१९३

नर्मदामाहात्म्ये नानाविधतीर्थमाहात्म्यवर्णनम्।

मार्कण्डेय उवाच।
ततस्त्वनरकं गच्छेत् स्नानं तत्र समाचरेत्।
स्नातमात्रो नरस्तत्र नरकञ्च न पश्यति॥ १९३.१

तस्य तीर्थस्य माहात्म्यं श्रृणु त्वं पाण्डुनन्दन!।
तस्मिंस्तीर्थे तु राजेन्द्र! यस्यास्थीनि विनिक्षिपेत् ॥ १९३.२

विलयं यान्ति सर्वाणि रूपवान् जायते नरः।
गोतीर्थन्तु ततो गत्वा सर्वपापात् प्रमुच्यते ॥ १९३.३

ततो गच्छेत्तु राजेन्द्र कपिलातीर्थमुत्तमम्।
तत्र गत्वा नरो राजन्! गोसहस्रफलं लभेत् ॥ १९३.४

ज्यैष्ठमासे तु सम्प्राप्ते चतुर्दश्यां विशेषतः।
तत्रोपोष्य नरो भक्त्या कपिलां यः प्रयच्छति ॥ १९३.५

घृतेन दीपं प्रज्वाल्य घृतेन स्नापयेच्छिवम्।
सघृतं श्रीफलं जग्ध्वा दत्त्वा चान्ते प्रदक्षिणम् ॥ १९३.६

घण्टाभरणसंयुक्तां कपिलां यः प्रयच्छति।
शिवतुल्यबलो भूत्वा नैवासौ जायते पुनः ॥ १९३.७

अङ्गारकदिने प्राप्ते चतुर्थ्यां तु विशेषतः।
पूजयेत्तु शिवं भक्त्या ब्राह्मणेभ्यश्च भोजनम् ॥ १९३.८

अङ्गारकनवम्यां तु अमायाञ्च विशेषतः।
स्नापयेत्तत्र यत्नेन रूपवान् सुभगो भवेत् ॥ १३३.९

घृतेन स्नापयेल्लिङ्गं पूजयेद् भक्तितो द्विजान्।
पुष्पकेण विमानेन सहस्रैः परिवारितः ॥ १९३.१०

शैवं पदमवाप्नोति यत्र चाभिमतं भवेत्।
अक्षयं मोदते कालं यथा रुद्रस्तथैव सः ॥ १९३.११

यदा तु कर्मसंयोगान्मर्त्यलोकमुपागतः।
राजा भवति धर्मिष्ठो रूपवान् जायते कुले ॥ १९३.१२

ततो गच्छेच्च राजेन्द्र! ऋषितीर्थमनुत्तमम्।
तृणबिन्दुर्नाम ऋषिः पापदग्धो व्यवस्थितः ॥ १९३.१३

तत्तीर्थस्य प्रभावेण शापमुक्तोऽभवद्द्विजः।
तथा गच्छेत्तु राजेन्द्र! गङ्गेश्वरमनुत्तमम् ॥ १९३.१४

श्रावणे तर्पणं कृत्वा मुच्यते च ऋणत्रयात्।
गङ्गेश्वरसमीपे तु गङ्गावदनमुत्तमम् ॥ १९३.१५

पितॄणां तर्पणं कृत्वा मुच्यते च ऋणत्रयात्।
गङ्गेश्वरसमीपे तु गङ्गावदनमुत्तमम् ॥ १९३.१६

अकामो वा सकामो वा तत्र स्नात्वा तु मानवः।
आजन्मजनितैः पापैर्मुच्यते नात्र संशयः ॥ १९३.१७

तत्र तीर्थे नरः स्नात्वा व्रजेद्वै यत्र शङ्करः।
सर्वदा पर्वदिवसे स्नानं तत्र समाचरेत् ॥ १९८.१८

पितॄणां तर्पणं कृत्वा ह्यश्वमेधफलं लभेत्।
प्रयागे यत् फलं दृष्टं शङ्करेण महात्मना ॥ १९३.१९

तदेव निखिलं दृष्टं गङ्गावदनसङ्गमे।
तस्यैव पश्चिमे स्थाने समीपे नातिदूरतः ॥ १९३.२०

दशाश्वमेधजननं त्रिषु लोकेषु विश्रुतम्।
उपोष्य रजनीमेकां मासि भाद्रपदे तथा ॥ १९३.२१

अमायाञ्च नरः स्नात्वा व्रजते यत्र शङ्करः।
सर्वदा पर्वदिवसे स्नानं तत्र समाचरेत् ॥ १९३.२२

