नर्मदामाहात्म्ये नानाविधतीर्थमाहात्म्यवर्णनम्।
मार्कण्डेय उवाच।
तदा प्रभृति ब्रह्माद्या ऋषयश्च तपोधनाः।
सेवन्ते नर्म्मदां राजन्! रागक्रोधविवर्जिताः ॥ १९१.१
युधिष्ठिर उवाच।
कस्मिन्निपतितं शूलं देवस्य तु महीतले।
तत्र पुण्यं समाख्याहि यथावत् मुनिसत्तम्! ॥ १९१.२
मार्कण्डेय उवाच।
शूलभेदेऽति विख्यातं तीर्थम्पुण्यतमं महत्।
तत्र स्नात्वाऽर्चयेद्देवं गोसहस्रफलं लभेत् ॥ १९१.३
त्रिरात्रं कारयेद्यस्तु तस्मिंस्तीर्थे नराधिप!।
अर्चयित्वा महादेवं पुनर्जन्म न विद्यते ॥ १९१.४
भीमेश्वरं ततो गच्छेन्नारदेश्वरमुत्तमम्।
आदित्येशं महापुण्यं तथाघृत मधुस्रवम् ॥ १९१.५
नन्दिकेशं परिष्वज्य पर्याप्तं जन्मनः फलम्।
वरुणेशं ततः पश्येत् स्वतन्त्रेश्वरमेव च ॥
सर्वतीर्थफलं तस्य पञ्चायतन दर्शनात् ॥ १९१.६
ततो गच्छेत्तु राजेन्द्र! युद्धं यत्र सुसाधितम्।
कोटितीर्थन्तु विख्यातमसुरा यत्र मोहिताः ॥ १९१.७
यत्रैव निहता राजन्! दानवा बलदर्पिताः।
तेषां शिरांस्यगृह्णन्त सर्वे देवाः समागताः ॥ १९१.८
तैस्तु संस्थापितो देवः शूलपाणिर्वृषध्वजः।
कोटिर्विनिहता तत्र तेन कोटीश्वरः स्मृतः ॥ १९१.९
दर्शनात्तस्य तीर्थस्य सदेहः स्वर्गमारुहेत्।
यदा त्विन्द्रेण क्षुद्रत्वात् वज्रङ्कीलेन यन्त्रितम् ॥ १९१.१०
तदा प्रभृति लोकानां स्वर्गमार्गो निवारितः।
सघृतं श्रीफलं जग्ध्वा कृत्वा चैष प्रदक्षिणम् ॥ १९१.११
पार्वतं सहदीपन्तु शिरसा चैव धारयेत्।
सर्वकामसुसम्पन्नो राजा भवति पाण्डव? ॥ १९१.१२
मृतो रुद्रत्वमाप्नोति ततोऽसौ जायते पुनः।
स्वर्गादेत्य भवेद्राजा राज्यं कृत्वा दिवं व्रजेत् ॥ १९१.१३
बहुनेत्रं ततः पश्येत् त्रयोदश्यान्तु मानवः।
स्नातमात्रो नरस्तत्र सर्वयज्ञफलं लभेत् ॥ १९१.१४
ततो गच्छेत्तु राजेन्द्र! तीर्थं परमशोभनम्।
नराणां पापनाशाय ह्यगस्त्येश्वरमुत्तमम् ॥ १९१.१५
तत्र स्नात्वा नरो राजन्! ब्रह्मलोके महीयते।
कार्तिकस्य तु मासस्य कृष्णपक्षे चतुर्दशी ॥ १९१.१६
घृतेन स्नापयेद्देवं समाधिस्थो जितेन्द्रियः।
एकविंशकुलोपेतो न च्यवेदैश्वरात् पुरात् ॥ १९१.१७
धेनुमुपाहनच्छत्रे दद्याच्च घृतकम्बलम्।
भोजनं चैव विप्राणां सर्वं कोटिगुणं भवेत् ॥ १९१.१८
ततो गच्छेच्च राजेन्द्र! वलाकेश्वरमुत्तमम्।
तत्र स्नात्वा नरो राजन्! सिंहासनपतिर्भवेत् ॥ १९१.१९
नर्मदा दक्षिणे कूले तीर्थं शक्रस्य विश्रुतम्।
