नर्मदामाहात्म्ये नानाविधतीर्थमाहात्म्यकथनम्।
मार्कण्डेय उवाच।
भार्गवेशं ततो गच्छेत् भग्नो यत्र जनार्दनः।
असुरैस्तु महायुद्धे महाबलपराक्रमैः ॥ १९२.१
हुङ्कारितास्तु देवेन दानवाः प्रलयङ्गताः।
तत्र स्नात्वा तु राजेन्द्र! सर्वपापैः प्रमुच्यते ॥ १९२.२
शुक्लतीर्थस्य चोत्पत्तिं श्रृणु त्वं पाण्डुनन्दन!
हिमवच्छिखरे रम्ये नानाधातु-विचित्रिते ॥ १९२.३
तरुणादित्यसङ्कारो तप्तकाञ्चनसप्रभे।
वज्रस्फटिकसोपाने चित्रवेदी शिलातले ॥ १९२.४
जाम्बूनदमये दिव्ये नानापुष्पोपशोभिते।
तत्रासीनं महादेवं सर्वज्ञं प्रभुमव्ययम् ॥ १९२.५
लोकानुग्रहदं शान्तं गणवृन्दैः समावृतम्।
स्कन्दनन्दिमहाकालैर्वीरभद्रगणादिभिः ॥ १९२.६
उमया सहितं देवं मार्कण्डिः पर्यपृच्छत।
देवदेव महादेव ब्रह्मविष्ण्विन्द्रसंस्तुत! ॥ १९२.७
संसारभयभीतोऽहं सुखोपायं ब्रवीहि मे।
भगवन्! भूतभव्येश! सर्वपापप्रणाशनम् ॥ १९२.८
तीर्थानां परमं तीर्थं तद्वदस्व महेश्वर!।
ईश्वर उवाच।
श्रृणु विप्र! महाप्राज्ञ! सर्वशास्त्रविशारद!।
स्नानाय गच्छसुभग! ऋषिसङ्घैः समावृतः॥ १९२.९
मन्वत्रिकश्यपाश्चैव याज्ञवल्क्योशनोऽङ्गिराः।
यमापस्तम्बसंवर्ताः कात्यायनबृहस्पती ॥ १९२.१०
नारदो गौतमश्चैव सेवन्ते धर्म्मकाङ्क्षिणः।
गङ्गां कनखलं पुण्यं प्रयागं पुष्करं गयाम् ॥ १९२.११
कुरुक्षेत्रं महापुण्यं राहुग्रस्ते दिवाकरे।
दिवा वा यदि वा रात्रौ शुक्लतीर्थं महाफलम् ॥ १९२.१२
दर्शनात् स्पर्शनाच्चैव स्नानाद्दानात्तपोजपात्।
होमाच्चैवोपवासाच्च शुक्लतीर्थं महाफलम् ॥ १९२.१३
शुक्लतीर्थं महापुण्यं नर्म्मदायां व्यवस्थितम्।
चाणक्यो नाम राजर्षिः सिद्धिं तत्र समागतः ॥ १९२.१४
एतत् क्षेत्रं सुविपुलं योजनं वृत्तसंस्थितम्।
शुक्लतीर्थं महापुण्यं सर्वपापप्रणाशनम् ॥ १९२.१५
पादपाग्रेण दृष्टेन ब्रह्महत्यां व्यपोहति।
जगती दर्शनाच्चैव भ्रूणहत्यां व्यपोहति ॥ १९२.१६
अहं तत्र ऋषिश्रेष्ट! तिष्ठामि ह्युमया सह।
वैशाखे चैत्रमासे तु कृष्णपक्षे चतुर्दशी॥ १९२.१७
कैलासाच्चापि निष्क्रम्य तत्र सन्निहितो ह्यहम्।
दैत्यदानवगन्धर्वाः सिद्धविद्याधरास्तथा ॥ १९२.१८
गणाश्चाप्सरसो नागाः सर्वे देवाः समागताः।