पितॄणां तर्पणं कृत्वा चाश्वमेधफलं लभेत्।
दशाश्वमेधात् पश्चिमतो भृगुर्ब्राह्मणसत्तमः ॥ १९३.२३

दिव्यं वर्षसहस्रन्तु ईस्वरं पर्युपासत।
वल्मीकवेष्टितश्चासौ पक्षिणाञ्च निकेतनः ॥ १९३.२४

आश्चर्यं सुमहज्जातमुमायाः शङ्करस्य च।
गौरी पप्रच्छ देवेशं कोऽयमेवन्तु संस्थिता(तः) ॥ १९३.२५

देवो वा दानवो वाथ कथयस्व महेश्वर!।
महेश्वर उवाच।
भृगुर्नाम द्विजश्रेष्ठ ऋषीणां प्रवरो मुनिः ॥ १९३.२६

मान्ध्यायते समाधिस्थो वरं प्रार्थयते प्रिये!।
ततः प्रहसिता देवी ईश्वरं प्रत्यभाषत॥ १९३.२७

धूमवत्तच्छिखाजाता ततोऽद्यापि न तुष्यसे।
दुराराध्योऽसि तेन त्वं नात्र कार्या विचारणा ॥ १९३.२८

महेश्वर उवाच।
न जानासि महादेवि ह्ययं क्रोधेन वेष्टितः।
दर्शयामि यथातथ्यं प्रत्ययं ते करोम्यहम् ॥ १९३.२९

ततः स्मृतोऽथ देवेन धर्म्मरूपो वृषस्तदा।
स्मरणात्तस्य देवस्य वृषः शीघ्रमुपस्थितः ॥ १९३.३०

वदंस्तु मानुषीं वाचमादेशो दीयतां प्रभो!।
वल्मीकं त्वं खनस्वैनं विप्रं भूमौ निपातय ॥ १९३.३१

योगस्थस्तु ततो ध्यायन् भृगुस्तेन निपातितः।
तत्क्षणात् क्रोधसन्तप्तो हस्तमुत्क्षिप्य सोऽशपत् ॥ १९३.३२

एवं स भाषमाणस्तु कुत्र गच्छसि भो वृष!।
अद्याहं सम्प्रकोपेन प्रलयं त्वान्नये वृष! ॥ १९३.३३

धर्षितस्तु तदा विप्रश्चान्तरिक्षङ्गतो वृषम्।
आकाशे प्रेक्षते विप्र एतदद्भुतमुत्तमम् ॥ १९३.३४

तत्र प्रहसिते रुद्र ऋषिरग्रे व्यवस्थितः।
तृतीयलोचनं दृष्ट्वा वैलक्ष्यात् पतितो भुवि ॥ १९३.३५

प्रणम्य दण्डवद् भूमौ तुष्टाव परमेश्वरम्।
प्रणिपत्य भूतनाथं भवोद्भवं त्वामहं दिव्यरूपम्
भवातीतो भुवनपते प्रभो! तु विज्ञापये किञ्चित् ॥ १९३.३६

त्वद्गुणनिकरान् वक्तुं कः शक्तो भवति मानुषो नाम।
वासुकिरपि हि कदाचिद्वदनसहस्रं भवेद्यस्य ॥ १९३.३७

भक्त्या तथापि शङ्कर भुवनपते! त्वत्सुतो मुखरः।
वदतः क्षमस्व भगवन्! प्रसीद मे तव चरणपतितस्य ॥ १९३.३८

सत्वं रजस्तमस्त्वं स्थित्युत्पत्योर्विनाशने देव!।
त्वां मुक्त्वा भुवनपते! भुवनेश्वर नैव दैवतं किञ्चित् ॥ १९३.३९

यमनियमयज्ञदानवेदाभ्यासाश्च धारणा योगः।
त्वद्भक्तेः सर्वमिदं नार्हति हि कलासहस्रांशम् ॥ १९३.४०

उच्छिष्टरसरसायनखड्गाजनपादुका विवरसिद्धिर्वा।
चिह्नं भवव्रतानां दृश्यति चेह जन्मनि प्रकटम् ॥ १९३.४१

शाठ्येन नमति यद्यपि ददासि त्वं भूतिमिच्छतो देव!।
भक्तिर्भवभेदकरी मोक्षाय विनिर्मिता नाथ ॥ १९३.४२

परदारपरस्वरतं परपरिभवदुःखशोकसन्तप्तम्।
परवदनवीक्षणपरं परमेश्वर!। मां परित्राहि ॥ १९३.४३

मिथ्याभिमानदग्धं क्षणभङ्गुरविभवविलसन्तम्।
क्रूरं कुपथ्याभिमुखं पतितं मां पाहि देवेश! ॥ १९३.४४