उपोष्य रजनीमेकां स्नानं तत्र समाचरेत् ॥ १९१.२०
स्नानं कृत्वा यथान्यायमर्चयेच्च जनार्दनम्।
गोसहस्रफलं तस्य विष्णुलोकं स गच्छति ॥ १९१.२१
ऋषितीर्थं ततो गच्छेत् सर्वपापहरं नृणाम्।
स्नातमात्रो नरस्तत्र गोसहस्रफलं लभेत् ॥ १९१.२२
देवतीर्थं ततो गच्छेद् ब्रह्मणा निर्मितं पुरा।
तत्र स्नात्वा नरो राजन्! ब्रह्मलोके महीयते ॥ १९१.२३
अमरकण्टकं गच्छेदमरैः स्थापितं पुरा।
स्नातमात्रो नरस्तत्र रुद्रलोके महीयते ॥ १९१.२४
ततो गच्छेच्च राजेन्द्र! रावणेश्वरमुत्तमम्।
तत् पञ्चायतनं दृष्ट्वा मुच्यते ब्रह्महत्यया ॥ १९१.२५
ऋणतीर्थं ततो गच्छेदृणेभ्यो मुच्यते ध्रुवम्।
वदेश्वरं ततो दृष्ट्वा पर्याप्तं जन्मनः फलम् ॥ १९१.२६
भीमेश्वरं ततो गच्छेत् सर्वव्याधिविनाशनम्।
स्नातमात्रो नरो राजन्! सर्वदुःखैः प्रमुच्यते ॥ १९१.२७
ततो गच्छेत्तु राजेन्द्रु! तुरा सङ्गममुत्तमम्।
तत्र स्नात्वा महादेवमर्चयन्सिद्धिमाप्नुयात् ॥ १९१.२८
सोमतीर्थं ततो गच्छेत् पश्येच्चन्द्रमनुत्तमम्।
तत्र स्नात्वा नरो राजन्! भक्त्या परमया युतः ॥ १९१.२९
तत्क्षणाद्दिव्यदेहस्थः शिववन्मोदते चिरम्।
षष्टिवर्षसहस्राणि रुद्रलोके महीयते ॥ १९१.३०
ततो गच्छेत्तु राजेन्द्र! पिङ्गलेश्वरमुत्तमम्।
अहोरात्रोपवासेन त्रिरात्रफलमाप्नुयात् ॥ १९१.३१
तस्मिंस्तीर्थे तु राजेन्द्र! कपिलां यः प्रयच्छति।
यावन्ति तस्या रोमाणि तत्प्रसूतिकुलेषु च ॥ १९१.३२
तावद्वर्षसहस्राणि रुद्रलोके महीयते।
यस्तु प्राणपरित्यागं कुर्यात्तत्र नराधिप! ॥ १९१.३३
अक्षयं मोदते कालं यावच्चन्द्रदिवाकरौ।
नर्मदा तटमाश्रित्य तिष्ठेयुर्यत्र मानवाः ॥ १९१.३४
ते मृताः स्वर्गमायान्ति सन्तः सुकृतिनो यथा।
सुरेश्वरं ततो गच्छेन्नाम्ना कर्कोटकेश्वरम् ॥ १९१.३५
गङ्गावतरते तत्र दिने पुण्ये न संशयः।
नन्दितीर्थं ततो गच्छेत् स्नानं तत्र समाचरेत् ॥ १९१.३६
तुष्यते तस्य नन्दीशः सोमलोके महीयते।
ततो दीपेश्वरं गच्छेद्व्यासतीर्थं तपोवनम् ॥ १९१.३७
निवर्तिता पुरा तत्र व्यासभीता महानदी।
हुङ्कारिता तु व्यासेन दक्षिणेन ततो गता ॥ १९१.३८
प्रदक्षिणं तु यः कुर्यात् तस्मिन् तीर्थे नराधिप।
अक्षयं मोदते कालं यावच्चन्द्रदिवाकरौ ॥ १९१.३९
व्यासस्तस्य भवेत् प्रीतः प्राप्नुयादीप्सितं फलम्।
सूत्रेण वेष्टयित्वा तु दीपो देयः सवेदिकः ॥ १९१.४०
क्रीडन्ति ह्यक्षयं कालं यथा रुद्रस्तथैव च।
ततो गच्छेच्च राजेन्द्र! ऐरण्डी तीर्थमुत्तमम् ॥ १९१.४१
