तु राजेन्द्र! नर्म्मदो दधिसङ्गमे।
त्रिगुणं चाश्वमेधस्य फलं प्राप्नोति मानवः ॥ १९४.३५
पश्चिमस्योदधेः सन्धौ स्वर्गद्वारविघट्टनम्।
तत्र देवाः सगन्धर्वा ऋषयः सिद्धचारणाः ॥ १९४.३६
आराधयन्ति देवेशं त्रिसन्ध्यं विमलेश्वरम्।
तत्र स्नात्वा नरो राजन्! रुद्रलोके महीयते ॥ १९४.३७
विमलेशं परं तीर्थं न भूतं न भविष्यति।
तत्रोपवासं कृत्वा ये पश्यन्ति विमलेश्वरम् ॥ १९४.३८
सप्तजन्मकृतं पापं हित्वा यान्त्यमरालयम्।
ततो गच्छेत्तु राजेन्द्र! कौशिकी तीर्थमुत्तमम् ॥ १९४.३९
तत्र स्नात्वा नरो राजन् उपवासपरायणः।
उपोष्य रजनीमेकां नियतो नियताशनः ॥ १९४.४०
एतत्तीर्थप्रभावेण मुच्यते ब्रह्महत्यया।
सर्वतीर्थाभिषेकन्तु यः पश्येत् सागरेश्वरम् ॥ १९४.४१
योजनाभ्यन्तरे तिष्ठन्नावर्त्ते संस्थितः शिवः।
तं दृष्ट्वा सर्वतीर्थानि दृष्टान्येव न संशयः ॥ १९४.४२
सर्वपापविनिर्मुक्तो यत्र रुद्रः स गच्छति।
नर्म्मदासङ्गमं यावद् यावच्चामरकण्टकम् ॥ १९४.४३
अत्रान्तरे महाराज! तीर्थकोट्यो दशस्मृताः।
तीर्थात्तीर्थान्तरं यत्र ऋषिकोटि निषेवितम् ॥ १९४.४४
साग्निहोत्रैस्तु विद्वद्भिः सर्वैर्ध्यानपरायणैः।
सेवितानेन राजेन्द्र! त्वीप्सितार्थप्रदायिका ॥ १९४.४५
यस्त्विदं वै पठेन्नित्यं शृणुयाद्वापि भावतः।
तस्य तीर्थानि सर्वाणि ह्यभिषिञ्चन्ति पाण्डव! ॥ १९४.४६
नर्म्मदा च सदा प्रीता भवेद्वै नात्र संश्यः।
प्रीतस्तस्य भवेद्रुद्रो मार्कण्डेयो महामुनिः ॥ १९४.४७
वन्ध्या चैव लभेत् पुत्रान् दुर्भगा सुभगा भवेत्।
कन्या लभेत भर्तारं यश्च वाञ्छेत् तु यत् फलम् ॥ १९४.४८
तदेव लभते सर्वं नात्र कार्या विचारणा।
ब्राह्मणो वेदमाप्नोति क्षत्रियो विजयी भवेत् ॥ १९४.४९
वैश्यस्तु लभते लाभं शूद्रः प्राप्नोति सद्गतिम्।
मूर्खस्तु लभते विद्यां त्रिसन्ध्यं यः पठेन्नरः।
नरकञ्च न पश्येत्तु वियोगञ्च न गच्छति ॥ १९४.५०