दीने द्विजगणसार्थे बन्धुजनेनैव दूषिता ह्याशा।
तृष्णा तथाऽपि शङ्कर! किं मूढं मां विडम्बयति ॥ १९३.४५

तृष्णा हरस्व शीघ्रं लक्ष्मीं प्रदस्व यावदासिनीं नित्यम्।
छिन्धि मदमोहपाशानुत्तारय मां महादेव! ॥ १९३.४६

करुणाभ्युदयं नाम स्तोत्रमिदं सर्वसिद्धिदं दिव्यम्।
यः पठति भक्तियुक्तस्तस्य तुष्येत् भृगोर्यथा च शिवः ॥ १९३.४७

ईश्वर उवाच।
अहं तुष्टोऽस्मि ते वत्स! प्रार्थयस्वेप्सितं वरम्।
उमया सहितो देवो वरं तस्य ह्यदापयत् ॥ १९३.४८

भृगुरुवाच।
यदि तुष्टोसि देवेश! यदि देयो वरो मम।
रुद्रवेदी भवेदेवमेतत्सम्पादयस्व मे ॥ १९३.४९

ईश्वर उवाच।
एवं भवतु विप्रेन्द्र! क्रोधस्त्वा न भविष्यति।
न पितापुत्रयोश्चैव त्वैकमत्यं भविष्यति ॥ १९३.५०

तदा प्रभृति ब्रह्माद्या सर्वदेवाः सकिन्नराः।
उपासन्ते भृगोस्तीर्थं तुष्टो यत्र महेश्वरः ॥ १९३.५१

दर्शनात्तस्य तीर्थस्य सद्यः पापत् प्रमुच्यते।
अवशाः स्ववशा वापि म्रियन्ते यत्र मानवाः ॥ १९३.५२

गुह्यातिगुह्यासु गतिस्तेषां निःसंशयं भवेत्।
एतत् क्षेत्रं सुविपुलं सर्वपापप्रणाशनम् ॥ १९३.५३

तत्र स्नात्वा दिवं यान्ति ये मृतास्ते पुनर्भवाः।
उपानहौच छत्रञ्च देवमन्नञ्च काञ्चनम् ॥ १९३.५४

भोजनञ्च यथाशक्त्या ह्यक्षयञ्च तथा भवेत्।
सूर्योपरागे यो दद्याद्दानं चैव यथेच्छया ॥ १९३.५५

दीयमानस्तु तद्दानमक्षयं तस्य तद् भवेत्।
चन्द्रसूर्योपरागेषु यत् फलं त्वमरकण्टके ॥ १९३.५६

तदेव निखिलं पुण्यं भृगुतीर्थे न संश्यः।
क्षरन्ति सर्वदानानि यज्ञदानतपः क्रियाः ॥ १९३.५७

न क्षरेत्तु तपस्तप्तं भृगुतीर्थे युधिष्ठिरः।
यस्य वै तपसोग्रेण तुष्टेनैव तु शम्भुना ॥ १९३.५८
सान्निध्यं तत्र कथितं भृगुतीर्थे नराधिप!।
प्रख्यातं त्रिषु लोकेषु यत्र तुष्टो महेश्वरः ॥ १९३.५९

एवं तु वदतो देवीं भृगुतीर्थमनुत्तमम्।
न जानन्ति नरा मूढा विष्णुमाया विमोहिताः ॥ १९३.६०

नर्म्मदायां स्थितं दिव्यं भृगुतीर्थं नराधिप!।
भृगुतीर्थस्य माहात्म्यं यः श्रृणोति नरः क्वचित् ॥ १९३.६१

विमुक्तः सर्वपापेभ्यो रुद्रलोकं स गच्छति।
ततो गच्छेत्तु राजेन्द्र! गौतमेश्वरमुत्तमम् ॥ १९३.६२

तत्र स्नात्वा नरो राजन्नुपवासपरायणः।
काञ्चनेन विमानेन ब्रह्मलोके महीयते ॥ १९३.६३

धौतपापं ततो गच्छेत् क्षेत्रं यत्र वृषेण तु।
नर्म्मदायां कृतं राजन्! सर्वपातकनाशनम् ॥ १९३.६४

तत्र तीर्थे नरः स्नात्वा ब्रह्महत्यां विमुञ्चति।
तस्मिंस्तीर्थे तु राजेन्द्र! प्राणत्यागं करोति यः ॥ १९३.६५

चतुर्भुजस्त्रिनेत्रश्च शिवतुल्यबलो भवेत्।
वसेत् कल्पायुतं साग्रं शिवतुल्यपराक्रमः ॥ १९३.६६