सङ्गमे तु नरः स्नात्वा मुच्यते सर्वपातकैः।
ऐरण्डी त्रिषु लोकेषु विख्याता पापनाशिनी ॥ १९१.४२
अथवाश्वयुजे मासि शुक्लपक्षे तु चाष्टमी।
शुचिर्भूत्वा नरः। स्नात्वा सोपवासपरायणः ॥ १९१.४३
ब्राह्मणं भोजयेदेकं कोटिर्भवति भोजिता।
मृत्तिकां शिरसि स्थाप्य ह्यवगाह्य च वै जलम् ॥ १९१.४४
नर्मदोदकसम्मिश्रं मुच्यते सर्वकिल्बिषैः।
प्रदक्षिणं तु यः कुर्यात् तस्मिन् तीर्थे नराधिप ॥ १९१.४५
प्रदक्षणीकृता तेन सप्तद्वीपा वसुन्धरा।
ततः सुवर्णसलिले स्नात्वा दत्त्वा तु काञ्चनम् ॥ १९१.४६
काञ्चनेन विमानेन रुद्रलोके महीयते।
ततः स्वर्गाच्च्युतः कालाद्राजा भवति वीर्यवान् ॥ १९१.४७
ततो गच्छेच्च राजेन्द्र! हीक्षुनद्यास्तु सङ्गमम्।
त्रैलोक्यविश्रुतं दिव्यं तत्र सन्निहितः शिवः ॥ १९१.४८
तत्र स्नात्वा नरो राजन्! गाणपत्यमवाप्नुयात्।
स्कन्दतीर्थं ततो गच्छेत् सर्वपापप्रणाशनम् ॥ १९१.४९
तत्तीर्थं त्रिविधं पापं स्नानमात्राद्व्यपोहति।
लिङ्गसारं ततो गच्छेत् स्नानं तत्र समाचरेत् ॥ १९१.५०
गोसहस्रफलं तस्य रुद्रलोके महीयते।
भङ्गतीर्थं ततो गच्छेत् सर्वपापप्रणाशनम् ॥ १९१.५१
तत्र गत्वा तु राजेन्द्र! स्नानं तत्र समाचरेत्।
सप्तजन्मकृतैः पापैर्मुच्यते नात्र संशयः ॥ १९१.५२
वटेश्वरं ततो गच्छेत् सर्वतीर्थमनुत्तमम्।
तत्र स्नात्वा नरो राजन्! गोसहस्रफलं लभेत् ॥ १९१.५३
सङ्गमेशन्ततो गच्छेत् सर्वदेवनमस्कृतम्।
स्नानमात्रान्नरस्तत्र चेन्द्रत्वं लभेत् ध्रुवम्॥ १९१.५४
कोटितीर्थं ततो गच्छेत् सर्वपापहरं परम्।
तत्र स्नात्वा नरो राज्यं लभते नात्र संशयः ॥ १९१.५५
तत्र तीर्थं समासाद्य दत्त्वा दानं तु यो नरः।
तस्य तीर्थप्रभावेण सर्वं कोटिगुणं भवेत् ॥ १९१.५६
अथ नरी भवेत् काचित् तत्र स्नानं समाचरेत्।
गौरीतुल्या भवेत् सापि त्विन्द्रपत्नी न संशयः ॥ १९१.५७
अङ्गारेशं ततो गच्छेत् स्नानं तत्र समाचरेत्।
स्नातमात्रो नरस्तत्र रुद्रलोके महीयते ॥ १९१.५८
अङ्गारक चतुर्थ्यान्तु स्नानं तत्र समाचरेत्।
अक्षयं मोदते कालं शुचिः प्रयतमानसः ॥ १९१.५९
अयोनिसम्भवे स्नात्वा न पश्येद्योनिसङ्कटम्।
पाण्डवेशन्तु तत्रैव स्नानं तत्र समाचरेत् ॥ १९१.६०
अक्षयं मोदते कालमबध्यैस्त्रिदशैरपि।
विष्णुलोकं ततो गत्वा क्रीडते भोगसंयुतः ॥ १९१.६१
तत्र भुक्त्वा महाभोगान् मर्त्यराजोऽभिजायते।
कठेश्वरं ततो गच्छेत्तत्र स्नानं समाचरेत् ॥ १९१.६२