गगनस्था तु तिष्ठन्ति विमानैः सार्वकामिकैः ॥ १९२.१९
शुक्लतीर्थं तु राजेन्द्र! ह्यागता धर्मकाङ्क्षिणः।
रजकेन यथा वस्त्रं शुक्लम्भवति वारिणा ॥ १९२.२०
आजन्मजनितं पापं शुक्लतीर्थं व्यपोहति।
स्नानं दानं महापुण्यं मार्कण्डे ऋषिसत्तम॥ १९२.२१
शुक्लतीर्थात् परं तीर्थं न भूतं न भविष्यति।
पूर्वे वयसि कर्माणि कृत्वा पापानि मानवः ॥ १९२.२२
अहोरात्रोपवासेन शुक्लतीर्थे व्यपोहति।
तपसा ब्रह्मचर्येण यज्ञैर्दानेन वा पुनः ॥ १९२.२३
देवार्चनेन या पुष्टिर्न सा क्रतुशतैरपि।
कार्तिकस्यतु मासस्य कृष्णपक्षे चतुर्दशी ॥ १९२.२४
घृतेन स्नापयेद्देवमुपोष्य परमेश्वरम्।
एकविंशकुलोपेतो न च्यवेदैश्वरात् पदात् ॥ १९२.२५
शुक्लतीर्थं महापुण्यमृषिसिद्धनिषेवितम्।
तत्र स्नात्वा नरो राजन्! न पुनर्जन्मभाक् भवेत् ॥ १९२.२६
स्नात्वा वै शुक्लतीर्थे तु ह्यर्चयेत् वृषभध्वजम्।
कपालपूरणं कृत्वा तुष्यत्यत्र महेश्वरः ॥ १९२.२७
अर्द्धनारीश्वरं देवं पटे भक्त्या लिखापयेत्।
शङ्खतूर्यनिनादैश्च ब्रह्मघोषैश्च सद्विजैः ॥ १९२.२८
जागरं कारयेत्तत्र नृत्यगीतादिमङ्गलैः।
प्रभाते शुक्लतीर्थे तु स्नानं वै देवतार्चनम् ॥ १९२.२९
आचार्यान् भोजयेत् पश्चाच्छिवव्रतपरान् शुचीन्।
दक्षिणाञ्च यथाशक्ति वित्तशाठ्यं विवर्जयेत् ॥ १९२.३०
प्रदक्षिणं ततः कृत्वा शनैर्देवान्तिकं व्रजेत्।
एवं वै कुरुते यस्तु तस्य पुण्यफलं श्रृणु। १९२.३१
दिव्ययानं समारुढो गीयमानोऽप्सरोगणैः।
शिवतुल्य बलोपेतस्तिष्ठत्याभूतसम्प्लवम् ॥ १९२.३२
शुक्लतीर्थे तु या नारी ददाति कनकं शुभम्।
घृतेन स्नापयेद्देवं कुमारं चापि पूजयेत्॥ १९२.३३
एवं या कुरुते भक्त्या तस्याः पुण्यफलं श्रृणु।
मोदते शर्वलोकस्था यावदिन्द्राश्चतुर्दश ॥ १९२.३४
पौर्णमास्यां चतुर्दश्यां सङ्क्रान्तौ विषुवे तथा।
स्नात्वा तु सोपवासः सन् विजितात्मा समाहितः ॥ १९२.३५
दानं दद्याद्यथाशक्त्या प्रीयेता हरिशङ्करौ।
एवं तीर्थप्रभावेण सर्वं भवति चाक्षयम् ॥ १९२.३६
अनाथं दुर्गतं विप्रं नाथवन्तमथापि वा।
उद्वाहयति यस्तीर्थे तस्य पुण्यफलं श्रृणु॥ १९२.३७
यावत्तद्रोमसङ्ख्या च तत्प्रसूतिकुलेषु च।
तावद्वर्षसहस्राणि शिवलोके महीयते ॥ १९२.३८