कालेनमहता प्राप्तः पृथिव्यामेकराट् भवेत्।
ततो गच्छेच्च राजेन्द्र! ऐरण्डी तीर्थमुत्तमम् ॥ १९३.६७
प्रयागे यत् फलं दृष्टं मार्कण्डेयेन भाषितम्।
तत् फलं लभते राजन्! स्नातमात्रो हि मानवः ॥ १९३.६८

मासि भाद्रपदे चैव शुक्लपक्षे चतुर्दशी।
उपोष्य रजनीमेकां तस्मिन् स्नानं समाचरेत् ॥ १९३.६९

यमदूतैर्न बाध्येत रुद्रलोकं स गच्छति।
ततो गच्छेत्तु राजेन्द्र! सिद्धो यत्र जनार्दनः ॥ १९३.७०

हिरण्यदीपेति विख्यातं सर्वपापप्रणाशनम्।
तत्र स्नात्वा नरो राजन्! धनवान् रूपवान् भवेत् ॥ १९३.७१

ततो गच्छेत्तु राजेन्द्र! तीर्थङ्कनखलं महत्।
गरुडेन तपस्तप्तं तस्मिंस्तीर्थे नराधिप ॥ १९३.७२

प्रख्यातं त्रिषु लोकेषु योगिनी तत्र तिष्ठति।
क्रीडते योगिभिः सार्द्धं शिवेन सह नृत्यति ॥ १९३.७३

तत्र स्नात्वा नरो राजन्! रुद्रलोके महीयते।
ततो गच्छेत्तु राजेन्द्र! हंसतीर्थमनुत्तमम् ॥ १९३.७४

हंसास्तत्र विनिर्मुक्ता गता ऊद्‌र्ध्वं न संशयः।
ततो गच्छेत्तु राजेन्द्र! सिद्धो यत्र जनार्दनः ॥ १९३.७५

वाराहं रुपमास्थाय अर्चितः परमेश्वरः।
वराहतीर्थे नरः स्नात्वा द्वादश्यान्तु विशेषतः ॥ १९३.७६

विष्णुलोकमवाप्नोति नरकं न च पश्यति।
ततो गच्छेत्तु राजेन्द्र! चन्द्रदीर्थमनुत्तमम् ॥ १९३.७७

पौर्णमास्यां विशेषेण स्नानं तत्र समाचरेत्।
स्नातमात्रो नरस्तत्र चन्द्रलोके महीयते ॥ १९३.७८

दक्षिणेन तु तीरेण कन्यातीर्थन्तु विश्रुतम्।
शुक्लपक्षे तृतीयायां स्नानं तत्र समारेत् ॥ १९३.७९

प्रणिपत्य तु चेशानं बलिस्तेन प्रसीदति।
हरिश्चन्द्रपुरं दिव्यमन्तरिक्षे च दृश्यते ॥ १९३.८०

शक्रध्वजे समावृत्ते सुप्ते नागरिके जने।
नर्मदा सलिलौघेन तरून् सम्प्लावयिष्यति ॥ १९३.८१

अस्मिन् स्थाने निवासः स्यात् विष्णुः शङ्करमब्रबीत्।
दीपेश्वरे नरः स्नात्वा लभेद् बहु सुवर्णकम् ॥ १९३.८२

ततो गच्छेत्तु राजेन्द्र! कन्यातीर्थे सुसङ्गमे।
स्नातमात्रो नरस्तत्र देव्याः स्थानमवाप्नुयात् ॥ १९३.८३

देवतीर्थं ततो गच्छेत् सर्वतीर्थमनुत्तमम्।
तत्र स्नात्वा तु राजेन्द्र! दैवतैः सह मोदते ॥ १९३.८४

ततो गच्छेच्च राजेन्द्र! शिखि तीर्थमनुत्तमम्।
यत्तत्र दीयते दानं सर्वं कोटिगुणं भवेत् ॥ १९३.८५

अपरपक्षे त्वमायान्तु स्नानं तत्र समाचरेत्।
ब्राह्मणं भोजयेदेकं कोटिर्भवति भोजिता ॥ १९३.८६

भृगुतीर्थन्तु राजेन्द्र! तीर्थकोटिर्व्यवस्थिता।
आकामो व सकामो वा तत्र स्नानं समाचरेत् ॥ १९३.८७

अश्वमेधमवाप्नोति दैवतैः सह मोदते।
तत्र सिद्धिं परां प्राप्तो भृगुस्तु मुनिपुङ्गवः।
अवतारः कृतस्तत्र शङ्करेण महात्मना ॥ १९३.८८