उत्तरायण-सम्प्राप्तो यदिच्छेत् तस्य तद् भवेत्।
चन्द्रभागां ततो गच्छेत्तत्र स्नानं समाचरेत् ॥ १९१.६३
स्नातमात्रो नरो राजन्! सोमलोके महीयते।
ततो गच्छेत्तु राजेन्द्र! तीर्थं शक्रस्य विश्रुतम् ॥ १९१.६४
पूजितं देवराजेन देवैरपि नमस्कृम्।
तत्र स्नात्वा नरो राजन्! दानं दत्त्वा तु काञ्चनम् ॥ १९१.६५
अथवा नीलवर्णाभं वृषभं यः समुत्सृजेत्।
वृषभस्य तु रोमाणि तत्प्रसूतिकुलेषु च ॥ १९१.६६
तावद्वर्षसहस्राणि नरो हरपुरे वसेत्।
ततः स्वर्गात्परिभ्रष्टो राजा भवति वीर्यवान् ॥ १९१.६७
अश्वानां श्वेतवर्णानां सहस्राणां नराधिप!।
स्वामी भवति मर्त्येषु तस्य तीर्थप्रभावतः ॥ १९१.६८
ततो गच्छेत्तु राजेन्द्र! ब्रह्मावर्तमनुत्तमम्।
तत्र स्नात्वा नरो राजन्! तर्पयेत् पितृदेवताः ॥ १९१.६९
उपोष्य रजनीमेकां पिण्डं दत्त्वा यथाविधि।
कन्यागते तथादित्ये अक्षयं स्यान्नराधिप! ॥ १९१.७०
ततो गच्छेच्च राजेन्द्र! कपिला तीर्थमुत्तमम्।
तत्र स्नात्वा नरो राजन्! कपिलां यः प्रयच्छति ॥ १९१.७१
सम्पूर्णपृथिवीं दत्त्वा यत् फलं तदवाप्नुयात्।
नर्मदेशं परं तीर्थं न भूतं न भविष्यति ॥ १९१.७२
तत्र स्नात्वा नरो राजन्नश्वमेधफलं लभेत्।
नर्मदा दक्षिणे कूले सङ्गमेश्वरमुत्तमम् ॥ १९१.७३
तत्र स्नात्वा नरो राजन्! सर्वयज्ञफलं लभेत्।
तत्र सर्वाद्यतो राजा पृथिव्यामेव जायते ॥ १९१.७४
सर्वलक्षणसम्पूर्णः सर्वव्याधिविवर्जितः।
नर्मदे चोत्तरे कूले तीर्थं परमशोभनम् ॥ १९१.७५
आदित्यायतनं दिव्यमीश्वरेण तु भाषितम्।
तस्य तीर्थप्रभावेण दत्तं भवति चाक्षयम् ॥ १९१.७६
हरिद्रा व्याधिनो ये तु ये च दुष्कृतकर्मिणः।
मुच्यन्ते सर्वपापेभ्यः सूर्यलोकं तु यान्ति ते ॥ १९१.७७
माघमासे तु सम्प्राप्ते शुक्लपक्षस्य सप्तमी।
वसेदायतने तत्र निराहारो जितेन्द्रियः ॥ १९१.७८
न जरा व्याधितो मूको न चान्धो बधिरोऽथवा।
सुभगो रूपसम्पन्नः स्त्रीणां भवति वल्लभः ॥ १९१.७९
एवं तीर्थं महापुण्यं मार्कण्डेयेन भाषितम्।
ये न जानन्ति राजेन्द्र! वञ्चितास्ते न संशयः ॥ १९१.८०
गर्गेश्वरं ततो गच्छेत् स्नानं तत्र समाचरेत्।
स्नातमात्रो नरस्तत्र स्वर्गलोकमवाप्नुयात् ॥ १९१.८१
मोदते स्वर्गलोकस्थो यावदिन्द्राश्चतुर्दश।
समीपतः स्थितं तस्य नागेश्वर तपोवनम् ॥ १९१.८२
तत्र स्नात्वा तु राजेन्द्र! नागलोकमवाप्नुयात्।
वह्निभिर्नागकन्याभिः क्रीडते कालमक्षयम् ॥ १९१.८३
कुबेरभवनं गच्छेत् कुबेरो यत्र संश्थितः।
कालेश्वरं परं तीर्थं कुबेरो यत्र तोषितः ॥ १९१.८४
तत्र स्नात्वा तु राजेन्द्र! सर्वसम्पदमाप्नुयात्।
ततः पश्चिमतो गच्छेत् मारुतालयमुत्तमम् ॥ १९१.८५
तत्र स्नात्वा तु राजेन्द्र! शुचिर्भूत्वा समाहितः।
काञ्चनं तु ततो दद्याद्यथाशक्ति सुबुद्धिमान् ॥ १९१.८६
पुष्पकेण विमानेन वायुलोकं स गच्छति।
यमतीर्थं ततो गच्छेत् माघमासे युधिष्ठिर! ॥ १९१.८७
कृष्णपक्षे चतुर्दश्यां स्नानं तत्र समाचरेत्।
नक्तम्भोज्यं ततः कुर्य्यान्नपश्येद्योनिसङ्कटम् ॥ १९१.८९
अहल्या तीर्थं ततो गच्छेत् स्नानं तत्र समाचरेत्।
स्नातमात्रो नरस्तत्र ह्यप्सरोभिः प्रमोदते ॥ १९१.८९
अहल्या च तपस्तप्त्वा तत्र मुक्तिमुपागता।
चैत्रमासे तु सम्प्राप्ते शुक्लपक्षे चतुर्दशी ॥ १९१.९०
कामदेवदिने तस्मिन्नहल्यां यस्तु पूजयेत्।
यत्र यत्र नरोत्पन्नो वरस्तत्र प्रियो भवेत् ॥ १९१.९१
स्त्रीवल्लभो भवेच्छ्रीमान् कामदेव इवापरः।
अयोध्यान्तु समासाद्य तीर्थं रामस्य विश्रुतम् ॥ १९१.९२
स्नातमात्रो नरस्तत्र सर्वपापैः प्रमुच्यते।
सोमतीर्थं ततो गच्छेत् स्नानं तत्र समाचरेत् ॥ १९१.९३
स्नातमात्रो नरस्तत्र सर्वपापैः प्रमुच्यते।
सोमग्रहे तु राजेन्द्र! पापक्षयकरं नृणाम् ॥ १९१.९४
त्रैलोक्यविश्रुतं राजन्! सोमतीर्थं महाफलम्।
यस्तु चान्द्रायणं कुर्यात्तस्मिंस्तीर्थे नराधिप! ॥ १९१.९५
सर्वपापविशुद्धात्मा सोमलोकं स गच्छति।
अग्निप्रवेशेऽथ जले अथवापि ह्यनाशके ॥ १९१.९६
सोमतीर्थे मृतो यस्तु नाऽसौ मर्त्येऽभिजायते।
शुभतीर्थं ततो गच्छेत् स्नानं तत्र समाचरेत् ॥ १९१.९७
स्नातमात्रो नरस्तत्र गोलोकेषु महीयते।
ततो गच्छेच्च राजेन्द्र! विष्णुतीर्थमनुत्तमम् ॥ १९१.९८
योधनी पुरमाख्यातं विष्णुस्थानमनुत्तमम्।
असुरा योधितास्तत्र वासुदेवेन कोटिशः ॥ १९१.९९
तत्र तीर्थं समुत्पन्नं विष्णुः प्रीतो भवेदिह।
अहोरात्रोपवासेन ब्रह्महत्यां व्यपोहति ॥ १९१.१००
ततो गच्छेत् तु राजेन्द्र! तापसेश्वसमुत्तमम्।
हरिणीव्याधसन्त्रस्ता पतिता यत्र सा मृगी ॥ १९१.१०१
जले प्रक्षिप्त यात्रा तु अन्तरिक्षं गता च सा
व्याधो विस्मित चित्तस्तु परं विस्मयमागतः ॥ १९१.१०२
तेन तापेश्वरं तीर्थं न भूतं न भविष्यति।
ततो गच्छेत्तु राजेन्द्र! ब्रह्मतीर्थमनुत्तमम् ॥ १९१.१०३
अमोहकमिति ख्यातं पितृंश्वैवात्र तर्पयेत्।
पौर्णमास्याममायान्तु श्राद्धं कुर्याद्यथाविधि ॥ १९१.१०४
तत्र स्नात्वा नरो राजन्! पितृपिण्डन्तु दापयेत्।
गजरूपा शिला तत्र तोयमध्ये प्रतिष्ठिता ॥ १९१.१०५
तस्यान्तु दापयेत् पिण्डं वैशाख्यान्तु विशेषतः।
तृप्यन्ति पितरस्तत्र यावत्तिष्ठति मेदिनी ॥ १९१.१०६
ततो गच्छेच्च राजेन्द्र! सिद्धेश्वरमनुत्तमम्।
तत्र स्नात्वा नरो राजन्! गणपत्यन्तिकं व्रजेत् ॥ १९१.१०७
ततो गच्छेत्तु राजेन्द्र! लिङ्गो यत्र जनार्दनः।
तत्र स्नात्वा तु राजेन्द्र! विष्णुलोके महीयते ॥ १९१.१०८
नर्मदा दक्षिणे कूले तीर्थं परमशोभनम्।
वामदेवः स्वयं तत्र तपोऽतप्यत वै महत् ॥ १९१.१०९
दिव्यं वर्ष सहस्रन्तु हुताशः शुक्रपर्वणि।
एते दग्धास्तु ते सर्वे कुसुमेश्वर संस्थिताः ॥ १९१.११०
श्वेतपर्वा यमश्चैव हुताशः शुक्रपर्वणि।
एते दग्धास्तु ते सर्वे कुसुमेश्वर संस्थिताः ॥ १९१.१११
श्वेतपर्वा यमश्चैव हुताशः शुक्रपर्वणि।
एते दग्धास्तु ते सर्वे कुसुमेश्वर संश्थिताः ॥ १९१.११२
मोक्षयित्वा तु तान् सर्वान् नर्मदा तटमास्थितः।
ततस्तीर्थप्रभावेण पुनर्देवत्वमागताः ॥ १९१.११३
त्वत्प्रसादान्महादेव! तीर्थं भवतु चोत्तमम्।
अर्द्धयोजनविस्तीर्णं क्षेत्रं दिक्षु समन्ततः ॥ १९१.११४
तस्मिन्तीर्थे नरः स्नात्वा चोपवासपरायणः।
कुसुमायुधरूपेण रुद्रलोके महीयते ॥ १९१.११५
वैश्वानरो यमाश्चैव कामदेवस्तथा मरुत्।
तपस्तप्त्वा तु राजेन्द्र! परां सिद्धिमवाप्नुयुः ॥ १९१.११६
अङ्कोलस्य समीपे तु नास्तिदूरे तु तस्य वै।
स्नानं दानञ्च तत्रैव भोजनं पिण्डमेव च ॥ १९१.११७
अग्निप्रवेशेऽथ जले अथवा तुह्यनाशके।
अनिवर्तिका गतिस्तस्य मृतस्यामुत्र जायते ॥ १९१.११८
त्र्यम्बकेन तु तोयेन यश्चरुं श्रपयेन्नरः।
अङ्कोलमूले दत्त्वा तु पिण्डं चैव यथाविधि ॥ १९१.११९
तृप्यन्ति पितरस्तस्य यावच्चन्द्रदिवाकरौ।
उत्तरे त्वयने प्राप्ते घृतस्नानङ्करोति यः ॥ १९१.१२०
पुरुषो वाथ स्त्री वापि वसेदायतने शुचिः।
सिद्धेश्वरस्य देवस्य प्रातः पूजां प्रकल्पयेत् ॥ १९१.१२१
स यां गतिमवाप्नोति न तां सर्वैर्महामखैः।
यदावतीर्णः कालेन रूपवान् शुभगो भवेत् ॥ १९१.१२२
मर्त्ये भवति राजा च त्वासमुद्रान्त-गोचरे।
क्षेत्रपालं न पश्येत्तु दण्डपाणिं महाबलम् ॥ १९१.१२३
वृथा तस्य भवेद्यात्रा ह्यदृष्ट्वा कर्णकुण्डलम्।
एवं तीर्थफलं ज्ञात्वा सर्वे देवाः समागताः
मुञ्चन्ति कुसुमैर्वृष्टिं तेन तत् कुसुमेश्वरम् ॥ १९१.१२४